देवीपराजयकरणाय दुर्धरप्रबोधवचनम् व्यास उवाच तन्निशम्य वचस्तस्य ताम्रस्य जगदम्बिका । मेघगम्भीरया वाचा हसन्ती तमुवाच ह
देव्युवाच गच्छ ताम्र पतिं ब्रूहि मुमूर्षुं मन्दचेतसम् । महिषं चातिकामार्तं मूढं ज्ञानविवर्जितम्
यथा ते महिषी माता प्रौढा यवसभक्षिणी । नाहं तथा शृङ्गवती लम्बपुच्छा महोदरी
न कामयेऽहं देवेशं नैव विष्णुं न शङ्करम् । धनदं वरुणं नैव ब्रह्माणं न च पावकम्
एतान्देवगणान्हित्वा पशुं केन गुणेन वै । वृणोम्यहं वृथा लोके गर्हणा मे भवेदिति
नाहं पतिंवरा नारी वर्तते मे पतिः प्रभुः । सर्वकर्ता सर्वसाक्षी ह्यकर्ता निःस्पृहः स्थिरः
निर्गुणो निर्ममोऽनन्तो निरालम्बो निराश्रयः । सर्वज्ञः सर्वगः साक्षी पूर्णः पूर्णाशयः शिवः
सर्वावासक्षमः शान्तः सर्वदृक्सर्वभावनः । तं त्यक्त्वा महिषं मन्दं कथं सेवितुमुत्सहे
प्रबुध्य युध्यतां कामं करोमि यमवाहनम् । अथवा मनुजानां वै करिष्ये जलवाहकम्
जीवितेच्छास्ति चेत्पाप गच्छ पातालमाशु वै । समस्तैर्दानवैर्युक्तस्त्वन्यथा हन्मि सङ्गरे
कामं सदृशयोर्योगः संसारे सुखदो भवेत् । अन्यथा दुःखदो भूयादज्ञानाद्यदि कल्पितः
मूर्खस्त्वमसि यद् ब्रूषे पतिं मे भज भामिनि । क्वाहं क्व महिषः शृङ्गी सम्बन्धः कीदृशो द्वयोः
गच्छ युध्यस्व वा कामं हनिष्येऽहं सबान्धवम् । यज्ञभागं देवलोकं नोचेत्त्यक्त्वा सुखी भव
व्यास उवाच इत्युक्त्वा सा तदा देवी जगर्ज भृशमद्भुतम् । कल्पान्तसदृशं नादं चक्रे दैत्यभयावहम्
चकम्पे वसुधा चेलुस्तेन शब्देन भूधराः । गर्भाश्च दैत्यपत्नीनां सस्रंसुर्गर्जितस्वनात्
ताम्रः श्रुत्वा च तं शब्दं भयत्रस्तमनास्तदा । पलायनं ततः कृत्वा जगाम महिषान्तिकम्
नगरे तस्य ये दैत्यास्तेऽपि चिन्तामवाप्नुवन् । बधिरीकृतकर्णाश्च पलायनपरा नृप
तदा क्रोधेन सिंहोऽपि ननाद भृशमुत्सटः । तेन नादेन दैतेया भयं जग्मुरपि स्फुटम्
ताम्रं समागतं दृष्ट्वा हयारिरपि मोहितः । चिन्तयामास सचिवैः किं कर्तव्यमतः परम्
दुर्गग्रहो वा कर्तव्यो युद्धं निर्गत्य वा पुनः । पलायने कृते श्रेयो भवेद्वा दानवोत्तमाः
बुद्धिमन्तो दुराधर्षाः सर्वशास्त्रविशारदाः । मन्त्रः खलु प्रकर्तव्यः सुगुप्तः कार्यसिद्धये
मन्त्रमूलं स्मृतं राज्यं यदि स स्यात्सुरक्षितः । मन्त्रिभिश्च सदाचारैर्विधेयः सर्वथा बुधैः
मन्त्रभेदे विनाशः स्याद्राज्यस्य भूपतेस्तथा । तस्माद्भेदभयाद् गुप्तः कर्तव्यो भूतिमिच्छता
तदत्र मन्त्रिभिर्वाच्यं वचनं हेतुमद्धितम् । कालदेशानुसारेण विचिन्त्य नीतिनिर्णयम्
या योषात्र समायाता प्रबला देवनिर्मिता । एकाकिनी निरालम्बा कारणं तद्विचिन्त्यताम्
युद्धं प्रार्थयते बाला किमाश्चर्यमतः परम् । श्रेयोऽत्र विपरीतं वा को वेत्ति भुवनत्रये
न बहूनां जयोऽप्यस्ति नैकस्य च पराजयः । दैवाधीनौ सदा ज्ञेयौ युद्धे जयपराजयौ
उपायवादिनः प्राहुर्दैवं किं केन वीक्षितम् । अदृष्टमिति यन्नाम प्रवदन्ति मनीषिणः
तत्सत्त्वेऽपि प्रमाणं किं कातराशावलम्बनम् । न समर्थजनानां हि दैवं कुत्रापि लक्ष्यते
उद्यमो दैवमेतौ हि शूरकातरयोर्मतम् । विचिन्त्याद्य धिया सर्वं कर्तव्यं कार्यमादरात्