तद्वै विचारतो ज्ञेयं रसग्रन्थविचक्षणैः । इति ज्ञात्वा महाराज कर्तव्यं रससंयुतम्
सामदानद्वयं तस्या नान्योपायोऽस्ति भूपते । रुष्टा वा गर्विता वापि वशगा मानिनी भवेत्
तादृशैर्मधुरैर्वाक्यैरानयिष्ये तवान्तिकम् । किं बहूक्तेन मे राजन् कर्तव्या वशवर्तिनी
गत्वा मयाधुनैवेयं किङ्करीव सदैव ते । व्यास उवाव इत्थं निशम्य तद्वाक्यं ताम्रस्तत्त्वविचक्षणः
उवाच वचनं राजन्निशामय मयोदितम् । हेतुमद्धर्मसहितं रसयुक्तं नयान्वितम्
नैषा कामातुरा बाला नानुरक्ता विचक्षणा । व्यंग्यानि नैव वाक्यानि तयोक्तानि तु मानद
चित्रमत्र महाबाहो यदेका वरवर्णिनी । निरालम्बा समायाति चित्ररूपा मनोहरा
अष्टादशभुजा नारी न श्रुता न च वीक्षिता । केनापि त्रिषु लोकेषु पराक्रमवती शुभा
आयुधान्यपि तावन्ति धृतानि बलवन्ति च । विपरीतमिदं मन्ये सर्वं कालकृतं नृप
स्वप्नानि दुर्निमित्तानि मया दृष्टानि वै निशि । तेन जानाम्यहं नूनं वैशसं समुपागतम्
कृष्णाम्बरधरा नारी रुदती च गृहाङ्गणे । दृष्टा स्वप्नेऽप्युषःकाले चिन्तितव्यस्तदत्ययः
विकृताः पक्षिणो रात्रौ रोरुवन्ति गृहे गृहे । उत्पाता विविधा राजन् प्रभवन्ति गृहे गृहे
तेन जानाम्यहं नूनं कारणं किञ्चिदेव हि । यत्त्वां प्रार्थयते बाला युद्धाय कृतनिश्चया
नैषास्ति मानुषी नो वा गान्धर्वी न तथासुरी । देवैः कृतेयं ज्ञातव्या माया मोहकरी विभो
कातरत्वं न कर्तव्यं ममैतन्मतमित्यलम् । कर्तव्यं सर्वथा युद्धं यद्भाव्यं तद्भविष्यति
को वेद दैवकर्तव्यं शुभं वाप्यशुभं तथा । अवलम्ब्य धिया धैर्यं स्थातव्यं वै विचक्षणैः
जीवितं मरणं पुंसां दैवाधीनं नराधिप । कोऽपि नैवान्यथा कर्तुं समर्थो भुवनत्रये
महिष उवाच गच्छ ताम्र महाभाग युद्धाय कृतनिश्चयः । तामानय वरारोहां जित्वा धर्मेण मानिनीम्
न भवेद्वशगा नारी संग्रामे यदि सा तव । हन्तव्या नान्यथा कामं माननीया प्रयत्नतः
वीरस्त्वमसि सर्वज्ञ कामशास्त्रविशारदः । येन केनाप्युपायेन जेतव्या वरवर्णिनी
त्वरन्वीर महाबाहो सैन्येन महता वृतः । तत्र गत्वा त्वया ज्ञेया विचार्य च पुनः पुनः
किमर्थमागता चेयं ज्ञातव्यं तद्धि कारणम् । कामाद्वा वैरभावाच्च माया कस्येयमित्युत
आदौ तन्निश्चयं कृत्वा ज्ञातव्यं तच्चिकीर्षितम् । पश्चाद्युद्धं प्रकर्तव्यं यथायोग्यं यथाबलम्
कातरत्वं न कर्तव्यं निर्दयत्वं तथा न च । यादृशं हि मनस्तस्याः कर्तव्यं तादृशं त्वया
व्यास उवाच इति तद्भाषितं श्रुत्वा ताम्रः कालवशं गतः । निर्गतः सैन्यसंयुक्तः प्रणम्य महिषं नृपम्
गच्छन्मार्गे दुरात्मासौ शकुनान्वीक्ष्य दारुणान् । विस्मयञ्च भयं प्राप यममार्गप्रदर्शकान्
सगत्वा तां समालोक्य देवीं सिंहोपरिस्थिताम् । स्तूयमानां सुरैः सर्वैः सर्वायुधविभूषिताम्
तामुवाच विनीतः सन् वाक्यं मधुरया गिरा । सामभावं समाश्रित्य विनयावनतः स्थितः
देवि दैत्येश्वरः शृङ्गी त्वद्रूपगुणमोहितः । स्पृहां करोति महिषस्त्वत्पाणिग्रहणाय च
भावं कुरु विशालाक्षि तस्मिन्नमरदुर्जये । पतिं तं प्राप्य मृद्वङ्गि नन्दने विहराद्भुते