स पीडयति दुष्टात्मा मुनीन् वेदांश्च सर्वशः । न कोऽपि विद्यते तस्य हन्ताद्य भुवनत्रये
तस्माच्छीर्षं हयस्यास्य समुद्धृत्य मनोहरम् । देहेऽत्र विशिरोविष्णोस्त्वष्टा संयोजयिष्यति
हयग्रीवोऽथ भगवान्हनिष्यति तमासुरम् । पापिष्ठं दानवं क्रूरं देवानां हितकाम्यया
सूत उवाच एवं सुरांस्तदाभाष्य शर्वाणी विरराम ह । देवास्तदातिसन्तुष्टास्तमूचुर्देवशिल्पिनम्
देवा ऊचुः कुरु कार्यं सुराणां वै विष्णोः शीर्षाभियोजनम् । दानवप्रवरं दैत्यं हयग्रीवो हनिष्यति
सूत उवाच इति श्रुत्वा वचस्तेषां त्वष्टा चातित्वरान्वितः । वाजिशीर्षं चकर्ताशु खड्गेन सुरसन्निधौ
विष्णोः शरीरे तेनाशु योजितं वाजिमस्तकम् । हयग्रीवो हरिर्जातो महामायाप्रसादतः
कियता तेन कालेन दानवो मददर्पितः । निहतस्तरसा संख्ये देवानां रिपुरोजसा
य इदं शुभमाख्यानं शृण्वन्ति भुवि मानवाः । सर्वदुःखविनिर्मुक्तास्ते भवन्ति न संशयः
महामायाचरित्रञ्च पवित्रं पापनाशनम् । पठतां शृण्वतां चैव सर्वसम्पत्तिकारकम्
मधुकैटभयोर्युद्धोद्योगवर्णनम् ऋषय ऊचुः सौम्य यच्च त्वया प्रोक्तं शौरेर्युद्धं महार्णवे । मधुकैटभयोः सार्धं पञ्चवर्षसहस्रकम्
कस्मात्तौ दानवौ जातौ तस्मिन्नेकार्णवे जले । महावीर्यो दुराधर्षौ देवैरपि सुदुर्जयौ
कथं तावसुरौ जातौ कथं च हरिणा हतौ । तदाचक्ष्व महाप्राज्ञ चरितं परमाद्भुतम्
श्रोतुकामा वयं सर्वे त्वं वक्ता च बहुश्रुतः । दैवाच्चात्रैव संजातः संयोगश्च तथावयोः
मूर्खेण सह संयोगो विषादपि सुदुर्जरः । विज्ञेन सह संयोगः सुधारससमः स्मृतः
जीवन्ति पशवः सर्वे खादन्ति मेहयन्ति च । जानन्ति विषयाकारं व्यवायसुखमद्भुतम्
न तेषां सदसज्ज्ञानं विवेको न च मोक्षदः । पशुभिस्ते समा ज्ञेया येषां न श्रवणादरः
मृगाद्याः पशवः केचिज्जानन्ति श्रावणं सुखम् । अश्रोत्राः फणिनश्चैव मुमुहुर्नादपानतः
पञ्चानामिन्द्रियाणां वै शुभे श्रवणदर्शने । श्रवणाद्वस्तुविज्ञानं दर्शनाच्चित्तरञ्जनम्
श्रवणं त्रिविधं प्रोक्तं सात्त्विकं राजसं तथा । तामसं च महाभाग सुज्ञोक्तं निश्चयान्वितम्
सात्त्विकं वेदशास्त्रादि साहित्यं चैव राजसम् । तामसं युद्धवार्ता च परदोषप्रकाशनम्
सात्त्विकं त्रिविधं प्रोक्तं प्रज्ञावद्भिश्च पण्डितैः । उत्तमं मध्यमं चैव तथैवाधममित्युत
उत्तमं मोक्षफलदं स्वर्गदं मध्यमं तथा । अधमं भोगदं प्रोक्तं निर्णीय विदितं बुधैः
साहित्यं चैव त्रिविधं स्वीयायां चोत्तमं स्मृतम् । मध्यमं वारयोषायां परोढायां तथाधमम्
तामसं त्रिविधं ज्ञेयं विद्वद्भिः शास्त्रदर्शिभिः । आततायिनियुद्धं यत्तदुत्तममुदाहृतम्
मध्यमं चापि विद्वेषात्पाण्डवानां तथारिभिः । अधमं निर्निमित्तं तु विवादे कलहे तथा
तदत्र श्रवणं मुख्यं पुराणस्य महामते । बुद्धिप्रवर्धनं पुण्यं ततः पापप्रणाशनम्
तदाख्याहि महाबुद्धे कथां पौराणिकीं शुभाम् । श्रुतां द्वैपायनात्पूर्वं सर्वार्थस्य प्रसाधिनीम्
सूत उवाच यूयं धन्या महाभागा धन्योऽहं पृथिवीतले । येषां श्रवणबुद्धिश्च ममापि कथने किल
पुरा चैकार्णवे जाते विलीने भुवनत्रये । शेषपर्यङ्कसुप्ते च देवदेवे जनार्दने