रसभङ्गं विचिन्त्यैव न युद्धं तु मया कृतम् । आज्ञां विना तवात्यन्तं कथं कुर्यां वृथोद्यमम्
सातीव च बलोन्मत्ता वर्तते भूप भामिनी । भवितव्यं न जानामि किं वा भावि भविष्यति
कार्येऽस्मिंस्त्वं प्रमाणं नो मन्त्रोऽतीव दुरासदः । युद्धं पलायनं श्रेयो न जानेऽहं विनिश्चयम्
ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् व्यास उवाच इति तस्य वचः श्रुत्वा महिषो मदविह्वलः । मन्त्रिवृद्धान् समाहूय राजा वचनमब्रवीत्
राजोवाच मन्त्रिणः किं च कर्तव्यं विश्रब्धं ब्रूत मा चिरम् । आगता देवविहिता मायेयं शाम्बरीव किम्
कार्येऽस्मिन्निपुणा यूयमुपायेषु विचक्षणाः । सामादिषु च कर्तव्यः कोऽत्र मह्यं ब्रुवन्तु च
मन्त्रिण ऊचुः सत्यं सदैव वक्तव्यं प्रियञ्च नृपसत्तम । कार्यं हितकरं नूनं विचार्य विबुधैः किल
सत्यं च हितकृद्राजन्प्रियं चाहितकृद्भवेत् । यथौषधं नृणां लोके ह्यप्रियं रोगनाशनम्
सत्यस्य श्रोता मन्ता च दुर्लभः पृथिवीपते । वक्तापि दुर्लभः कामं बहवश्चाटुभाषकाः
कथं ब्रूमोऽत्र नृपते विचारे गहने त्विह । शुभं वाप्यशुभं वापि को वेत्ति भुवनत्रये
राजोवाच स्वस्वमत्यनुसारेण ब्रुवन्त्वद्य पृथक्पृथक् । येषां हि यादृशो भावस्तच्छ्रुत्वा चिन्तयाम्यहम्
बहूनां मतमाज्ञाय विचार्य च पुनः पुनः । यच्छ्रेयस्तद्धि कर्तव्यं कार्यं कार्यविचक्षणैः
व्यास उवाच तस्यैवं वचनं श्रुत्वा विरूपाक्षो महाबलः । उवाच तरसा वाक्यं रञ्जयन्पृथिवीपतिम्
विरूपाक्ष उवाच राजन्नारी वराकीयं सा ब्रूते मदगर्विता । विभीषिकामात्रमिदं ज्ञातव्यं वचनं त्वया
को बिभेति स्त्रियो वाक्यैर्दुरुक्तै रणदुर्मदैः । अनृतं साहसं चेति जानन्नारीविचेष्टितम्
जित्वा त्रिभुवनं राजन्नद्य कान्ताभयेन वै । दीनत्वेऽप्ययशो नूनं वीरस्य भुवने भवेत्
तस्माद्याम्यहमेकाकी युद्धाय चण्डिकां प्रति । हनिष्ये तां महाराज निर्भयो भव साम्प्रतम्
सेनावृतोऽहं गत्वा तां शस्त्रास्त्रैर्विविधैः किल । निषूदयामि दुर्मर्षां चण्डिकां चण्डविक्रमाम्
बद्ध्वा सर्पमयैः पाशैरानयिष्ये तवान्तिकम् । वशगा तु सदा ते स्यात्पश्य राजन् बलं मम
व्यास उवाच विरूपाक्षवचः श्रुत्वा दुर्धरो वाक्यमब्रवीत् । सत्यमुक्तं वचो राजन् विरूपाक्षेण धीमता
ममापि वचनं श्लक्ष्णं श्रोतव्यं धीमता त्वया । कामातुरैषा सुदती लक्ष्यतेऽप्यनुमानतः
भवत्येवंविधा कामं नायिका रूपगर्विता । भीषयित्वा वरारोहा त्वां वशे कर्तुमिच्छति
हावोऽयं मानिनीनां वै तं वेत्ति रसवित्तमः । वक्रोक्तिरेषा कामिन्याः प्रियं प्रति परायणम्
वेत्ति कोऽपि नरः कामं कामशास्त्रविचक्षणः । यदुक्तं नाम बाणैस्त्वा वधिष्ये रणमूर्धनि
हेतुगर्भमिदं वाक्यं ज्ञातव्यं हेतुवित्तमैः । बाणास्तु मानिनीनां वै कटाक्षा एव विश्रुताः
पुष्पाञ्जलिमयाश्चान्ये व्यंग्यानि वचनानि च । का शक्तिरन्यबाणानां प्रेरणे त्वयि पार्थिव
तादृशीनां न सा शक्तिर्ब्रह्मविष्णुहरादिषु । ययोक्तं नेत्रबाणैस्त्वां हनिष्ये मन्द पार्थिवम्
विपरीतं परिज्ञातं तेनारसविदा किल । पातयिष्यामि शय्यायां रणमय्यां पतिं तव
विपरीतरतिकीडाभाषणं ज्ञेयमेव तत् । करिष्ये विगतप्राणं यदुक्तं वचनं तया
वीर्यं प्राणा इति प्रोक्तं तद्विहीनं न चान्यथा । व्यंग्याधिक्येन वाक्येन वरयत्युत्तमा नृप