विष्णुरुवाच विशन्तु निर्जराः सर्वे कुशलं कथयन्तु वः । आसनेषु किमर्थं वै मिलिताः समुपागताः
चिन्तातुराः कथं जाता विषण्णा दीनमानसाः । ब्रह्मरुद्रेण सहिताः कार्यं प्रब्रूत सत्वरम्
देवा ऊचुः महिषेण महाराज पीडिताः पापकर्मणा । असाध्येनातिदुष्टेन वरदृप्तेन पापिना
यज्ञभागानसौ भुंक्ते ब्राह्मणैः प्रतिपादितान् । अमरा गिरिदुर्गेषु भ्रमन्ति च भयातुराः
वरदानेन धातुः स दुर्जयो मधुसूदन । तस्मात्त्वां शरणं प्राप्ता ज्ञात्वा तत्कार्यगौरवम्
समर्थोऽसि समुद्धर्तुं दैत्यमायाविशारद । कुरु कृष्ण वधोपायं तस्य दानवमर्दन
धात्रा तस्मै वरो दत्तो ह्यवध्योऽसि नरैः किल । का स्त्री त्वेवंविधा बाला या हन्यात्तं शठं रणे
उमा मा वा शची विद्या का समर्थास्य घातने । महिषस्यातिदुष्टस्य वरदानबलादपि
विचिन्त्य बुद्ध्या यत्सर्वं मरणस्यास्य कारणम् । कुरु कार्यं च देवानां भक्तवत्सल भूधर
व्यास उवाच श्रुत्वा तद्वचनं विष्णुस्तानुवाच हसन्निव । युद्धं कृतं पुरास्माभिस्तथापि न मृतो ह्यसौ
अद्य सर्वसुराणां वै तेजोभी रूपसम्पदा । उत्पन्ना चेद्वरारोहा सा हन्यात्तं रणे बलात्
हयारिं वरदृप्तञ्च मायाशतविशारदम् । हन्तुं योग्या भवेन्नारी शक्त्यंशैर्निर्मिता हि नः
प्रार्थयन्तु च तेजोंऽशान्स्त्रियोऽस्माकं तथा पुनः । उत्पन्नैस्तैश्च तेजोंऽशैस्तेजोराशिर्भवेद्यथा
आयुधानि वयं दद्मः सर्वे रुद्रपुरोगमाः । तस्यै सर्वाणि दिव्यानि त्रिशूलादीनि यानि च
सर्वायुधधरा नारी सर्वतेजःसमन्विता । हनिष्यति दुरात्मानं तं पापं मदगर्वितम्
व्यास उवाच इत्युक्तवति देवेशे ब्रह्मणो वदनात्ततः । स्वयमेवोद्बभौ तेजोराशिश्चातीव दुःसहः
रक्तवर्णं शुभाकारं पद्मरागमणिप्रभम् । किञ्चिच्छीतं तथा चोष्णं मरीचिजालमण्डितम्
निःसृतं हरिणा दृष्टं हरेण च महात्मना । विस्मितौ तौ महाराज बभूवतुरुरुक्रमौ
शङ्करस्य शरीरात्तु निःसृतं महदद्भुतम् । रौप्यवर्णमभूत्तीव्रं दुर्दर्शं दारुणं महत्
भयङ्करञ्च दैत्यानां देवानां विस्मयप्रदम् । घोररूपं गिरिप्रख्यं तमोगुणमिवापरम्
ततो विष्णुशरीरात्तु तेजोराशिमिवापरम् । नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति
ततश्चेन्द्रशरीरात्तु चित्ररूपं दुरासदम् । आविरासीत्सुसंवृत्तं तेजः सर्वगुणात्मकम्
कुबेरयमवह्नीनां शरीरेभ्यः समन्ततः । निश्चक्राम महत्तेजो वरुणस्य तथैव च
अन्येषां चैव देवानां शरीरेभ्योऽतिभास्वरम् । निर्गतं तन्महातेजोराशिरासीन्महोज्ज्वलः
तं दृष्ट्वा विस्मिताः सर्वे देवा विष्णुपुरोगमाः । तेजोराशिं महादिव्यं हिमाचलमिवापरम्
पश्यतां तत्र देवानां तेजःपुञ्जसमुद्भवा । बभूवातिवरा नारी सुन्दरी विस्मयप्रदा
त्रिगुणा सा महालक्ष्मीः सर्वदेवशरीरजा । अष्टादशभुजा रम्या त्रिवर्णा विश्वमोहिनी
श्वेतानना कृष्णनेत्रा संरक्ताधरपल्लवा । ताम्रपाणितला कान्ता दिव्यभूषणभूषिता
अष्टादशभुजा देवी सहस्रभुजमण्डिता । सम्भूतासुरनाशाय तेजोराशिसमुद्भवा
जनमेजय उवाच कृष्ण देव महाभाग सर्वज्ञ मुनिसत्तम । विस्तरं ब्रूहि तस्यास्त्वं शरीरस्य समुद्भवम्