इन्द्रादीनां संयुगेऽपि न कृतं यज्जुगुप्सितम् । एकाकिनीं स्त्रियं प्राप्य को हि कुर्यात्पलायनम्
तस्माद्युद्धं प्रकर्तव्यं मरणं वा रणे जयः । यद्भावि तद्भवत्येव कात्र चिन्ता विपश्यतः
मरणेऽत्र यशःप्राप्तिर्जीवने च तथा सुखम् । उभयं मनसा कृत्वा कर्तव्यं युद्धमद्य वै
पलायने यशोहानिर्मरणं चायुषः क्षये । तस्माच्छोको न कर्तव्यो जीविते मरणे वृथा
व्यास उवाच दुर्मुखस्य वचः श्रुत्वा बाष्कलो वाक्यमब्रवीत् । प्रणतः प्राञ्जलिर्भूत्वा राजानं वाक्यकोविदः
बाष्कल उवाच राजंश्चिन्ता न कर्तव्या कार्येऽस्मिन्कातरप्रिये । अहमेको हनिष्यामि चण्डीं चञ्चललोचनाम्
उत्साहस्तु प्रकर्तव्यः स्थायीभावो रसस्य च । भयानको भवेद्वैरी वीरस्य नृपसत्तम
तस्मात्त्यक्त्वा भयं भूप करिष्ये युद्धमद्भुतम् । नयिष्यामि नरेन्द्राहं चण्डिकां यमसादनम्
न बिभेमि यमादिन्द्रात्कुबेराद्वरुणादपि । वायोर्वह्नेस्तथा विष्णोः शङ्कराच्छशिनो रवेः
एकाकिनी तथा नारी किं पुनर्मदगर्विता । अहं तां निहनिष्यामि विशिखैश्च शिलाशितैः
पश्य बाहुबलं मेऽद्य विहरस्व यथासुखम् । भवतात्र न गन्तव्यं संग्रामेऽप्यनया समम्
व्यास उवाच एवं ब्रुवति राजेन्द्रं बाष्कले मदगर्विते । प्रणम्य नृपतिं तत्र दुर्धरो वाक्यमब्रवीत्
दुर्धर उवाच महिषाहं विजेष्यामि देवीं देवविनिर्मिताम् । अष्टादशभुजां रम्यां कारणाच्च समागताम्
राजन् भीषयितुं त्वां वै मायैषा निर्मिता सुरैः । विभीषिकेयं विज्ञाय त्यज मोहं मनोगतम्
राजनीतिरियं राजन् मन्त्रिकृत्यं तथा शृणु । सात्त्विका राजसाः केचित्तामसाश्च तथापरे
मन्त्रिणस्त्रिविधा लोके भवन्ति दानवाधिप । सात्त्विकाः प्रभुकार्याणि साधयन्ति स्वशक्तिभिः
आत्मकृत्यं प्रकुर्वन्ति स्वामिकार्याविरोधतः । एकचित्ता धर्मपरा मन्त्रशास्त्रविशारदाः
राजसा भिन्नचित्ताश्च स्वकार्यनिरताः सदा । कदाचित्स्वामिकार्यं ते प्रकुर्वन्ति यदृच्छया
तामसा लोभनिरताः स्वकार्यनिरताः सदा । प्रभुकार्यं विनाश्यैव स्वकार्यं साधयन्ति ते
समये ते विभिद्यन्ते परैस्तु परिवञ्चिताः । स्वच्छिद्रं शत्रुपक्षीयान्निर्दिशन्ति गृहस्थिताः
कार्यभेदकरा नित्यं कोशगुप्तासिवत्सदा । संग्रामेऽथ समुत्पन्ने भीषयन्ति प्रभुं सदा
विश्वासस्तु न कर्तव्यस्तेषां राजन् कदाचन । विश्वासे कार्यहानिः स्यान्मन्त्रहानिः सदैव हि
खलाः किं किं न कुर्वन्ति विश्वस्ता लोभतत्पराः । तामसाः पापनिरता बुद्धिहीनाः शठास्तथा
तस्मात्कार्यं करिष्यामि गत्वाहं रणमस्तके । चिन्ता त्वया न कर्तव्या सर्वथा नृपसत्तम
गृहीत्वा तां दुराचारामागमिष्यामि सत्वरः । पश्य मेऽद्य बलं धैर्यं प्रभुकार्यं स्वशक्तितः
महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् व्यास उवाच इत्युक्त्वा तौ महाबाहू दैत्यौ बाष्कलदुर्मुखौ । जग्मतुर्मददिग्धाङ्गौ सर्वशस्त्रास्त्रकोविदौ
तौ गत्वा समरे देवीमूचतुर्वचनं तदा । दानवौ च मदोन्मत्तौ मेघगम्भीरया गिरा
देवि देवा जिता येन महिषेण महात्मना । वरय त्वं वरारोहे सर्वदैत्याधिपं नृपम्
स कृत्वा मानुषं रूपं सर्वलक्षणसंयुतम् । भूषितं भूषणैर्दिव्यैस्त्वामेष्यति रहः किल
त्रैलोक्यविभवं कामं त्वमेष्यसि शुचिस्मिते । महिषे परमं भावं कुरु कान्ते मनोगतम्