वरुणश्च प्रसन्नात्मा ददौ शङ्खं समुज्वलम् । घोषवन्तं स्वशङ्खात्तु समुत्पाद्य सुमङ्गलम्
हुताशनस्तथा शक्तिं शतघ्नीं सुमनोजवाम् । प्रायच्छत्तु प्रसन्नात्मा तस्यै दैत्यविनाशिनीम्
इषुधिं बाणपूर्णञ्च चापं चाद्भुतदर्शनम् । मारुतो दत्तवांस्तस्यै दुराकर्षं खरस्वरम्
स्ववज्राद्वज्रमुत्पाद्य ददाविन्द्रोऽतिदारुणम् । घण्टामैरावतात्तूर्णं सुशब्दां चातिसुन्दराम्
ददौ दण्डं यमः कामं कालदण्डसमुद्भवम् । येनान्तं सर्वभूतानामकरोत्काल आगते
ब्रह्मा कमण्डलुं दिव्यं गङ्गावारिप्रपूरितम् । ददावस्यै मुदा युक्तो वरुणः पाशमेव च
कालः खड्गं तथा चर्म प्रायच्छत्तु नराधिप । परशुं विश्वकर्मा च तीक्ष्णमस्यै ददावथ
धनदस्तु सुरापूर्णं पानपात्रं सुवर्णजम् । पङ्कजं वरुणश्चादाद्देव्यै दिव्यं मनोहरम्
गदां कौमोदकीं त्वष्टा घण्टाशतनिनादिनीम् । अदात्तस्यै प्रसन्नात्मा सुरशत्रुविनाशिनीम्
अस्त्राण्यनेकरूपाणि तथाभेद्यञ्च दंशनम् । ददौ त्वष्टा जगन्मात्रे निजरश्मीन्दिवाकरः
सायुधां भूषणैर्युक्तां दृष्ट्वा ते विस्मयं गताः । तुष्टुवुस्तां सुरा देवीं त्रैलोक्यमोहिनीं शिवाम्
देवा ऊचुः नमः शिवायै कल्याण्यै शान्त्यै पुष्ट्यै नमो नमः । भगवत्यै नमो देव्यै रुद्राण्यै सततं नमः
कालरात्र्यै तथाम्बायै इन्द्राण्यै ते नमो नमः । सिद्ध्यै बुद्ध्यै तथा वृद्ध्यै वैष्णव्यै ते नमो नमः
पृथिव्यां या स्थिता पृथ्व्या न ज्ञाता पृथिवीञ्च या । अन्तःस्थिता यमयति वन्दे तामीश्वरीं पराम्
मायायां या स्थिता ज्ञाता मायया न च तामजाम् । अन्तःस्थिता प्रेरयति प्रेरयित्रीं नुमः शिवाम्
कल्याणं कुरु भो मातस्त्राहि नः शत्रुतापितान् । जहि पापं हयारिं त्वं तेजसा स्वेन मोहितम्
खलं मायाविनं घोरं स्त्रीवध्यं वरदर्पितम् । दुःखदं सर्वदेवानां नानारूपधरं शतम्
त्वमेका सर्वदेवानां शरणं भक्तवत्सले । पीडितान्दानवेनाद्य त्राहि देवि नमोऽस्तु ते
व्यास उवाच एवं स्तुता तदा देवी सुरैः सर्वसुखप्रदा । तानुवाच महादेवी स्मितपूर्वं शुभं वचः
देव्युवाच भयं त्यजन्तु गीर्वाणा महिषान्मन्दचेतसः । हनिष्यामि रणेऽद्यैव वरदृप्तं विमोहितम्
व्यास उवाच इत्युक्त्वा सा सुरान्देवी जहासातीव सुस्वरम् । चित्रमेतच्च संसारे भ्रममोहयुतं जगत्
ब्रह्मविष्णुमहेशाद्याः सेन्द्राश्चान्ये सुरास्तथा । कम्पयुक्ता भयत्रस्ता वर्तन्ते महिषात्किल
अहो दैवबलं घोरं दुर्जयं सुरसत्तमाः । कालः कर्तास्ति दुःखानां सुखानां प्रभुरीश्वरः
सृष्टिपालनसंहारे समर्था अपि ते यदा । मुह्यन्ति क्लेशसन्तप्ता महिषेण प्रपीडिताः
इति कृत्वा स्मितं देवी साट्टहासं चकार ह । उच्चैः शब्दं महाघोरं दानवानां भयप्रदम्
चकम्पे वसुधा तत्र श्रुत्वा तच्छब्दमद्भुतम् । चेलुश्च पर्वताः सर्वे चुक्षोभाब्धिश्च वीर्यवान्
मेरुश्चचाल शब्देन दिशः सर्वाः प्रपूरिताः । भयं जग्मुस्तदा श्रुत्वा दानवास्तत्स्वनं महत्
जय पाहीति देवास्तामूचुः परमहर्षिताः । महिषोऽपि स्वनं श्रुत्वा चुकोप मदगर्वितः
किमेतदिति तान्दैत्यान्पप्रच्छ स्वनशङ्कितः । गच्छन्तु त्वरिता दूता ज्ञातुं शब्दसमुद्भवम्
कृतः केनायमत्युग्रः शब्दः कर्णव्यथाकरः । देवो वा दानवो वापि यो भवेत्स्वनकारकः