अद्य सर्वसुराणां वै तेजोभी रूपसम्पदा । उत्पन्ना चेद्वरारोहा सा हन्यात्तं रणे बलात्
हयारिं वरदृप्तञ्च मायाशतविशारदम् । हन्तुं योग्या भवेन्नारी शक्त्यंशैर्निर्मिता हि नः
प्रार्थयन्तु च तेजोंऽशान्स्त्रियोऽस्माकं तथा पुनः । उत्पन्नैस्तैश्च तेजोंऽशैस्तेजोराशिर्भवेद्यथा
आयुधानि वयं दद्मः सर्वे रुद्रपुरोगमाः । तस्यै सर्वाणि दिव्यानि त्रिशूलादीनि यानि च
सर्वायुधधरा नारी सर्वतेजःसमन्विता । हनिष्यति दुरात्मानं तं पापं मदगर्वितम्
व्यास उवाच इत्युक्तवति देवेशे ब्रह्मणो वदनात्ततः । स्वयमेवोद्बभौ तेजोराशिश्चातीव दुःसहः
रक्तवर्णं शुभाकारं पद्मरागमणिप्रभम् । किञ्चिच्छीतं तथा चोष्णं मरीचिजालमण्डितम्
निःसृतं हरिणा दृष्टं हरेण च महात्मना । विस्मितौ तौ महाराज बभूवतुरुरुक्रमौ
शङ्करस्य शरीरात्तु निःसृतं महदद्भुतम् । रौप्यवर्णमभूत्तीव्रं दुर्दर्शं दारुणं महत्
भयङ्करञ्च दैत्यानां देवानां विस्मयप्रदम् । घोररूपं गिरिप्रख्यं तमोगुणमिवापरम्
ततो विष्णुशरीरात्तु तेजोराशिमिवापरम् । नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति
ततश्चेन्द्रशरीरात्तु चित्ररूपं दुरासदम् । आविरासीत्सुसंवृत्तं तेजः सर्वगुणात्मकम्
कुबेरयमवह्नीनां शरीरेभ्यः समन्ततः । निश्चक्राम महत्तेजो वरुणस्य तथैव च
अन्येषां चैव देवानां शरीरेभ्योऽतिभास्वरम् । निर्गतं तन्महातेजोराशिरासीन्महोज्ज्वलः
तं दृष्ट्वा विस्मिताः सर्वे देवा विष्णुपुरोगमाः । तेजोराशिं महादिव्यं हिमाचलमिवापरम्
पश्यतां तत्र देवानां तेजःपुञ्जसमुद्भवा । बभूवातिवरा नारी सुन्दरी विस्मयप्रदा
त्रिगुणा सा महालक्ष्मीः सर्वदेवशरीरजा । अष्टादशभुजा रम्या त्रिवर्णा विश्वमोहिनी
श्वेतानना कृष्णनेत्रा संरक्ताधरपल्लवा । ताम्रपाणितला कान्ता दिव्यभूषणभूषिता
अष्टादशभुजा देवी सहस्रभुजमण्डिता । सम्भूतासुरनाशाय तेजोराशिसमुद्भवा
जनमेजय उवाच कृष्ण देव महाभाग सर्वज्ञ मुनिसत्तम । विस्तरं ब्रूहि तस्यास्त्वं शरीरस्य समुद्भवम्
एकीभूतं च सर्वेषां तेजः किं वा पृथक् स्थितम् । अङ्गानि चैव तस्यास्तु सर्वतेजोमयानि वा
भिन्नभागविभागेन जातान्यङ्गानि यानि तु । मुखनासाक्षिभेदेन सर्वत्रैकभवानि च
ब्रूहि तद्विस्तरं व्यास शरीराङ्गसमुद्भवम् । बभूव यस्य देवस्य तेजसोऽङ्गं यदद्भुतम्
आयुधाभरणादीनि दत्तानि यैर्यथा यथा । तत्सर्वं श्रोतुकामोऽस्मि त्वन्मुखाम्बुजनिर्गतम्
न हि तृप्याम्यहं ब्रह्मन् सुधामयरसं पिबन् । चरितञ्च महालक्ष्यास्त्वन्मुखाम्भोजनिःसृतम्
सूत उवाच इति तस्य वचः श्रुत्वा राज्ञः सत्यवतीसुतः । उवाच मधुरं वाक्यं प्रीणयन्निव भूपतिम्
व्यास उवाच शृणु राजन्महाभाग विस्तरेण ब्रवीमि ते । यथामति कुरुश्रेष्ठ तस्या देहसमुद्भवम्
न ब्रह्मा न हरिः साक्षान्न रुद्रो न च वासवः । याथातथ्येन तद्रूपं वक्तुमीशः कदाचन
कथं जानाम्यहं देव्या यद्रूपं यादृशं यतः । वाचारम्भणमात्रं तदुत्पन्नेति ब्रवीमि यत्
सा नित्या सर्वदैवास्ते देवकार्यार्थसिद्धये । नानारूपा त्वेकरूपा जायते कार्यगौरवात्