तस्मादिहागतास्म्यद्य तद्वधार्थं कृतोद्यमा । एकाकिनी न सैन्येन संयुता मन्त्रिसत्तम
यत्त्वयाहं सामपूर्वं कृत्वा स्वागतमादरात् । उक्ता मधुरया वाचा तेन तुष्टास्मि तेऽनघ
नोचेद्धन्मि दृशा त्वां वै कालाग्निसमया किल । कस्य प्रीतिकरं न स्यान्माधुर्यवचनं खलु
गच्छ तं महिषं पापं वद मद्वचनादिदम् । गच्छ पातालमधुना जीवितेच्छा यदस्ति ते
नोचेत्कृतागसं दुष्टं हनिष्यामि रणाङ्गणे । मद्बाणक्षुण्णदेहस्त्वं गन्तासि यमसादनम्
दयालुत्वं ममेदं त्वं विदित्वा गच्छ सत्वरम् । हते त्वयि सुरा मूढ स्वर्गं प्राप्स्यन्ति सत्वरम्
तस्माद् गच्छस्व त्यक्त्वैको मेदिनीञ्च ससागराम् । पातालं तरसा मन्द यावद् बाणा न मेऽपतन्
युद्धेच्छा चेन्मनसि ते तर्ह्येहि त्वरितोऽसुर । वीरैर्महाबलैः सर्वैर्नयामि यमसादनम्
युगे युगे महामूढ हतास्त्वत्सदृशाः किल । असंख्यातास्तथा त्वां वै हनिष्यामि रणाङ्गणे
साफल्यं कुरु शस्त्राणां धारणे तु श्रमोऽन्यथा । तद्युध्यस्व मया सार्धं समरे स्मरपीडितः
मा गर्वं कुरु दुष्टात्मन् यन्मेऽस्ति ब्रह्मणो वरः । स्त्रीवध्यत्वे त्वया मूढ पीडिताः सुरसत्तमाः
कर्तव्यं वचनं धातुस्तेनाहं त्वामुपागता । स्त्रीरूपमतुलं कृत्वा सत्यं हन्तुं कृतागसम्
यथेच्छं गच्छ वा मूढ पातालं पन्नगावृतम् । हित्वा भूसुरसद्माद्य जीवितेच्छा यदस्ति ते
व्यास उवाच इत्युक्तः स ततो देव्या मन्त्रिश्रेष्ठो बलान्वितः । प्रत्युवाच निशम्यासौ वचनं हेतुगर्भितम्
देवि स्त्रीसदृशं वाक्यं ब्रूषे त्वं मदगर्विता । क्वासौ क्व त्वं कथं युद्धमसम्भाव्यमिदं किल
एकाकिनी पुनर्बाला प्रारब्धयौवना मृदुः । महिषोऽसौ महाकायो दुर्विभाव्यं हि सङ्गतम्
सैन्यं बहुविधं तस्य हस्त्यश्वरथसंकुलम् । पदातिगणसंविद्धं नानायुधविराजितम्
कः श्रमः करिराजस्य मालतीपुष्पमर्दने । मारणे तव वामोरु महिषस्य तथा रणे
यदि त्वां परुषं वाक्यं ब्रवीमि स्वल्पमप्यहम् । शृङ्गारे तद्विरुद्धं हि रसभङ्गाद्बिभेम्यहम्
राजास्माकं सुररिपुर्वर्तते त्वयि भक्तिमान् । साममेव मया वाच्यं दानयुक्तं तथा वचः
नोचेद्धन्म्यहमद्यैव बाणेन त्वां मृषावदाम् । मिथ्याभिमानचतुरां रूपयौवनगर्विताम्
स्वामी मे मोहितः श्रुत्वा रूपं ते भुवनातिगम् । तत्प्रियार्थं प्रियं कामं वक्तव्यं त्वयि यन्मया
राज्यं तव धनं सर्वं दासस्ते महिषः किल । कुरु भावं विशालाक्षि त्यक्त्वा रोषं मृतिप्रदम्
पतामि पादयोस्तेऽहं भक्तिभावेन भामिनि । पट्टराज्ञी महाराज्ञो भव शीघ्रं शुचिस्मिते
त्रैलोक्यविभवं सर्वं प्राप्स्यसि त्वमनाविलम् । सुखं संसारजं सर्वं महिषस्य परिग्रहात्
देव्युवाच शृणु साचिव वक्ष्यामि वाक्यानां सारमुत्तमम् । शास्त्रदृष्टेन मार्गेण चातुर्यमनुचिन्त्य च
महिषस्य प्रधानस्त्वं मया ज्ञातं धिया किल । पशुबुद्धिस्वभावोऽसि वचनात्तव साम्प्रतम्
मन्त्रिणस्त्वादृशा यस्य स कथं बुद्धिमान्भवेत् । उभयोः सदृशो योगः कृतोऽयं विधिना किल
यदुक्तं स्त्रीस्वभावासि तद्विचारस्य मूढ किम् । पुमान्नाहं तत्स्वभावाभवंस्त्रीवेषधारिणी
याचितं मरणं पूर्वं स्त्रिया त्वत्प्रभुणा यथा । तस्मान्मन्येऽतिमूर्खोऽसौ न वीररसवित्तमः