बभुस्ते राक्षसास्तत्र किंशुका इव पुष्पिणः । शिलीमुखक्षताः सर्वे वसन्ते च वने रणे
बभूव तुमुलं युद्धं ताम्रेण सह संयुगे । विस्मयं परमं जग्मुर्देवा ये प्रेक्षकाः स्थिताः
ताम्रो मुसलमादाय लोहजं दारुणं दृढम् । जघान मस्तके सिंहं जहास च ननर्द च
नर्दमानं तदा तं तु दृष्ट्वा देवी रुषान्विता । खड्गेन शितधारेण शिरश्चिच्छेद सत्वरा
छिन्ने शिरसि ताम्रस्तु विशीर्षो मुसली बली । बभ्राम क्षणमात्रं तु पपात रणमस्तके
पतितं ताम्रमालोक्य चिक्षुराख्यो महाबलः । खड्गमादाय तरसा दुद्राव चण्डिकां प्रति
भगवत्यपि तं दृष्ट्वा खड्गपाणिमुपागतम् । दानवं पञ्चभिर्बाणैर्जघान तरसा रणे
एकेन पातितं खड्गं द्वितीयेन तु तत्करः । कण्ठाच्च मस्तकं तस्य कृन्तितं चापरैः शरैः
एवं तौ निहतौ कूरौ राक्षसौ रणदुर्मदौ । भग्नं सैन्यं तयोस्तूर्णं दिक्षु सन्त्रस्तमानसम्
देवाश्च मुदिताः सर्वे दृष्ट्वा तौ निहतौ रणे । पुष्पवृष्टिं मुदा चक्रुर्जयशब्दं नभःस्थिताः
ऋषयो देवगन्धर्वा वेतालाः सिद्धचारणाः । ऊचुस्ते जय देवीति चाम्बिकेति पुनः पुनः
असिलोमबिडालाख्यवधवर्णनम् व्यास उवाच तौ तया निहतौ श्रुत्वा महिषो विस्मयान्वितः । प्रेषयामास दैतेयांस्तद्वधार्थं महाबलान्
असिलोमबिडालाख्यप्रमुखान् युद्धदुर्मदान् । सैन्येन महता युक्तान्सायुधान्सपरिच्छदान्
ते तत्र ददृशुर्देवीं सिंहस्योपरि संस्थिताम् । अष्टादशभुजां दिव्यां खड्गखेटकधारिणीम्
असिलोमाग्रतो गत्वा तामुवाच हसन्निव । विनयावनतः शान्तो देवीं दैत्यवधोद्यताम्
असिलोमोवाच देवि ब्रूहि वचः सत्यं किमर्थमिह सुन्दरि । आगतासि किमर्थं वा हंसि दैत्यान्निरागसः
कारणं कथयाद्य त्वं त्वया सन्धिं करोम्यहम् । काञ्चनं मणिरत्नानि भाजनानि वराणि च
यानीच्छसि वरारोहे गहीत्वा गच्छ मा चिरम् । किमर्थं युद्धकामासि दुःखसन्तापवर्धनम्
कथयन्ति महात्मानो युद्धं सर्वसुखापहम् । कोमलेऽतीव ते देहे पुष्पघातासहे भृशम्
किमर्थं शस्त्रसम्पातान्सहसीति विसिस्मिये । चातुर्यस्य फलं शान्तिः सततं सुखसेवनम्
तत्किमर्थं दुःखहेतुं संग्रामं कर्तुमिच्छसि । संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः
तत्सुखं द्विविधं प्रोक्तं नित्यानित्यप्रभेदतः । आत्मज्ञानं सुखं नित्यमनित्यं भोगजं स्मृतम्
नाशात्मकं तु तत्त्याज्यं वेदशास्त्रार्थचिन्तकैः । सौगतानां मतं चेत्त्वं स्वीकरोषि वरानने
तथापि यौवनं प्राप्य भुंक्ष्व भोगाननुत्तमान् । परलोकस्य सन्देहो यदि तेऽस्ति कृशोदरि
स्वर्गभोगपरा नित्यं भव भामिनि भूतले । अनित्यं यौवनं देहे ज्ञात्वेति सुकृतं चरेत्
परोपतापनं कार्यं वर्जनीयं सदा बुधैः । अविरोधेन कर्तव्यं धर्मार्थकामसेवनम्
तस्मात्त्वमपि कल्याणि मतिं धर्मे सदा कुरु । अपराधं विना दैत्यान्कस्मान्मारयसेऽम्बिके
दयाधर्मोऽस्य देहोऽस्ति सत्ये प्राणाः प्रकीर्तिताः । तस्माद्दया तथा सत्यं रक्षणीयं सदा बुधैः
कारणं वद सुश्रोणि दानवानां वधे तव । देव्युवाच त्वया पृष्टं महाबाहो किमर्थमिह चागता
तदहं सम्प्रवक्ष्यामि हनने च प्रयोजनम् । विचरामि सदा दैत्य सर्वलोकेषु सर्वदा