ववौ वायुश्च दुर्गन्धो मृतानां देहसङ्गतः । अभूत्किलकिलाशब्दः खगानां पलभक्षिणाम्
तदा चुकोप दुष्टात्मा दुर्मुखः कालमोहितः । देवीमुवाच गर्वेण कृत्वा चोर्ध्वकरं शुभम्
गच्छ चण्डि हनिष्यामि त्वामद्यैव सुबालिशे । दैत्यं वा भज वामोरु महिषं मदगर्वितम्
देव्युवाच आसन्नमरणः कामं प्रलपस्यद्य मोहितः । अद्यैव त्वां हनिष्यामि यथायं बाष्कलो हतः
गच्छ वा तिष्ठ वा मन्द मरणं यदि रोचते । हत्वा त्वां वै वधिष्यामि बालिशं महिषीसुतम्
तच्छ्रुत्वा वचनं तस्या दुर्मुखो मर्तुमुद्यतः । मुमोच बाणवृष्टिं तु चण्डिकां प्रति दारुणाम्
सापि तां तरसा छित्त्वा बाणवृष्टिं शितैः शरैः । जघान दानवं कृद्धा वृत्रं वज्रधरो यथा
तयोः परस्परं युद्धं सञ्जातं चातिकर्कशम् । भयदं कातराणाञ्च शूराणां बलवर्धनम्
देवी चिच्छेद तरसा धनुस्तस्य करे स्थितम् । तथैव पञ्चभिर्बाणैर्बभञ्ज रथमुत्तमम्
रथे भग्ने महाबाहुः पदातिर्दुर्मुखस्तदा । गदां गहीत्वा दुर्धर्षां जगाम चण्डिकां प्रति
चकार स गदाघातं सिंहमौलौ महाबलः । न चचाल हरिः स्थानात्ताडितोऽपि महाबलः
अम्बिका तं समालोक्य गदापाणिं पुरःस्थितम् । खड्गेन शितधारेण शिरश्चिच्छेद मौलिमत्
छिन्ने च मस्तके भूमौ पपात दुर्मुखो मृतः । जयशब्दं तदा चक्रुर्मुदिता निर्जरा भृशम्
तुष्टुवुस्तां तदा देवीं दुर्मुखे निहतेऽमराः । पुष्पवृष्टिं तथा चक्रुर्जयशब्दं नभःस्थिताः
ऋषयः सिद्धगन्धर्वाः सविद्याधरकिन्नराः । जहृषुस्तं हतं दृष्ट्वा दानवं रणमस्तके
ताम्रचिक्षुराख्यवधवर्णनम् व्यास उवाच दुर्मुखं निहतं श्रुत्वा महिषः क्रोधमूर्च्छितः । उवाच दानवान्सर्वान्किं जातमिति चासकृत्
निहतौ दानवौ शूरौ रणे दुर्मुखबाष्कलौ । तन्व्या तत्परमाश्चर्यं पश्यन्तु दैवचेष्टितम्
कालो हि बलवान्कर्ता सततं सुखदुःखयोः । नराणां परतन्त्राणां पुण्यपापानुयोगतः
निहतौ दानवश्रेष्ठौ किं कर्तव्यमतः परम् । ब्रुवन्तु मिलिताः सर्वे यद्युक्तं कार्यसङ्कटे
व्यास उवाच एवं ब्रुवति राजेन्द्र महिषेऽतिबलान्विते । चिक्षुराख्यस्तु सेनानीस्तमुवाच महारथः
राजन्नहं हनिष्यामि का चिन्ता स्त्रीविहिंसने । इत्युक्त्वा स्वबलैर्युक्तः प्रययौ रथसंयुतः
द्वितीयं पार्ष्णिरक्षं तु कृत्वा ताम्रं महाबलम् । महता सैन्यघोषेण पूरयन्गगनं दिशः
तमागच्छन्तमालोक्य देवी भगवती शिवा । चकार शङ्खज्याघोषं घण्टानादं महाद्भुतम्
तत्रसुस्तेन शब्देन ते च सर्वे सुरारयः । किमेतदिति भाषन्तो दुद्रुवुर्भयकम्पिताः
चिक्षुराख्यस्तु तान्दृष्ट्वा पलायनपरायणान् । उवाचातीव संकुद्धः किं भयं वः समागतम्
अद्यैवाहं हनिष्यामि बाणैर्बालां मदोन्नताम् । तिष्ठन्त्वत्र भयं त्यक्त्वा दैत्याः समरमूर्धनि
इत्युक्त्वा दानवश्रेष्ठश्चापपाणिर्बलान्वितः । आगत्य सङ्गरे देवीमित्युवाच गतव्यथः
किं गर्जसि विशालाक्षि भीषयन्तीतरान्नरान् । नाहं बिभेमि तन्वङ्गि श्रुत्वा तेऽद्य विचेष्टितम्
स्त्रीवधे दूषणं ज्ञात्वा तथैवाकीर्तिसम्भवम् । उपेक्षां कुरुते चित्तं मदीयं वामलोचने
स्त्रीणां युद्धं कटाक्षैश्च तथा हावैश्च सुन्दरि । न शस्त्रैर्विहितं क्वापि त्वादृशीनां कदाचन