अन्यथा चेन्मतिर्मन्द महिषस्य दुरात्मनः । तद्युध्यस्व मया सार्धं मरणाय कृतादरः
मन्यसे सङ्गरे भग्ना देवा विष्णुपुरोगमाः । दैवं हि कारणं तत्र वरदानं प्रजापतेः
व्यास उवाच इति देव्या वचः श्रुत्वा चिन्तयामास दानवः । किं कर्तव्यं मया युद्धं गन्तव्यं वा नृपं प्रति
विवाहार्थमिहाज्ञप्तो राज्ञा कामातुरेण वै । तत्कथं विरसं कृत्वा गच्छेयं नृपसन्निधौ
इयं बुद्धिः समीचीना यद् व्रजामि कलिं विना । यथागतं तथा शीघ्रं राज्ञे संवेदयाम्यहम्
स प्रमाणं पुनः कार्ये राजा मतिमतां वरः । करिष्यति विचार्यैव सचिवैर्निपुणैः सह
सहसा न मया युद्धं कर्तव्यमनया सह । जये पराजये वापि भूपतेरप्रियं भवेत्
यदि मां सुन्दरी हन्यादहं वा हन्मि तां पुनः । येन केनाप्युपायेन स कुप्येत्पार्थिवः किल
तस्मात्तत्रैव गत्वाहं बोधयिष्यामि तं नृपम् । यथाद्याभिहितं देव्या यथारुचि करोतु सः
व्यास उवाच इति सञ्चिन्त्य मेधावी जगाम नृपसन्निधौ । प्रणम्य तमुवाचेदं कृताञ्जलिरमात्यकः
मन्त्र्युवाच राजन् देवी वरारोहा सिंहस्योपरि संस्थिता । अष्टादशभुजा रम्या वरायुधधरा परा
सा मयोक्ता महाराज महिषं भज भामिनि । महिषी भव राज्ञस्त्वं त्रैलोक्याधिपतेः प्रिया
पट्टराज्ञी त्वमेवास्य भविता नात्र संशयः । स तवाज्ञाकरो जातो वशवर्ती भविष्यति
त्रैलोक्यविभवं भुक्त्वा चिरकालं वरानने । महिषं पतिमासाद्य योषितां सुभगा भव
इति मद्वचनं श्रुत्वा सा स्मयावेशमोहिता । मामुवाच विशालाक्षी स्मितपूर्वमिदं वचः
महिषीगर्भसम्भूतं पशूनामधमं किल । बलिं दास्याम्यहं देव्यै सुराणां हितकाम्यया
का मूढा कामिनी लोके महिषं वै पतिं भजेत् । मादृशी मन्दबुद्धे किं पशुभावं भजेदिह
महिषी महिषं नाथं सशृङ्गा शृङ्गसंयुतम् । कुरुते क्रन्दमाना वै नाहं तत्सदृशी शठा
करिष्येऽहं मृधे युद्धं हनिष्ये त्वां सुराप्रियम् । गच्छ वा दुष्ट पातालं जीवितेच्छा यदस्ति ते
परुषं तु तया वाक्यमित्युक्तं नृप मत्तया । तच्छ्रुत्वाहं समायातः प्रविचिन्त्य पुनः पुनः
रसभङ्गं विचिन्त्यैव न युद्धं तु मया कृतम् । आज्ञां विना तवात्यन्तं कथं कुर्यां वृथोद्यमम्
सातीव च बलोन्मत्ता वर्तते भूप भामिनी । भवितव्यं न जानामि किं वा भावि भविष्यति
कार्येऽस्मिंस्त्वं प्रमाणं नो मन्त्रोऽतीव दुरासदः । युद्धं पलायनं श्रेयो न जानेऽहं विनिश्चयम्
ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् व्यास उवाच इति तस्य वचः श्रुत्वा महिषो मदविह्वलः । मन्त्रिवृद्धान् समाहूय राजा वचनमब्रवीत्
राजोवाच मन्त्रिणः किं च कर्तव्यं विश्रब्धं ब्रूत मा चिरम् । आगता देवविहिता मायेयं शाम्बरीव किम्
कार्येऽस्मिन्निपुणा यूयमुपायेषु विचक्षणाः । सामादिषु च कर्तव्यः कोऽत्र मह्यं ब्रुवन्तु च
मन्त्रिण ऊचुः सत्यं सदैव वक्तव्यं प्रियञ्च नृपसत्तम । कार्यं हितकरं नूनं विचार्य विबुधैः किल
सत्यं च हितकृद्राजन्प्रियं चाहितकृद्भवेत् । यथौषधं नृणां लोके ह्यप्रियं रोगनाशनम्
सत्यस्य श्रोता मन्ता च दुर्लभः पृथिवीपते । वक्तापि दुर्लभः कामं बहवश्चाटुभाषकाः
कथं ब्रूमोऽत्र नृपते विचारे गहने त्विह । शुभं वाप्यशुभं वापि को वेत्ति भुवनत्रये