मूर्खसेवापरो यस्मात्तस्मात्त्वं मूर्ख एव हि । राजधर्मं न जानासि किं ब्रवीषि ममाग्रतः
संग्रामे महिषं हत्वा कृत्वा रुधिरकर्दमम् । यशःस्तम्भं स्थिरं कृत्वा गमिष्यामि यथासुखम्
देवानां दुःखदातारं दानवं मदगर्वितम् । हनिष्येऽहं दुराचारं युद्धं कुरु स्थिरो भव
जीवितेच्छास्ति चेन्मूढ महिषस्य तथा तव । तदा गच्छन्तु पातालं दानवाः सर्व एव ते
मुमूर्षा यदि वश्चित्ते युद्धं कुर्वन्तु सत्वराः । सर्वानेव वधिष्यामि निश्चयोऽयं ममाधुना
व्यास उवाच तच्छ्रुत्वा वचनं तस्या दानवो बलदर्पितः । मुमोच बाणवृष्टिं तां घनवृष्टिमिवापराम्
चिच्छेद तस्य सा बाणान्स्वबाणैर्निशितैस्तदा । जघान तं तथा घोरैराशीविषसमैः शरैः
युद्धं परस्परं तत्र बभूव विस्मयप्रदम् । गदया घातयामास तं रथाज्जगदम्बिका
मूर्च्छां प्राप स दुष्टात्मा गदयाभिहतो भृशम् । मुहूर्तद्वयमात्रं तु रथोपस्थ इवाचलः
तं तथा मूर्च्छितं दृष्ट्वा ताम्रः परबलार्दनः । आजगाम रणे योद्धुं चण्डिकां प्रति चापलात्
आगच्छन्तं तु तं वीक्ष्य हसन्ती प्राह चण्डिका । एह्येहि दानवश्रेष्ठ यमलोकं नयाम्यहम्
किं भवद्भिः समायातैरबलैश्च गतायुषैः । महिषः किं गृहे मूढः करोति जीवनोद्यमम्
किं भवद्भिर्हतैर्मन्दैर्ममापि विफलः श्रमः । अहते महिषे पापे सुरशत्रौ दुरात्मनि
तस्माद्यूयं गृहं गत्वा महिषं प्रेषयन्त्विह । पश्येन्मां सोऽपि मन्दात्मा यादृशीं तादृशीं स्थिताम्
ताम्रस्तद्वचनं श्रुत्वा बाणवृष्टिं चकार ह । चण्डिकां प्रति कोपेन कर्णाकृष्टशरासनः
भगवत्यपि ताम्राक्षी समाकृष्य शरासनम् । बाणान्मुमोच तरसा हन्तुकामा सुराहितम्
चिक्षुराख्योऽपिबलवान्मूर्च्छां त्यक्त्वोत्थितः पुनः । गृहीत्वा सशरं चापं तस्थौ तत्सम्मुखः क्षणात्
चिक्षुराख्यश्च ताम्रश्च द्वावप्यतिबलोत्कटौ । युयुधाते महावीरौ सह देव्या रणाङ्गणे
कुपिता च महामाया ववर्ष शरसन्ततिम् । चकार दानवान् सर्वान् बाणक्षततनुच्छदान्
असुराः क्रोधसम्मूढा बभूवुः शरताडिताः । चिक्षिपुः शरजालानि देवीं प्रति रुषान्विताः
बभुस्ते राक्षसास्तत्र किंशुका इव पुष्पिणः । शिलीमुखक्षताः सर्वे वसन्ते च वने रणे
बभूव तुमुलं युद्धं ताम्रेण सह संयुगे । विस्मयं परमं जग्मुर्देवा ये प्रेक्षकाः स्थिताः
ताम्रो मुसलमादाय लोहजं दारुणं दृढम् । जघान मस्तके सिंहं जहास च ननर्द च
नर्दमानं तदा तं तु दृष्ट्वा देवी रुषान्विता । खड्गेन शितधारेण शिरश्चिच्छेद सत्वरा
छिन्ने शिरसि ताम्रस्तु विशीर्षो मुसली बली । बभ्राम क्षणमात्रं तु पपात रणमस्तके
पतितं ताम्रमालोक्य चिक्षुराख्यो महाबलः । खड्गमादाय तरसा दुद्राव चण्डिकां प्रति
भगवत्यपि तं दृष्ट्वा खड्गपाणिमुपागतम् । दानवं पञ्चभिर्बाणैर्जघान तरसा रणे
एकेन पातितं खड्गं द्वितीयेन तु तत्करः । कण्ठाच्च मस्तकं तस्य कृन्तितं चापरैः शरैः
एवं तौ निहतौ कूरौ राक्षसौ रणदुर्मदौ । भग्नं सैन्यं तयोस्तूर्णं दिक्षु सन्त्रस्तमानसम्
देवाश्च मुदिताः सर्वे दृष्ट्वा तौ निहतौ रणे । पुष्पवृष्टिं मुदा चक्रुर्जयशब्दं नभःस्थिताः