त्वरन्वीर महाबाहो सैन्येन महता वृतः । तत्र गत्वा त्वया ज्ञेया विचार्य च पुनः पुनः
किमर्थमागता चेयं ज्ञातव्यं तद्धि कारणम् । कामाद्वा वैरभावाच्च माया कस्येयमित्युत
आदौ तन्निश्चयं कृत्वा ज्ञातव्यं तच्चिकीर्षितम् । पश्चाद्युद्धं प्रकर्तव्यं यथायोग्यं यथाबलम्
कातरत्वं न कर्तव्यं निर्दयत्वं तथा न च । यादृशं हि मनस्तस्याः कर्तव्यं तादृशं त्वया
व्यास उवाच इति तद्भाषितं श्रुत्वा ताम्रः कालवशं गतः । निर्गतः सैन्यसंयुक्तः प्रणम्य महिषं नृपम्
गच्छन्मार्गे दुरात्मासौ शकुनान्वीक्ष्य दारुणान् । विस्मयञ्च भयं प्राप यममार्गप्रदर्शकान्
सगत्वा तां समालोक्य देवीं सिंहोपरिस्थिताम् । स्तूयमानां सुरैः सर्वैः सर्वायुधविभूषिताम्
तामुवाच विनीतः सन् वाक्यं मधुरया गिरा । सामभावं समाश्रित्य विनयावनतः स्थितः
देवि दैत्येश्वरः शृङ्गी त्वद्रूपगुणमोहितः । स्पृहां करोति महिषस्त्वत्पाणिग्रहणाय च
भावं कुरु विशालाक्षि तस्मिन्नमरदुर्जये । पतिं तं प्राप्य मृद्वङ्गि नन्दने विहराद्भुते
सर्वाङ्गसुन्दरं देहं प्राप्य सर्वसुखास्पदम् । सुखं सर्वात्मना ग्राह्यं दुःखं हेयमिति स्थितिः
करभोरु किमर्थं ते गृहीतान्यायुधान्यलम् । पुष्पकन्दुकयोग्यास्ते कराः कमलकोमलाः
भ्रूचापे विद्यमानेऽपि धनुषा किं प्रयोजनम् । कटाक्षा विशिखाः सन्ति किं बाणैर्निष्प्रयोजनैः
संसारे दुःखदं युद्धं न कर्तव्यं विजानता । लोभासक्ताः प्रकुर्वन्ति संग्रामञ्च परस्परम्
पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः । भेदनं निजगात्राणां कस्य तज्जायते मुदे
तस्मात्त्वमपि तन्वङ्गि प्रसादं कर्तुमर्हसि । भर्तारं भज मे नाथं देवदानवपूजितम्
स तेऽत्र वाञ्छितं सर्वं करिष्यति मनोरथम् । त्वं पट्टमहिषी राज्ञः सर्वथा नात्र संशयः
वचनं कुरु मे देवि प्राप्स्यसे सुखमुत्तमम् । संग्रामे जयसन्देहः कष्टं प्राप्य न संशयः
जानासि राजनीतिं त्वं यथावद्वरवर्णिनि । भुंक्ष्व राज्यसुखं पूर्णं वर्षाणामयुतायुतम्
पुत्रस्ते भविता कान्तः सोऽपि राजा भविष्यति । यौवने क्रीडयित्वान्ते वार्धक्ये सुखमाप्स्यसि
देवीपराजयकरणाय दुर्धरप्रबोधवचनम् व्यास उवाच तन्निशम्य वचस्तस्य ताम्रस्य जगदम्बिका । मेघगम्भीरया वाचा हसन्ती तमुवाच ह
देव्युवाच गच्छ ताम्र पतिं ब्रूहि मुमूर्षुं मन्दचेतसम् । महिषं चातिकामार्तं मूढं ज्ञानविवर्जितम्
यथा ते महिषी माता प्रौढा यवसभक्षिणी । नाहं तथा शृङ्गवती लम्बपुच्छा महोदरी
न कामयेऽहं देवेशं नैव विष्णुं न शङ्करम् । धनदं वरुणं नैव ब्रह्माणं न च पावकम्
एतान्देवगणान्हित्वा पशुं केन गुणेन वै । वृणोम्यहं वृथा लोके गर्हणा मे भवेदिति
नाहं पतिंवरा नारी वर्तते मे पतिः प्रभुः । सर्वकर्ता सर्वसाक्षी ह्यकर्ता निःस्पृहः स्थिरः
निर्गुणो निर्ममोऽनन्तो निरालम्बो निराश्रयः । सर्वज्ञः सर्वगः साक्षी पूर्णः पूर्णाशयः शिवः
सर्वावासक्षमः शान्तः सर्वदृक्सर्वभावनः । तं त्यक्त्वा महिषं मन्दं कथं सेवितुमुत्सहे
प्रबुध्य युध्यतां कामं करोमि यमवाहनम् । अथवा मनुजानां वै करिष्ये जलवाहकम्
जीवितेच्छास्ति चेत्पाप गच्छ पातालमाशु वै । समस्तैर्दानवैर्युक्तस्त्वन्यथा हन्मि सङ्गरे