राजन्नहं हनिष्यामि का चिन्ता स्त्रीविहिंसने । इत्युक्त्वा स्वबलैर्युक्तः प्रययौ रथसंयुतः
द्वितीयं पार्ष्णिरक्षं तु कृत्वा ताम्रं महाबलम् । महता सैन्यघोषेण पूरयन्गगनं दिशः
तमागच्छन्तमालोक्य देवी भगवती शिवा । चकार शङ्खज्याघोषं घण्टानादं महाद्भुतम्
तत्रसुस्तेन शब्देन ते च सर्वे सुरारयः । किमेतदिति भाषन्तो दुद्रुवुर्भयकम्पिताः
चिक्षुराख्यस्तु तान्दृष्ट्वा पलायनपरायणान् । उवाचातीव संकुद्धः किं भयं वः समागतम्
अद्यैवाहं हनिष्यामि बाणैर्बालां मदोन्नताम् । तिष्ठन्त्वत्र भयं त्यक्त्वा दैत्याः समरमूर्धनि
इत्युक्त्वा दानवश्रेष्ठश्चापपाणिर्बलान्वितः । आगत्य सङ्गरे देवीमित्युवाच गतव्यथः
किं गर्जसि विशालाक्षि भीषयन्तीतरान्नरान् । नाहं बिभेमि तन्वङ्गि श्रुत्वा तेऽद्य विचेष्टितम्
स्त्रीवधे दूषणं ज्ञात्वा तथैवाकीर्तिसम्भवम् । उपेक्षां कुरुते चित्तं मदीयं वामलोचने
स्त्रीणां युद्धं कटाक्षैश्च तथा हावैश्च सुन्दरि । न शस्त्रैर्विहितं क्वापि त्वादृशीनां कदाचन
पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः । भवादृशीनां देहेषु दुनोति मालतीदलम्
धिग्जन्म मानुषे लोके क्षात्रधर्मानुजीविनाम् । लालितोऽयं प्रियो देहः कृन्तनीयः शितैः शरैः
तैलाभ्यङ्गैः पुष्पवातैस्तथा मिष्टान्नभोजनैः । पोषितोऽयं प्रियो देहो घातनीयः परेषुभिः
देहं छित्त्वासिधाराभिर्धनभृज्जायते नरः । धिग्धनं दुःखदं पूर्वं पश्चात्किं सुखदं भवेत्
त्वमप्यज्ञैव वामोरु युद्धमाकाङ्क्षसे यतः । सुखं सम्भोगजं त्यक्त्वा कं गुणं वेत्सि सङ्गरे
खड्गपातं गदाघातं भेदनञ्ज शिलीमुखैः । मरणान्ते तु संस्कारो गोमायुमुखकर्षणम्
तस्यैव कविभिर्धूर्तैः कृतं चातीव शंसनम् । रणे मृतानां स्वःप्राप्तिरर्थवादोऽस्ति केवलः
तस्माद् गच्छ वरारोहे यत्र ते रमते मनः । भज वा भूपतिं नाथं हयारिं सुरमर्दनम्
व्यास उवाच एवं ब्रुवाणं तं दैत्यं प्रोवाच जगदम्बिका । किं मृषा भाषसे मूढ बुद्धिमानिव पण्डितः
नीतिशास्त्रं न जानासि विद्यां चान्वीक्षिकीं तथा । न सेवितास्त्वया वृद्धा न धर्मे मतिरस्ति ते
मूर्खसेवापरो यस्मात्तस्मात्त्वं मूर्ख एव हि । राजधर्मं न जानासि किं ब्रवीषि ममाग्रतः
संग्रामे महिषं हत्वा कृत्वा रुधिरकर्दमम् । यशःस्तम्भं स्थिरं कृत्वा गमिष्यामि यथासुखम्
देवानां दुःखदातारं दानवं मदगर्वितम् । हनिष्येऽहं दुराचारं युद्धं कुरु स्थिरो भव
जीवितेच्छास्ति चेन्मूढ महिषस्य तथा तव । तदा गच्छन्तु पातालं दानवाः सर्व एव ते
मुमूर्षा यदि वश्चित्ते युद्धं कुर्वन्तु सत्वराः । सर्वानेव वधिष्यामि निश्चयोऽयं ममाधुना
व्यास उवाच तच्छ्रुत्वा वचनं तस्या दानवो बलदर्पितः । मुमोच बाणवृष्टिं तां घनवृष्टिमिवापराम्
चिच्छेद तस्य सा बाणान्स्वबाणैर्निशितैस्तदा । जघान तं तथा घोरैराशीविषसमैः शरैः
युद्धं परस्परं तत्र बभूव विस्मयप्रदम् । गदया घातयामास तं रथाज्जगदम्बिका
मूर्च्छां प्राप स दुष्टात्मा गदयाभिहतो भृशम् । मुहूर्तद्वयमात्रं तु रथोपस्थ इवाचलः
तं तथा मूर्च्छितं दृष्ट्वा ताम्रः परबलार्दनः । आजगाम रणे योद्धुं चण्डिकां प्रति चापलात्