गृहीतं च ततस्ताभ्यां तस्याभ्यासो दृढः कृतः । तदा सौदामनी दृष्टा ताभ्यां खे चोत्थिता शुभा
ताभ्यां विचारितं तत्र मन्त्रोऽयं नात्र संशयः । तथा ध्यानमिदं दृष्टं गगने सगुणं किल
निराहारौ जितात्मानौ तन्मनस्कौ समाहितौ । बभूवतुर्विचिन्त्यैवं जपध्यानपरायणौ
एवं वर्षसहस्रं तु ताभ्यां तप्तं महत्तपः । प्रसन्ना परमा शक्तिर्जाता सा परमा तयोः
खिन्नौ तौ दानवौ दृष्ट्वा तपसे कृतनिश्चयौ । तयोरनुग्रहार्थाय वागुवाचाशरीरिणी
वरं वां वाञ्छितं दैत्यौ ब्रूतं परमसम्मतम् । ददामि परितुष्टास्मि युवयोस्तपसा किल
सूत उवाच इति श्रुत्वा तु तां वाणीं दानवावूचतुस्तदा । स्वेच्छया मरणं देवि वरं नौ देहि सुव्रते
वागुवाच वाञ्छितं मरणं दैत्यौ भवेद्वा मत्प्रसादतः । अजेयौ देवदैत्यैश्च भ्रातरौ नात्र संशयः
सूत उवाच इति दत्तवरौ देव्या दानवौ मददर्पितौ । चक्रतुः सागरे क्रीडां यादोगणसमन्वितौ
कालेन कियता विप्रा दानवाभ्यां यदृच्छया । दृष्टः प्रजापतिर्ब्रह्मा पद्मासनगतः प्रभुः
दृष्ट्वा तु मुदितावास्तां युद्धकामौ महाबलौ । तमूचतुस्तदा तत्र युद्धं नौ देहि सुव्रत
नोचेत्पद्मं परित्यज्य यथेष्टं गच्छ माचिरम् । यदि त्वं निर्बलश्चासि क्व योग्यं शुभमासनम्
वीरभोग्यमिदं स्थानं कातरोऽसि त्यजाशु वै । तयोरिति वचः श्रुत्वा चिन्तामाप प्रजापतिः
दृष्ट्वा च बलिनौ वीरौ किं करोमीति तापसः । चिन्ताविष्टस्तदा तस्थौ चिन्तयन्मनसा तदा
विष्णुप्रबोधः सूत उवाच तौ वीक्ष्य बलिनौ ब्रह्मा तदोपायानचिन्तयत् । सामदानभिदादींश्च युद्धान्तान्सर्वतन्त्रवित्
न जानेऽहं बलं नूनमेतयोर्वा यथातथम् । अज्ञाते तु बले कामं नैव युद्धं प्रशस्यते
स्तुतिं करोमि चेदद्य दुष्टयोर्मदमत्तयोः । प्रकाशितं भवेन्नूनं निर्बलत्वं मया स्वयम्
वधिष्यति तदैकोऽपि निर्बलत्वे प्रकाशिते । दानं नैवाद्य योग्यं वा भेदः कार्यो मया कथम्
विष्णुं प्रबोधयाम्यद्य शेषे सुप्तं जनार्दनम् । चतुर्भुजं महावीर्यं दुःखहा स भविष्यति
इति सञ्चिन्त्य मनसा पद्मनालगतोऽब्जजः । जगाम शरणं विष्णुं मनसा दुःखनाशकम्
तुष्टाव बोधनार्थं तं शुभैः सम्बोधनैर्हरिम् । नारायणं जगन्नाथं निस्पन्दं योगनिद्रया
ब्रह्मोवाच दीननाथ हरे विष्णो वामनोत्तिष्ठ माधव । भक्तार्तिहृद्धृषीकेश सर्वावास जगत्पते
अन्तर्यामिन्नमेयात्मन्वासुदेव जगत्पते । दुष्टारिनाशनैकाग्रचित्त चक्रगदाधर
सर्वज्ञ सर्वलोकेश सर्वशक्तिसमन्वित । उत्तिष्ठोत्तिष्ठ देवेश दुःखनाशन पाहि माम्
विश्वम्भर विशालाक्ष पुण्यश्रवणकीर्तन । जगद्योने निराकार सर्गस्थित्यन्तकारक
इमौ दैत्यौ महाराज हन्तुकामौ मदोद्धतौ । न जानास्यखिलाधार कथं मां सङ्कटे गतम्
उपेक्षसेऽतिदुःखार्तं यदि मां शरणं गतम् । पालकत्वं महाविष्णो निराधारं भवेत्ततः
एवं स्तुतोऽपि भगवान् न बुबोध यदा हरिः । योगनिद्रासमाक्रान्तस्तदा ब्रह्मा ह्यचिन्तयत्
नूनं शक्तिसमाक्रान्तो विष्णुर्निद्रावशं गतः । जजागार न धर्मात्मा किं करोम्यद्य दुःखितः
हन्तुकामावुभौ प्राप्तौ दानवौ मदगर्वितौ । किं करोमि क्व गच्छामि नास्ति मे शरणं क्वचित्