कामं सदृशयोर्योगः संसारे सुखदो भवेत् । अन्यथा दुःखदो भूयादज्ञानाद्यदि कल्पितः
मूर्खस्त्वमसि यद् ब्रूषे पतिं मे भज भामिनि । क्वाहं क्व महिषः शृङ्गी सम्बन्धः कीदृशो द्वयोः
गच्छ युध्यस्व वा कामं हनिष्येऽहं सबान्धवम् । यज्ञभागं देवलोकं नोचेत्त्यक्त्वा सुखी भव
व्यास उवाच इत्युक्त्वा सा तदा देवी जगर्ज भृशमद्भुतम् । कल्पान्तसदृशं नादं चक्रे दैत्यभयावहम्
चकम्पे वसुधा चेलुस्तेन शब्देन भूधराः । गर्भाश्च दैत्यपत्नीनां सस्रंसुर्गर्जितस्वनात्
ताम्रः श्रुत्वा च तं शब्दं भयत्रस्तमनास्तदा । पलायनं ततः कृत्वा जगाम महिषान्तिकम्
नगरे तस्य ये दैत्यास्तेऽपि चिन्तामवाप्नुवन् । बधिरीकृतकर्णाश्च पलायनपरा नृप
तदा क्रोधेन सिंहोऽपि ननाद भृशमुत्सटः । तेन नादेन दैतेया भयं जग्मुरपि स्फुटम्
ताम्रं समागतं दृष्ट्वा हयारिरपि मोहितः । चिन्तयामास सचिवैः किं कर्तव्यमतः परम्
दुर्गग्रहो वा कर्तव्यो युद्धं निर्गत्य वा पुनः । पलायने कृते श्रेयो भवेद्वा दानवोत्तमाः
बुद्धिमन्तो दुराधर्षाः सर्वशास्त्रविशारदाः । मन्त्रः खलु प्रकर्तव्यः सुगुप्तः कार्यसिद्धये
मन्त्रमूलं स्मृतं राज्यं यदि स स्यात्सुरक्षितः । मन्त्रिभिश्च सदाचारैर्विधेयः सर्वथा बुधैः
मन्त्रभेदे विनाशः स्याद्राज्यस्य भूपतेस्तथा । तस्माद्भेदभयाद् गुप्तः कर्तव्यो भूतिमिच्छता
तदत्र मन्त्रिभिर्वाच्यं वचनं हेतुमद्धितम् । कालदेशानुसारेण विचिन्त्य नीतिनिर्णयम्
या योषात्र समायाता प्रबला देवनिर्मिता । एकाकिनी निरालम्बा कारणं तद्विचिन्त्यताम्
युद्धं प्रार्थयते बाला किमाश्चर्यमतः परम् । श्रेयोऽत्र विपरीतं वा को वेत्ति भुवनत्रये
न बहूनां जयोऽप्यस्ति नैकस्य च पराजयः । दैवाधीनौ सदा ज्ञेयौ युद्धे जयपराजयौ
उपायवादिनः प्राहुर्दैवं किं केन वीक्षितम् । अदृष्टमिति यन्नाम प्रवदन्ति मनीषिणः
तत्सत्त्वेऽपि प्रमाणं किं कातराशावलम्बनम् । न समर्थजनानां हि दैवं कुत्रापि लक्ष्यते
उद्यमो दैवमेतौ हि शूरकातरयोर्मतम् । विचिन्त्याद्य धिया सर्वं कर्तव्यं कार्यमादरात्
व्यास उवाच इति राज्ञो वचः श्रुत्वा हेतुगर्भं महायशाः । बिडालाख्यो महाराजमित्युवाच कृताञ्जलिः
राजन्नेषा विशालाक्षी ज्ञातव्या यत्नतः पुनः । किमर्थमिह सम्प्राप्ता कुतः कस्य परिग्रहः
मरणं ते परिज्ञाय स्त्रिया सर्वात्मना सुरैः । प्रेषिता पद्मपत्राक्षी समुत्पाद्य स्वतेजसा
तेऽपि छन्नाः स्थिताः खेऽत्र सर्वे युद्धदिदृक्षवः । समयेऽस्याः सहायास्ते भविष्यन्ति युयुत्सवः
पुरतः कामिनीं कृत्वा ते वै विष्णुपुरोगमाः । वधिष्यन्ति च नः सर्वान्सा त्वां युद्धे हनिष्यति
एतच्चिकीर्षितं तेषां मया ज्ञातं नराधिप । भवितव्यस्य न ज्ञानं वर्तते मम सर्वथा
योद्धव्यं न त्वयाद्येति नाहं वक्तुं क्षमः प्रभो । प्रमाणं त्वं महाराज कार्येऽत्र देवनिर्मिते
तदर्थेऽस्माभिरनिशं मर्तव्यं कार्यगौरवात् । विहर्तव्यं त्वया सार्धमेष धर्मोऽनुजीविनाम्
विचारोऽत्र महानस्ति यदेका कामिनी नृप । युद्धं प्रार्थयतेऽस्माभिः ससैन्यैर्बलदर्पितैः
दुर्मुख उवाच राजन् युद्धे जयो नोऽद्य भविता वेद्म्यहं किल । पलायनं न कर्तव्यं यशोहानिकरं नृणाम्