गृहीत्वा तं दुरात्मानं मत्समीपं नयन्त्विह । हनिष्यामि दुराचारं गर्जन्तं स्मयदुर्मदम्
क्षीणायुष्यं मन्दमतिं नयामि यमसादनम् । पराजिताः सुराः कामं न गर्जन्ति भयातुराः
नासुरा मम वश्यास्ते कस्येदं मूढचेष्टितम् । त्वरिता मामुपायान्तु ज्ञात्वा शब्दस्य कारणम्
अहं गत्वा हनिष्यामि तं पापं वितथश्रमम् । व्यास उवाच इत्युक्तास्तेन ते दूता देवीं सर्वाङ्गसुन्दरीम्
अष्टादशभुजां दिव्यां सर्वाभरणभूषिताम् । सर्वलक्षणसम्पन्नां वरायुधधरां शुभाम्
दधतीं चषकं हस्ते पिबन्तीं च मुहुर्मधु । संवीक्ष्य भयभीतास्ते जग्मुस्त्रस्ताः सुशङ्किताः
सकाशे महिषस्याशु तमूचुः स्वनकारणम् । दूता ऊचुः देवी दैत्येश्वर प्रौढा दृश्यते काचिदङ्गना
सर्वाङ्गभूषणा नारी सर्वरत्नोपशोभिता । न मानुषी नासुरी सा दिव्यरूपा मनोहरा
सिंहारूढायुधधरा चाष्टादशकरा वरा । सा नादं कुरुते नारी लक्ष्यते मदगर्विता
सुरापानरता कामं जानीमो न सभर्तृका । अन्तरिक्षस्थिता देवास्तां स्तुवन्ति मुदान्विताः
जयेति पाहि नश्चेति जहि शत्रुमिति प्रभो । न जाने का वरारोहा कस्य वा सा परिग्रहः
किमर्थमागता चात्र किं चिकीर्षति सुन्दरी । द्रष्टुं नैव समर्थाः स्मस्तत्तेजःपरिधर्षिताः
शृङ्गारवीरहासाढ्या रौद्राद्भुतरसान्विता । दृष्ट्वैवैवंविधां नारीमसम्भाष्य समागताः
वयं त्वदाज्ञया राजन् किं कर्तव्यमतःपरम् । महिष उवाच गच्छ वीर मयादिष्टो मन्त्रिश्रेष्ठ बलान्वितः
सामादिभिरुपायैस्त्वं समानय शुभाननाम् । नायाति यदि सा नारी त्रिभिः सामादिभिस्त्विह
अहत्वा तां वरारोहां त्वमानय ममान्तिकम् । करोमि पट्टमहिषीं तां मरालभ्रुवं मुदा
प्रीतियुक्ता समायाति यदि सा मृगलोचना । रसभङ्गो यथा न स्यात्तथा कुरु ममेप्सितम्
श्रवणान्मोहितोऽस्म्यद्य तस्या रूपस्य सम्पदा । व्यास उवाच महिषस्य वचः श्रुत्वा पेशलं मन्त्रिसत्तमः
जगाम तरसा कामं गजाश्वरथसंयुतः । गत्वा दूरतरं स्थित्वा तामुवाच मनस्विनीम्
विनयावनतः श्लक्ष्णं मन्त्री मधुरया गिरा । प्रधान उवाच कासि त्वं मधुरालापे किमत्रागमनं कृतम्
पृच्छति त्वां महाभागे मन्मुखेन मम प्रभुः । स जेता सर्वदेवानामवध्यस्तु नरैः किल
ब्रह्मणो वरदानेन गर्वितश्चारुलोचने । दैत्येश्वरोऽसौ बलवान्कामरूपधरः सदा
श्रुत्वा त्वां समुपायातां चारुवेषां मनोहराम् । द्रष्टुमिच्छति राजा मे महिषो नाम पार्थिवः
मानुषं रूपमादाय त्वत्समीपं समेष्यति । यथा रुच्येत चार्वङ्गि तथा मन्यामहे वयम्
तर्ह्येहि मृगशावाक्षि समीपं तस्य धीमतः । नो चेदिहानयाम्येनं राजानं भक्तितत्परम्
तथा करोमि देवेशि यथा ते मनसेप्सितम् । वशगोऽसौ तवात्यर्थं रूपसंश्रवणात्तव
करभोरु वदाशु त्वं संविधेयं मया तथा
मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः व्यास उवाच इति तस्य वचः श्रुत्वा प्रहस्य प्रमदोत्तमा । तमुवाच महाराज मेघगम्भीरया गिरा
देव्युवाच मन्त्रिवर्य सुराणां वै जननीं विद्धि मां किल । महालक्ष्मीमिति ख्यातां सर्वदैत्यनिषूदिनीम्
प्रार्थिताहं सुरैः सर्वैर्महिषस्य वधाय च । पीडितैर्दानवेन्द्रेण यज्ञभागबहिष्कृतैः