नोचेद्धन्म्यहमद्यैव बाणेन त्वां मृषावदाम् । मिथ्याभिमानचतुरां रूपयौवनगर्विताम्
स्वामी मे मोहितः श्रुत्वा रूपं ते भुवनातिगम् । तत्प्रियार्थं प्रियं कामं वक्तव्यं त्वयि यन्मया
राज्यं तव धनं सर्वं दासस्ते महिषः किल । कुरु भावं विशालाक्षि त्यक्त्वा रोषं मृतिप्रदम्
पतामि पादयोस्तेऽहं भक्तिभावेन भामिनि । पट्टराज्ञी महाराज्ञो भव शीघ्रं शुचिस्मिते
त्रैलोक्यविभवं सर्वं प्राप्स्यसि त्वमनाविलम् । सुखं संसारजं सर्वं महिषस्य परिग्रहात्
देव्युवाच शृणु साचिव वक्ष्यामि वाक्यानां सारमुत्तमम् । शास्त्रदृष्टेन मार्गेण चातुर्यमनुचिन्त्य च
महिषस्य प्रधानस्त्वं मया ज्ञातं धिया किल । पशुबुद्धिस्वभावोऽसि वचनात्तव साम्प्रतम्
मन्त्रिणस्त्वादृशा यस्य स कथं बुद्धिमान्भवेत् । उभयोः सदृशो योगः कृतोऽयं विधिना किल
यदुक्तं स्त्रीस्वभावासि तद्विचारस्य मूढ किम् । पुमान्नाहं तत्स्वभावाभवंस्त्रीवेषधारिणी
याचितं मरणं पूर्वं स्त्रिया त्वत्प्रभुणा यथा । तस्मान्मन्येऽतिमूर्खोऽसौ न वीररसवित्तमः
कामिन्या मरणं क्लीबरतिदं शूरदुःखदम् । प्रार्थितं प्रभुणा तेन महिषेणात्मबुद्धिना
तस्मात्स्त्रीरूपमाधाय कार्यं कर्तुमुपागता । कथं बिभेमि त्वद्वाक्यैर्धर्मशास्त्रविरोधकैः
विपरीतं यदा दैवं तृणं वज्रसमं भवेत् । विधिश्चेत्सुमुखः कामं कुलिशं तूलवत्तदा
किं सैन्यैरायुधैः किं वा प्रपञ्चैर्दुर्गसेवनैः । मरणं साम्प्रतं यस्य तस्य सैन्यैस्तु किं फलम्
यदायं देहसम्बन्धो जीवस्य कालयोगतः । तदैव लिखितं सर्वं सुखं दुःखं तथा मृतिः
यस्य येन प्रकारेण मरणं दैवनिर्मितम् । तस्य तेनैव जायेत नान्यथेति विनिश्चयः
ब्रह्मादीनां यथा काले नाशोत्पत्ती विनिर्मिते । तथैव भवतः कामं किमन्येषां विचार्यते
ये मृत्युधर्मिणस्तेषां वरदानेन दर्पिताः । मरिष्यामो न मन्यन्ते ते मूढा मन्दचेतसः
तस्माद् गच्छ नृपं ब्रूहि वचनं मम सत्वरम् । यदाज्ञापयते भूपस्तत्कर्तव्यं त्वया किल
मघवा स्वर्गमाप्नोतु देवाः सन्तु हविर्भुजः । यूयं प्रयात पातालं यदि जीवितुमिच्छथ
अन्यथा चेन्मतिर्मन्द महिषस्य दुरात्मनः । तद्युध्यस्व मया सार्धं मरणाय कृतादरः
मन्यसे सङ्गरे भग्ना देवा विष्णुपुरोगमाः । दैवं हि कारणं तत्र वरदानं प्रजापतेः
व्यास उवाच इति देव्या वचः श्रुत्वा चिन्तयामास दानवः । किं कर्तव्यं मया युद्धं गन्तव्यं वा नृपं प्रति
विवाहार्थमिहाज्ञप्तो राज्ञा कामातुरेण वै । तत्कथं विरसं कृत्वा गच्छेयं नृपसन्निधौ
इयं बुद्धिः समीचीना यद् व्रजामि कलिं विना । यथागतं तथा शीघ्रं राज्ञे संवेदयाम्यहम्
स प्रमाणं पुनः कार्ये राजा मतिमतां वरः । करिष्यति विचार्यैव सचिवैर्निपुणैः सह
सहसा न मया युद्धं कर्तव्यमनया सह । जये पराजये वापि भूपतेरप्रियं भवेत्
यदि मां सुन्दरी हन्यादहं वा हन्मि तां पुनः । येन केनाप्युपायेन स कुप्येत्पार्थिवः किल
तस्मात्तत्रैव गत्वाहं बोधयिष्यामि तं नृपम् । यथाद्याभिहितं देव्या यथारुचि करोतु सः
व्यास उवाच इति सञ्चिन्त्य मेधावी जगाम नृपसन्निधौ । प्रणम्य तमुवाचेदं कृताञ्जलिरमात्यकः