परस्परसमुत्कर्षः कथ्यते हि परस्परम् । तं चेत्करोषि संयोगं वीरेण च मया सह
अत्युत्तमसुखस्यैव प्राप्तिः स्यात्ते न संशयः । नानाविधानि रूपाणि करोमि स्वेच्छया प्रिये
इन्द्रादयः सुराः सर्वे संग्रामे विजिता मया । रत्नानि यानि दिव्यानि भवनेऽस्मिन्ममाधुना
भुंक्ष्व त्वं तानि सर्वाणि यथेष्टं देहि वा यथा । पट्टराज्ञी भवाद्य त्वं दासोऽस्मि तव सुन्दरि
वैरं त्यजेऽहं देवैस्तु तव वाक्यान्न संशयः । यथा त्वं सुखमाप्नोषि तथाहं करवाणि वै
आज्ञापय विशालाक्षि तथाहं प्रकरोम्यथ । चित्तं मे तव रूपेण मोहितं चारुभाषिणि
आतुरोऽस्मि वरारोहे प्राप्तस्ते शरणं किल । प्रपन्नं पाहि रम्भोरु कामबाणैः प्रपीडितम्
धर्माणामुत्तमो धर्मः शरणागतरक्षणम् । त्वदीयोऽस्म्यसितापाङ्गि सेवकोऽहं कृशोदरि
मरणान्तं वचः सत्यं नान्यथा प्रकरोम्यहम् । पादौ नतोऽस्मि तन्वङ्गि त्यक्त्वा नानायुधानि ते
दयां कुरु विशालाक्षि तप्तोऽस्मि काममार्गणैः । जन्मप्रभृति चार्वङ्गि दैन्यं नाचरितं मया
ब्रह्मादीनीश्वरान्प्राप्य त्वयि तद्विदधाम्यहम् । चरितं मम जानन्ति रणे ब्रह्मादयः सुराः
सोऽप्यहं तव दासोऽस्मि मन्मुखं पश्य भामिनि । व्यास उवाच इति ब्रुवाणं तं दैत्यं देवी भगवती हि सा
प्रहस्य सस्मितं वाक्यमुवाच वरवर्णिनी । देव्युवाच नाहं पुरुषमिच्छामि परमं पुरुषं विना
तस्य चेच्छास्म्यहं दैत्य सृजामि सकलं जगत् । स मां पश्यति विश्वात्मा तस्याहं प्रकृतिः शिवा
तत्सान्निध्यवशादेव चैतन्यं मयि शाश्वतम् । जडाहं तस्य संयोगात्प्रभवामि सचेतना
अयस्कान्तस्य सान्निध्यादयसश्चेतना यथा । न ग्राम्यसुखवाञ्छा मे कदाचिदपि जायते
मूर्खस्त्वमसि मन्दात्मन् यत्स्त्रीसङ्गं चिकीर्षसि । नरस्य बन्धनार्थाय शृङ्खला स्त्री प्रकीर्तिता
लोहबद्धोऽपि मुच्येत स्त्रीबद्धो नैव मुच्यते । किमिच्छसि च मन्दात्मन् मूत्रागारस्य सेवनम्
शमं कुरु सुखाय त्वं शमात्सुखमवाप्स्यसि । नारीसङ्गे महद्दुःखं जानन्किं त्वं विमुह्यसि
त्यज वैरं सुरैः सार्धं यथेष्टं विचरावनौ । पातालं गच्छ वा कामं जीवितेच्छा यदस्ति ते
अथवा कुरु संग्रामं बलवत्यस्मि साम्प्रतम् । प्रेषिताहं सुरैः सर्वैस्तव नाशाय दानव
सत्यं ब्रवीमि येनाद्य त्वया वचनसौहृदम् । दर्शितं तेन तुष्टास्मि जीवन्गच्छ यथासुखम्
सतां सप्तपदी मैत्री तेन मुञ्चामि जीवितम् । मरणेच्छास्ति चेद्युद्धं कुरु वीर यथासुखम्
हनिष्यामि महाबाहो त्वामहं नात्र संशयः । व्यास उवाच इति तस्या वचः श्रुत्वा दानवः काममोहितः
उवाच श्लक्ष्णया वाचा मधुरं वचनं ततः । बिभेम्यहं वरारोहे त्वां प्रहर्तुं वरानने
कोमलां चारुसर्वाङ्गीं नारीं नरविमोहिनीम् । जित्वा हरिहरादींश्च लोकपालांश्च सर्वशः
किं त्वया सह युद्धं मे युक्तं कमललोचने । रोचते यदि चार्वङ्गि विवाहं कुरु मां भज
नोचेद् गच्छ यथेष्टं ते देशं यस्मात्समागता । नाहं त्वां प्रहरिष्यामि यतो मैत्री कृता त्वया
हितमुक्तं शुभं वाक्यं तस्माद् गच्छ यथासुखम् । का शोभा मे भवेदन्ते हत्वा त्वां चारुलोचनाम्
स्त्रीहत्या बालहत्या च ब्रह्महत्या दुरत्यया । गृहीत्वा त्वां गृहं नूनं गच्छाम्यद्य वरानने