ऊर्ध्वं सव्यं करं कृत्वा तामुवाच मितं वचः । देवि जानामि मरणं दानवानां दुरात्मनाम्
तथापि युद्धं कर्तव्यं पराधीनेन वै मया । महिषो मन्दबुद्धिश्च न जानाति प्रियाप्रिये
तदग्रे नैव वक्तव्यं हितं चैवाप्रियं मया । मर्तव्यं वीरधर्मेण शुभं वाप्यशुभं भवेत्
दैवमेव परं मन्ये धिपौरुषमनर्थकम् । पतन्ति दानवास्तूर्णं तव बाणहता भुवि
इत्युक्त्वा शरवृष्टिं स चकार दानवोत्तमः । देवी चिच्छेद तान्बाणैरप्राप्तांस्तु निजान्तिके
अन्यैर्विव्याध तं तूर्णमसिलोमानमाशुगैः । वीक्षितामरसङ्घैश्च कोपपूर्णानना तदा
शुशुभे दानवः कामं बाणैर्विद्धतनुः किल । स्रवद्रुधिरधारः स प्रफुल्लः किंशुको यथा
असिलोमा गदां गुर्वीं लौहीमुद्यम्य वेगतः । दुद्राव चण्डिकां कोपात्सिंहं मूर्ध्नि जघान ह
सिंहोऽपि नखराघातैस्तं ददार भुजान्तरे । अगणय्य गदाघातं कृतं तेन बलीयसा
उत्पत्य तरसा दैत्यो गदापाणिः सुदारुणः । सिंहमूर्ध्नि समारुह्य जघान गदयाम्बिकाम्
कृतं तेन प्रहारं तु वञ्चयित्वा विशांपते । खड्गेन शितधारेण शिरश्चिच्छेद कण्ठतः
छिन्ने शिरसि दैत्येन्द्रः पपात तरसा क्षितौ । हाहाकारो महानासीत्सैन्ये तस्य दुरात्मनः
जय देवीति देवास्ता तुष्टुवुर्जगदम्बिकाम् । देवदुन्दुभयो नेदुर्जगुश्च नृप किन्नराः
निहतौ दानवौ वीक्ष्य पतितौ च रणाङ्गणे । निहताः सैनिकाः सर्वे तत्र केसरिणा बलात्
भक्षिताश्च तथा केचिन्निःशेषं तद्रणं कृतम् । भग्नाः केचिद् गता मन्दा महिषं प्रति दुःखिताः
चुक्रुशू रुरुदुश्चैव त्राहि त्राहीति भाषणैः । असिलोमबिडालाख्यौ निहतौ नृपसत्तम
अन्ये ये सैनिका राजन् सिंहेन भक्षिताश्च ते । एवं ब्रुवन्तो राजानं तदा चक्रुश्च वैशसम्
तच्छ्रुत्वा वचनं तेषां महिषो दुर्मनास्तदा । बभूव चिन्ताकुलितो विमना दुःखसंयुतः
महिषद्वारा देवीप्रबोधनम् व्यास उवाच तेषां तद्वचनं श्रुत्वा क्रोधयुक्तो नराधिपः । दारुकं प्राह तरसा रथमानय मेऽद्भुतम्
सहस्रखरसंयुक्तं पताकाध्वजभूषितम् । आयुधैः संयुतं शुभ्रं सुचक्रं चारुकूबरम्
सूतोऽपि रथमानीय तमुवाच त्वरान्वितः । राजन् रथोऽयमानीतो द्वारि तिष्ठति भूषितः
सर्वायुधसमायुक्तो वरास्तरणसंयुतः । आनीतं तं रथं ज्ञात्वा दानवेन्द्रो महाबलः
मानुषं देहमास्थाय संग्रामे गन्तुमुद्यतः । विचार्य मनसा चेति देवी मां प्रेक्ष्य दुर्मुखम्
शृङ्गिणं महिषं नूनं विमना सा भविष्यति । नारीणां च प्रियं रूपं तथा चातुर्यमित्यपि
तस्माद्रूपं च चातुर्यं कृत्वा यास्यामि तां प्रति । यथा मां वीक्ष्य सा बाला प्रेमयुक्ता भविष्यति
ममापि च तदैव स्यात्सुखं नान्यस्वरूपतः । इति सञ्चिन्त्य मनसा दानवेन्द्रो महाबलः
त्यक्त्वा तन्माहिषं रूपं बभूव पुरुषः शुभः । सर्वायुधधरः श्रीमांश्चारुभूषणभूषितः
दिव्याम्बरधरः कान्तः पुष्पबाण इवापरः । रथोपविष्टः केयूरस्रग्वी बाणधनुर्धरः
सेनापरिवृतो देवीं जगाम मदगर्वितः । मनोज्ञं रूपमास्थाय मानिनीनां मनोहरम्
तमागतं समालोक्य दैत्यानामधिपं तदा । बहुभिः संवृतं वीरैर्देवी शङ्खमवादयत्