सूतोऽपि रथमानीय तमुवाच त्वरान्वितः । राजन् रथोऽयमानीतो द्वारि तिष्ठति भूषितः
सर्वायुधसमायुक्तो वरास्तरणसंयुतः । आनीतं तं रथं ज्ञात्वा दानवेन्द्रो महाबलः
मानुषं देहमास्थाय संग्रामे गन्तुमुद्यतः । विचार्य मनसा चेति देवी मां प्रेक्ष्य दुर्मुखम्
शृङ्गिणं महिषं नूनं विमना सा भविष्यति । नारीणां च प्रियं रूपं तथा चातुर्यमित्यपि
तस्माद्रूपं च चातुर्यं कृत्वा यास्यामि तां प्रति । यथा मां वीक्ष्य सा बाला प्रेमयुक्ता भविष्यति
ममापि च तदैव स्यात्सुखं नान्यस्वरूपतः । इति सञ्चिन्त्य मनसा दानवेन्द्रो महाबलः
त्यक्त्वा तन्माहिषं रूपं बभूव पुरुषः शुभः । सर्वायुधधरः श्रीमांश्चारुभूषणभूषितः
दिव्याम्बरधरः कान्तः पुष्पबाण इवापरः । रथोपविष्टः केयूरस्रग्वी बाणधनुर्धरः
सेनापरिवृतो देवीं जगाम मदगर्वितः । मनोज्ञं रूपमास्थाय मानिनीनां मनोहरम्
तमागतं समालोक्य दैत्यानामधिपं तदा । बहुभिः संवृतं वीरैर्देवी शङ्खमवादयत्
स शङ्खनिनदं श्रुत्वा जनविस्मयकारकम् । समीपमेत्य देव्यास्तु तामुवाच हसन्निव
देवि संसारचक्रेऽस्मिन्वर्तमानो जनः किल । नरो वाथ तथा नारी सुखं वाञ्छति सर्वथा
सुखं संयोगजं नॄणां नासंयोगे भवेदिह । संयोगो बहुधा भिन्नस्तान्ब्रवीमि शृणुष्व ह
भेदान्सुप्रीतिहेतूत्थान्स्वभावोत्थाननेकशः । तत्र प्रीतिभवानादौ कथयामि यथामति
मातापित्रोस्तु पुत्रेण संयोगस्तूत्तमः स्मृतः । भ्रातुर्भ्रात्रा तथा योगः कारणान्मध्यमो मतः
उत्तमस्य सुखस्यैव दातृत्वादुत्तमः स्मृतः । तस्मादल्पसुखस्यैव प्रदातृत्वाच्च मध्यमः
नाविकानां तु संयोगः स्मृतः स्वाभाविको बुधैः । विविधावृतचित्तानां प्रसङ्गपरिवर्तिनाम्
अत्यल्पसुखदातृत्वात्कनिष्ठोऽयं स्मृतो बुधैः । अत्युत्तमस्तु संयोगः संसारे सुखदः सदा
नारीपुरुषयोः कान्ते समानवयसो सदा । संयोगो यः समाख्यातः स एवात्युत्तमः स्मृतः
अत्युत्तमसुखस्यैव दातृत्वात्स तथाविधः । चातुर्यरूपवेषाद्यैः कुलशीलगुणैस्तथा
परस्परसमुत्कर्षः कथ्यते हि परस्परम् । तं चेत्करोषि संयोगं वीरेण च मया सह
अत्युत्तमसुखस्यैव प्राप्तिः स्यात्ते न संशयः । नानाविधानि रूपाणि करोमि स्वेच्छया प्रिये
इन्द्रादयः सुराः सर्वे संग्रामे विजिता मया । रत्नानि यानि दिव्यानि भवनेऽस्मिन्ममाधुना
भुंक्ष्व त्वं तानि सर्वाणि यथेष्टं देहि वा यथा । पट्टराज्ञी भवाद्य त्वं दासोऽस्मि तव सुन्दरि
वैरं त्यजेऽहं देवैस्तु तव वाक्यान्न संशयः । यथा त्वं सुखमाप्नोषि तथाहं करवाणि वै
आज्ञापय विशालाक्षि तथाहं प्रकरोम्यथ । चित्तं मे तव रूपेण मोहितं चारुभाषिणि
आतुरोऽस्मि वरारोहे प्राप्तस्ते शरणं किल । प्रपन्नं पाहि रम्भोरु कामबाणैः प्रपीडितम्
धर्माणामुत्तमो धर्मः शरणागतरक्षणम् । त्वदीयोऽस्म्यसितापाङ्गि सेवकोऽहं कृशोदरि
मरणान्तं वचः सत्यं नान्यथा प्रकरोम्यहम् । पादौ नतोऽस्मि तन्वङ्गि त्यक्त्वा नानायुधानि ते
दयां कुरु विशालाक्षि तप्तोऽस्मि काममार्गणैः । जन्मप्रभृति चार्वङ्गि दैन्यं नाचरितं मया