दन्ताः शिखरिणः श्लक्ष्णाः कुन्दाग्रसदृशाः समाः । सञ्जाताः सुप्रभा राजन् प्राजापत्येन तेजसा
अधरश्चातिरक्तोऽस्याः सञ्जातोऽरुणतेजसा । उत्तरोष्ठस्तथा रम्यः कार्तिकेयस्य तेजसा
अष्टादशभुजाकारा बाहवो विष्णुतेजसा । वसूनां तेजसाङ्गुल्यो रक्तवर्णास्तथाभवन्
सौम्येन तेजसा जातं स्तनयोर्युग्ममुत्तमम् । ऐन्द्रेणास्यास्तथा मध्यं जातं त्रिवलिसंयुतम्
जङ्घोरू वरुणस्याथ तेजसा सम्बभूवतुः । नितम्बः स तु सञ्जातो विपुलस्तेजसा भुवः
एवं नारी शुभाकारा सुरूपा सुस्वरा भृशम् । समुत्पन्ना तथा राजंस्तेजोराशिसमुद्भवा
तां दृष्ट्वा सुष्ठुसर्वाङ्गीं सुदतीं चारुलोचनाम् । मुदं प्रापुः सुराः सर्वे महिषेण प्रपीडिताः
विष्णुस्त्वाह सुरान्सर्वान्भूषणान्यायुधानि च । प्रयच्छन्तु शुभान्यस्यै देवाः सर्वाणि साम्प्रतम्
स्वायुधेभ्यः समुत्पाद्य तेजोयुक्तानि सत्वराः । समर्पयन्तु सर्वेऽद्य देव्यै नानायुधानि वै
महिषमन्त्रिणा देवीवार्तावर्णनम् व्यास उवाच देवा विष्णुवचः श्रुत्वा सर्वे प्रमुदितास्तदा । ददुश्च भूषणान्याशु वस्त्राणि स्वायुधानि च
क्षीरोदश्चाम्बरे दिव्ये रक्ते सूक्ष्मे तथाजरे । निर्मलञ्च तथा हारं प्रीतस्तस्मै सुमण्डितम्
ददौ चूडामणिं दिव्यं सूर्यकोटिसमप्रभम् । कुण्डले च तथा शुभ्रे कटकानि भुजेषु वै
केयूरान्कङ्कणान्दिव्यान्नानारत्नविराजितान् । ददौ तस्यै विश्वकर्मा प्रसन्नेन्द्रियमानसः
नूपुरौ सुस्वरौ कान्तौ निर्मलौ रत्नभूषितौ । ददौ सूर्यप्रतीकाशौ त्वष्टा तस्यै सुपादयोः
तथा ग्रैवेयकं रम्यं ददौ तस्यै महार्णवः । अङ्गुलीयकरत्नानि तेजोवन्ति च सर्वशः
अम्लानपङ्कजां मालां गन्धाढ्यां भ्रमरानुगाम् । तथैव वैजयन्तीञ्च वरुणः सम्प्रयच्छत
हिमवानथ सन्तुष्टो रत्नानि विविधानि च । ददौ च वाहनं सिंहं कनकाभं मनोहरम्
भूषणैर्भूषिता दिव्यैः सा रराज वरा शुभा । सिंहारूढा वरारोहा सर्वलक्षणसंयुता
विष्णुश्चक्रात्समुत्पाद्य ददावस्यै रथाङ्गकम् । सहस्रारं सुदीप्तञ्च देवारिशिरसां हरम्
स्वत्रिशूलात्समुत्पाद्य शङ्करः शूलमुत्तमम् । ददौ देव्यै सुरारीणां कृन्तनं भयनाशनम्
वरुणश्च प्रसन्नात्मा ददौ शङ्खं समुज्वलम् । घोषवन्तं स्वशङ्खात्तु समुत्पाद्य सुमङ्गलम्
हुताशनस्तथा शक्तिं शतघ्नीं सुमनोजवाम् । प्रायच्छत्तु प्रसन्नात्मा तस्यै दैत्यविनाशिनीम्
इषुधिं बाणपूर्णञ्च चापं चाद्भुतदर्शनम् । मारुतो दत्तवांस्तस्यै दुराकर्षं खरस्वरम्
स्ववज्राद्वज्रमुत्पाद्य ददाविन्द्रोऽतिदारुणम् । घण्टामैरावतात्तूर्णं सुशब्दां चातिसुन्दराम्
ददौ दण्डं यमः कामं कालदण्डसमुद्भवम् । येनान्तं सर्वभूतानामकरोत्काल आगते
ब्रह्मा कमण्डलुं दिव्यं गङ्गावारिप्रपूरितम् । ददावस्यै मुदा युक्तो वरुणः पाशमेव च
कालः खड्गं तथा चर्म प्रायच्छत्तु नराधिप । परशुं विश्वकर्मा च तीक्ष्णमस्यै ददावथ
धनदस्तु सुरापूर्णं पानपात्रं सुवर्णजम् । पङ्कजं वरुणश्चादाद्देव्यै दिव्यं मनोहरम्
गदां कौमोदकीं त्वष्टा घण्टाशतनिनादिनीम् । अदात्तस्यै प्रसन्नात्मा सुरशत्रुविनाशिनीम्
अस्त्राण्यनेकरूपाणि तथाभेद्यञ्च दंशनम् । ददौ त्वष्टा जगन्मात्रे निजरश्मीन्दिवाकरः