भगवत्यपि बाणौघान्मुमोच दानवौ प्रति । कृत्वातिमधुरं नादं देवकार्यार्थसिद्धये
तयोस्तु बाष्कलस्तूर्णं सम्मुखोऽभूद् रणाङ्गणे । दुर्मुखः प्रेक्षकस्तत्र देवीमभिमुखः स्थितः
तयोर्युद्धमभूद् घोरं देवीबाष्कलयोस्तदा । बाणासिपरिघाघातैर्भयदं मन्दचेतसाम्
ततः क्रुद्धा जगन्माता दृष्ट्वा तं युद्धदुर्मदम् । जघान पञ्चभिर्बाणैः कर्णाकृष्टैः शिलाशितैः
दानवोऽपि शरान्देव्याश्चिच्छेद निशितैः शरैः । सप्तभिस्ताडयामास देवीं सिंहोपरिस्थिताम्
सापि तं दशभिस्तीक्ष्णैः सुपीतैः सायकैः खलम् । जघान तच्छरांश्छित्त्वा जहास च मुहुर्मुहुः
अर्धचन्द्रेण बाणेन चिच्छेद च शरासनम् । बाष्कलोऽपि गदां गृह्य देवीं हन्तुमुपाययौ
आगच्छन्तं गदापाणिं दानवं मदगर्वितम् । चण्डिका स्वगदापातैः पातयामास भूतले
बाष्कलः पतितो भूमौ मुहूर्तादुत्थितः पुनः । चिक्षेप च गदां सोऽपि चण्डिकां चण्डविक्रमः
तमागच्छन्तमालोक्य देवी शूलेन वक्षसि । जघान बाष्कलं क्रुद्धा पपात च ममार सः
पतिते बाष्कले सैन्यं भग्नं तस्य दुरात्मनः । जयेति च मुदा देवाश्चुक्रुशुर्गगने स्थिताः
तस्मिंश्च निहते दैत्ये दुर्मुखोऽतिबलान्वितः । आजगाम रणे देवीं क्रोधसंरक्तलोचनः
तिष्ठ तिष्ठाबले सोऽपि भाषमाणः पुनः पुनः । धनुर्बाणधरः श्रीमान्रथस्थः कवचावृतः
तमागच्छन्तमालोक्य देवी शङ्खमवादयत् । कोपयन्ती दानवं तं ज्याघोषञ्च चकार ह
सोऽपि बाणान्मुमोचाशु तीक्ष्णानाशीविषोपमान् । स्वबाणैस्तान्महामाया चिच्छेद च ननाद च
तयोः परस्परं युद्धं बभूव तुमुलं नृप । बाणशक्तिगदाघातैर्मुसलैस्तोमरैस्तथा
रणभूमौ तदा जाता रुधिरौघवहा नदी । पतितानि तदा तीरे शिरांसि प्रबभुस्तदा
यथा सन्तरणार्थाय यमकिङ्करनायकैः । तुम्बीफलानि नीतानि नवशिक्षापरैर्मुदा
रणभूमिस्तदा घोरा बभूवातीव दुर्गमा । शरीरैः पतितैर्भूमौ खाद्यमानैर्वृकादिभिः
गोमायुसारमेयाश्च काकाः कङ्का अयोमुखाः । गृध्रा श्येनाश्च खादन्ति शरीराणि दुरात्मनाम्
ववौ वायुश्च दुर्गन्धो मृतानां देहसङ्गतः । अभूत्किलकिलाशब्दः खगानां पलभक्षिणाम्
तदा चुकोप दुष्टात्मा दुर्मुखः कालमोहितः । देवीमुवाच गर्वेण कृत्वा चोर्ध्वकरं शुभम्
गच्छ चण्डि हनिष्यामि त्वामद्यैव सुबालिशे । दैत्यं वा भज वामोरु महिषं मदगर्वितम्
देव्युवाच आसन्नमरणः कामं प्रलपस्यद्य मोहितः । अद्यैव त्वां हनिष्यामि यथायं बाष्कलो हतः
गच्छ वा तिष्ठ वा मन्द मरणं यदि रोचते । हत्वा त्वां वै वधिष्यामि बालिशं महिषीसुतम्
तच्छ्रुत्वा वचनं तस्या दुर्मुखो मर्तुमुद्यतः । मुमोच बाणवृष्टिं तु चण्डिकां प्रति दारुणाम्
सापि तां तरसा छित्त्वा बाणवृष्टिं शितैः शरैः । जघान दानवं कृद्धा वृत्रं वज्रधरो यथा
तयोः परस्परं युद्धं सञ्जातं चातिकर्कशम् । भयदं कातराणाञ्च शूराणां बलवर्धनम्
देवी चिच्छेद तरसा धनुस्तस्य करे स्थितम् । तथैव पञ्चभिर्बाणैर्बभञ्ज रथमुत्तमम्
रथे भग्ने महाबाहुः पदातिर्दुर्मुखस्तदा । गदां गहीत्वा दुर्धर्षां जगाम चण्डिकां प्रति