न्यायान्यायौ च भूतानां पश्यन्ती साक्षिरूपिणी । न मे कदापि भोगेच्छा न लोभो न च वैरिता
धर्मार्थं विचराम्यत्र संसारे साधुरक्षणम् । व्रतमेतत्तु नियतं पालयामि निजं सदा
साधूनां रक्षणं कार्यं हन्तव्या येऽप्यसाधवः । वेदसंरक्षणं कार्यमवतारैरनेकशः
युगे युगे तानेवाहमवतारान्बिभर्मि च । महिषस्तु दुराचारो देवान्वै हन्तुमुद्यतः
ज्ञात्वाहं तद्वधार्थं भोः प्राप्तास्मि राक्षसाधुना । तं हनिष्ये दुराचारं सुरशत्रुं महाबलम्
गच्छ वा तिष्ठ कामं त्वं सत्यमेतदुदाहृतम् । ब्रूहि वा तं दुरात्मानं राजानं महिषीसुतम्
किमन्यान् प्रेषयस्यत्र स्वयं युद्धं कुरुष्व ह । सन्धिञ्चेत्कर्तुमिच्छास्ति राज्ञस्तव मया सह
सर्वे गच्छन्तु पातालं वैरं त्यक्त्वा यथासुखम् । देवद्रव्यं तु यत्किञ्चिद्धृतं जित्वा रणे सुरान् । तद्दत्त्वा यान्तु पातालं प्रह्लादो यत्र तिष्ठति
व्यास उवाच तच्छुत्वा वचनं देव्या असिलोमा पुरःस्थितः । बिडालाख्यं महावीरं पप्रच्छ प्रीतिपूर्वकम्
असिलोमोवाच श्रुतं तेऽद्य बिडालाख्य भवान्या कथितं च यत् । एवं गते किं कर्तव्यो विग्रहः सन्धिरेव वा
बिडालाख्य उवाच न सन्धिकामोऽस्ति नृपोऽभिमानी युद्धे च मृत्युं नियतं हि जानन् । दृष्ट्वा हतान् प्रेरयते तथास्मा- न्दैव हि कोऽतिक्रमितुं समर्थः
(दुःसाध्य एवास्त्विह सेवकानां धर्मः सदा मानविवर्जितानाम् । आज्ञापराणां वशवर्तिकानां पाञ्चालिकानामिव सूत्रभेदात् ॥) गत्वा कथं तस्य पुरस्त्वया च मयापि वक्तव्यमिदं कठोरम् । गच्छन्तु पातालमितश्च सर्वे दत्त्वाथ रत्नानि धनं सुराणाम्
(प्रियं हि वक्तव्यमसत्यमेव न च प्रियं स्याद्धितकृत्तु भाषितम् । सत्यं प्रियं नो भवतीह कामं मौनं ततो बुद्धिमतां प्रतिष्ठितम्
न नूनं तत्र गन्तव्यं हितं वा वक्तुमादरात् । प्रष्टुं वापि गते राजा कोपयुक्तो भविष्यति
इति सञ्चिन्त्य कर्तव्यं युद्धं प्राणस्य संशये । स्वामिकार्यं परं मत्वा मरणं तृणवत्तथा
व्यास उवाच इति सञ्चिन्त्य तौ वीरौ संस्थितौ युद्धतत्परौ । धनुर्बाणधरौ तत्र सन्नद्धौ रथसङ्गतौ
प्रथमं तु बिडालाख्यः सप्तबाणान्मुमोच ह । असिलोमा स्थितो दूरे प्रेक्षकः परमास्त्रवित्
चिच्छेद तांस्तथाप्राप्तानम्बिका स्वशरैः शरान् । बिडालाख्यं त्रिभिर्बाणैर्जघान च शिलाशितैः
प्राप्य बाणव्यथां दैत्यः पपात समराङ्गणे । मूर्च्छितोऽथ ममाराशु दानवो दैवयोगतः
बिडालाख्यं हतं दृष्ट्वा रणे शक्तिशरोत्करैः । असिलोमा धनुष्पाणिः संस्थितो युद्धतत्परः
ऊर्ध्वं सव्यं करं कृत्वा तामुवाच मितं वचः । देवि जानामि मरणं दानवानां दुरात्मनाम्
तथापि युद्धं कर्तव्यं पराधीनेन वै मया । महिषो मन्दबुद्धिश्च न जानाति प्रियाप्रिये
तदग्रे नैव वक्तव्यं हितं चैवाप्रियं मया । मर्तव्यं वीरधर्मेण शुभं वाप्यशुभं भवेत्
दैवमेव परं मन्ये धिपौरुषमनर्थकम् । पतन्ति दानवास्तूर्णं तव बाणहता भुवि
इत्युक्त्वा शरवृष्टिं स चकार दानवोत्तमः । देवी चिच्छेद तान्बाणैरप्राप्तांस्तु निजान्तिके
अन्यैर्विव्याध तं तूर्णमसिलोमानमाशुगैः । वीक्षितामरसङ्घैश्च कोपपूर्णानना तदा
शुशुभे दानवः कामं बाणैर्विद्धतनुः किल । स्रवद्रुधिरधारः स प्रफुल्लः किंशुको यथा
असिलोमा गदां गुर्वीं लौहीमुद्यम्य वेगतः । दुद्राव चण्डिकां कोपात्सिंहं मूर्ध्नि जघान ह
सिंहोऽपि नखराघातैस्तं ददार भुजान्तरे । अगणय्य गदाघातं कृतं तेन बलीयसा
उत्पत्य तरसा दैत्यो गदापाणिः सुदारुणः । सिंहमूर्ध्नि समारुह्य जघान गदयाम्बिकाम्