पश्य बाहुबलं मेऽद्य विहरस्व यथासुखम् । भवतात्र न गन्तव्यं संग्रामेऽप्यनया समम्
व्यास उवाच एवं ब्रुवति राजेन्द्रं बाष्कले मदगर्विते । प्रणम्य नृपतिं तत्र दुर्धरो वाक्यमब्रवीत्
दुर्धर उवाच महिषाहं विजेष्यामि देवीं देवविनिर्मिताम् । अष्टादशभुजां रम्यां कारणाच्च समागताम्
राजन् भीषयितुं त्वां वै मायैषा निर्मिता सुरैः । विभीषिकेयं विज्ञाय त्यज मोहं मनोगतम्
राजनीतिरियं राजन् मन्त्रिकृत्यं तथा शृणु । सात्त्विका राजसाः केचित्तामसाश्च तथापरे
मन्त्रिणस्त्रिविधा लोके भवन्ति दानवाधिप । सात्त्विकाः प्रभुकार्याणि साधयन्ति स्वशक्तिभिः
आत्मकृत्यं प्रकुर्वन्ति स्वामिकार्याविरोधतः । एकचित्ता धर्मपरा मन्त्रशास्त्रविशारदाः
राजसा भिन्नचित्ताश्च स्वकार्यनिरताः सदा । कदाचित्स्वामिकार्यं ते प्रकुर्वन्ति यदृच्छया
तामसा लोभनिरताः स्वकार्यनिरताः सदा । प्रभुकार्यं विनाश्यैव स्वकार्यं साधयन्ति ते
समये ते विभिद्यन्ते परैस्तु परिवञ्चिताः । स्वच्छिद्रं शत्रुपक्षीयान्निर्दिशन्ति गृहस्थिताः
कार्यभेदकरा नित्यं कोशगुप्तासिवत्सदा । संग्रामेऽथ समुत्पन्ने भीषयन्ति प्रभुं सदा
विश्वासस्तु न कर्तव्यस्तेषां राजन् कदाचन । विश्वासे कार्यहानिः स्यान्मन्त्रहानिः सदैव हि
खलाः किं किं न कुर्वन्ति विश्वस्ता लोभतत्पराः । तामसाः पापनिरता बुद्धिहीनाः शठास्तथा
तस्मात्कार्यं करिष्यामि गत्वाहं रणमस्तके । चिन्ता त्वया न कर्तव्या सर्वथा नृपसत्तम
गृहीत्वा तां दुराचारामागमिष्यामि सत्वरः । पश्य मेऽद्य बलं धैर्यं प्रभुकार्यं स्वशक्तितः
महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् व्यास उवाच इत्युक्त्वा तौ महाबाहू दैत्यौ बाष्कलदुर्मुखौ । जग्मतुर्मददिग्धाङ्गौ सर्वशस्त्रास्त्रकोविदौ
तौ गत्वा समरे देवीमूचतुर्वचनं तदा । दानवौ च मदोन्मत्तौ मेघगम्भीरया गिरा
देवि देवा जिता येन महिषेण महात्मना । वरय त्वं वरारोहे सर्वदैत्याधिपं नृपम्
स कृत्वा मानुषं रूपं सर्वलक्षणसंयुतम् । भूषितं भूषणैर्दिव्यैस्त्वामेष्यति रहः किल
त्रैलोक्यविभवं कामं त्वमेष्यसि शुचिस्मिते । महिषे परमं भावं कुरु कान्ते मनोगतम्
कृत्वा पतिं महावीरं संसारसुखमद्भुतम् । त्वं प्राप्स्यसि पिकालापे योषितां खलु वाञ्छितम्
देव्युवाच जाल्म त्वं किं विजानासि नारीयं काममोहिता । मन्दबुद्धिबलात्यर्थं भजेयं महिषं शठम्
कुलशीलगुणैस्तुल्यं तं भजन्ति कुलस्त्रियः । अधिकं रूपचातुर्यबुद्धिशीलक्षमादिभिः
का नु कामातुरा नारी भजेच्च पशुरूपिणम् । पशूनामधमं नूनं महिषं देवरूपिणी
गच्छतं महिषं तूर्णं भूपं बाष्कलदुर्मुखौ । वदतं मद्वचो दैत्यं गजतुल्यं विषाणिनम्
पातालं गच्छ वाभ्येत्य संग्रामं कुरु वा मया । रणे जाते सहस्राक्षो निर्भयः स्यादिति धुवम्
हत्वाहं त्वां गमिष्यामि नान्यथा गमनं मम । इत्थं ज्ञात्वा सुदुर्बुद्धे यथेच्छसि तथा कुरु
मामनिर्जित्य भूभागे न स्थानं ते कदाचन । भविष्यति चतुष्पाद दिवि वा गिरिकन्दरे
व्यास उवाच इत्युक्तौ तौ तया दैत्यौ कोपाकुलितलोचनौ । धनुर्बाणधरौ वीरौ युद्धकामौ बभूवतुः
कृत्वा सुविपुलं नादं देवी सा निर्भया स्थिता । उभौ च चक्रतुस्तीव्रा बाणवृष्टिं कुरूद्वह