ततो विष्णुशरीरात्तु तेजोराशिमिवापरम् । नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति
ततश्चेन्द्रशरीरात्तु चित्ररूपं दुरासदम् । आविरासीत्सुसंवृत्तं तेजः सर्वगुणात्मकम्
कुबेरयमवह्नीनां शरीरेभ्यः समन्ततः । निश्चक्राम महत्तेजो वरुणस्य तथैव च
अन्येषां चैव देवानां शरीरेभ्योऽतिभास्वरम् । निर्गतं तन्महातेजोराशिरासीन्महोज्ज्वलः
तं दृष्ट्वा विस्मिताः सर्वे देवा विष्णुपुरोगमाः । तेजोराशिं महादिव्यं हिमाचलमिवापरम्
पश्यतां तत्र देवानां तेजःपुञ्जसमुद्भवा । बभूवातिवरा नारी सुन्दरी विस्मयप्रदा
त्रिगुणा सा महालक्ष्मीः सर्वदेवशरीरजा । अष्टादशभुजा रम्या त्रिवर्णा विश्वमोहिनी
श्वेतानना कृष्णनेत्रा संरक्ताधरपल्लवा । ताम्रपाणितला कान्ता दिव्यभूषणभूषिता
अष्टादशभुजा देवी सहस्रभुजमण्डिता । सम्भूतासुरनाशाय तेजोराशिसमुद्भवा
जनमेजय उवाच कृष्ण देव महाभाग सर्वज्ञ मुनिसत्तम । विस्तरं ब्रूहि तस्यास्त्वं शरीरस्य समुद्भवम्
एकीभूतं च सर्वेषां तेजः किं वा पृथक् स्थितम् । अङ्गानि चैव तस्यास्तु सर्वतेजोमयानि वा
भिन्नभागविभागेन जातान्यङ्गानि यानि तु । मुखनासाक्षिभेदेन सर्वत्रैकभवानि च
ब्रूहि तद्विस्तरं व्यास शरीराङ्गसमुद्भवम् । बभूव यस्य देवस्य तेजसोऽङ्गं यदद्भुतम्
आयुधाभरणादीनि दत्तानि यैर्यथा यथा । तत्सर्वं श्रोतुकामोऽस्मि त्वन्मुखाम्बुजनिर्गतम्
न हि तृप्याम्यहं ब्रह्मन् सुधामयरसं पिबन् । चरितञ्च महालक्ष्यास्त्वन्मुखाम्भोजनिःसृतम्
सूत उवाच इति तस्य वचः श्रुत्वा राज्ञः सत्यवतीसुतः । उवाच मधुरं वाक्यं प्रीणयन्निव भूपतिम्
व्यास उवाच शृणु राजन्महाभाग विस्तरेण ब्रवीमि ते । यथामति कुरुश्रेष्ठ तस्या देहसमुद्भवम्
न ब्रह्मा न हरिः साक्षान्न रुद्रो न च वासवः । याथातथ्येन तद्रूपं वक्तुमीशः कदाचन
कथं जानाम्यहं देव्या यद्रूपं यादृशं यतः । वाचारम्भणमात्रं तदुत्पन्नेति ब्रवीमि यत्
सा नित्या सर्वदैवास्ते देवकार्यार्थसिद्धये । नानारूपा त्वेकरूपा जायते कार्यगौरवात्
यथा नटो रङ्गगतो नानारूपो भवत्यसौ । एकरूपस्वभावोऽपि लोकरञ्जनहेतवे
तथैषा देवकार्यार्थमरूपापि स्वलीलया । करोति बहुरूपाणि निर्गुणा सगुणानि च
कार्यकर्मानुसारेण नामानि प्रभवन्ति हि । धात्वर्थगुणयुक्तानि गौणानि सुबहून्यपि
तद्वै बुद्ध्यनुसारेण प्रब्रवीमि नराधिप । यथा तेजःसमुद्भूतं रूपं तस्या मनोहरम्
शङ्करस्य च यत्तेजस्तेन तन्मुखपङ्कजम् । श्वेतवर्णं शुभाकारमजायत महत्तरम्
केशास्तस्यास्तथा स्निग्धा याम्येन तेजसाभवन् । वक्राग्राश्चातिदीर्घा वै मेघवर्णा मनोहराः
नयनत्रितयं तस्या जज्ञे पावकतेजसा । कृष्णं रक्तं तथा श्वेतं वर्णत्रयविभूषितम्
वक्रे स्निग्धे कृष्णवर्णे सन्ध्ययोस्तेजसा भ्रुवौ । जाते देव्याः सुतेजस्के कामस्य धनुषीव ते
वायोश्च तेजसा शस्तौ श्रवणौ सम्बभूवतुः । नातिदीर्घो नातिह्रस्वौ दोलाविव मनोभुवः
तिलपुष्पसमाकारा नासिका सुमनोहरा । सञ्जाता स्निग्धवर्णा वै धनदस्य च तेजसा