सात्त्विकं वेदशास्त्रादि साहित्यं चैव राजसम् । तामसं युद्धवार्ता च परदोषप्रकाशनम्
सात्त्विकं त्रिविधं प्रोक्तं प्रज्ञावद्भिश्च पण्डितैः । उत्तमं मध्यमं चैव तथैवाधममित्युत
उत्तमं मोक्षफलदं स्वर्गदं मध्यमं तथा । अधमं भोगदं प्रोक्तं निर्णीय विदितं बुधैः
साहित्यं चैव त्रिविधं स्वीयायां चोत्तमं स्मृतम् । मध्यमं वारयोषायां परोढायां तथाधमम्
तामसं त्रिविधं ज्ञेयं विद्वद्भिः शास्त्रदर्शिभिः । आततायिनियुद्धं यत्तदुत्तममुदाहृतम्
मध्यमं चापि विद्वेषात्पाण्डवानां तथारिभिः । अधमं निर्निमित्तं तु विवादे कलहे तथा
तदत्र श्रवणं मुख्यं पुराणस्य महामते । बुद्धिप्रवर्धनं पुण्यं ततः पापप्रणाशनम्
तदाख्याहि महाबुद्धे कथां पौराणिकीं शुभाम् । श्रुतां द्वैपायनात्पूर्वं सर्वार्थस्य प्रसाधिनीम्
सूत उवाच यूयं धन्या महाभागा धन्योऽहं पृथिवीतले । येषां श्रवणबुद्धिश्च ममापि कथने किल
पुरा चैकार्णवे जाते विलीने भुवनत्रये । शेषपर्यङ्कसुप्ते च देवदेवे जनार्दने
विष्णुकर्णमलोद्भूतौ दानवौ मधुकैटभौ । महाबलौ च तौ दैत्यौ विवृद्धौ सागरे जले
क्रीडमानौ स्थितौ तत्र विचरन्तावितस्ततः । तावेकदा महाकायौ क्रीडासक्तौ महार्णवे
चिन्तामवापतुश्चित्ते भ्रातराविव संस्थितौ । नाकारणं भवेत्कार्यं सर्वत्रैषा परम्परा
आधेयं तु विनाधारं न तिष्ठति कथञ्चन । आधाराधेयभावस्तु भाति नो चित्तगोचरः
क्व तिष्ठति जलं चेदं सुखरूपं सुविस्तरम् । केन सृष्टं कथं जातं मग्नावावाञ्जले स्थितौ
आवां वा कथमुत्पन्नौ केन वोत्पादितावुभौ । पितरौ क्वेति विज्ञानं नास्ति कामं तथावयोः
सूत उवाच एवं कामयमानौ तौ जग्मतुर्न विनिश्चयम् । उवाच कैटभस्तत्र मधुं पार्श्वे स्थितं जले
कैटभ उवाच मधो वामत्र सलिले स्थातुं शक्तिर्महाबला । वर्तते भ्रातरचला कारणं सा हि मे मता
तया ततमिदं तोयं तदाधारं च तिष्ठति । सा एव परमा देवी कारणञ्च तथावयोः
एवं विबुध्यमानौ तौ चिन्ताविष्टौ यदासुरौ । तदाकाशे श्रुतं ताभ्यां वाग्बीजं सुमनोहरम्
गृहीतं च ततस्ताभ्यां तस्याभ्यासो दृढः कृतः । तदा सौदामनी दृष्टा ताभ्यां खे चोत्थिता शुभा
ताभ्यां विचारितं तत्र मन्त्रोऽयं नात्र संशयः । तथा ध्यानमिदं दृष्टं गगने सगुणं किल
निराहारौ जितात्मानौ तन्मनस्कौ समाहितौ । बभूवतुर्विचिन्त्यैवं जपध्यानपरायणौ
एवं वर्षसहस्रं तु ताभ्यां तप्तं महत्तपः । प्रसन्ना परमा शक्तिर्जाता सा परमा तयोः
खिन्नौ तौ दानवौ दृष्ट्वा तपसे कृतनिश्चयौ । तयोरनुग्रहार्थाय वागुवाचाशरीरिणी
वरं वां वाञ्छितं दैत्यौ ब्रूतं परमसम्मतम् । ददामि परितुष्टास्मि युवयोस्तपसा किल
सूत उवाच इति श्रुत्वा तु तां वाणीं दानवावूचतुस्तदा । स्वेच्छया मरणं देवि वरं नौ देहि सुव्रते
वागुवाच वाञ्छितं मरणं दैत्यौ भवेद्वा मत्प्रसादतः । अजेयौ देवदैत्यैश्च भ्रातरौ नात्र संशयः
सूत उवाच इति दत्तवरौ देव्या दानवौ मददर्पितौ । चक्रतुः सागरे क्रीडां यादोगणसमन्वितौ
कालेन कियता विप्रा दानवाभ्यां यदृच्छया । दृष्टः प्रजापतिर्ब्रह्मा पद्मासनगतः प्रभुः