स्वकीयैर्वाहनैः सर्वे ययुविष्णपुरं प्रति । मुदिताः शकुनान्दृष्ट्वा कार्यसिद्धिकराञ्छुभान्
ववुर्वाताः शुभाः शान्ताः सुगन्धाः शुभशंसिनः । पक्षिणश्च शिवा वाचस्तत्रोचुः पथि सर्वशः
निर्मलं चाभवद्व्योम दिशश्च विमलास्तथा । गमने तत्र देवानां सर्वं शुभमिवाभवत्
देव्याः स्वरूपोद्भववर्णनम् व्यास उवाच तरसा तेऽथ सम्प्राप्य वैकुण्ठं विष्णुवल्लभम् । ददृशुः सर्वशोभाढ्यं दिव्यसद्मविराजितम्
सरोवापीसरिद्भिश्च संयुतं सुखदं शुभम् । हंससारसचक्राह्वैः कूजद्भिश्च विराजितम्
चम्पकाशोककह्लारमन्दारबकुलावृतैः । मल्लिकातिलकाम्रातयुतैः कुरबकादिभिः
कोकिलारावसन्नादैः शिखण्डैर्नृत्यरञ्जितैः । भ्रमरारावरम्यैश्च दिव्यैरुपवनैर्युतम्
सुनन्दनन्दनाद्यैश्च पार्षदैर्भक्तितत्परैः । संस्तुवद्भिर्युतं भक्तैरनन्यभववृत्तिभिः
प्रासादै रत्नखचितैः काञ्चनैश्चित्रमण्डितैः । अभ्रंलिहैर्विराजद्भिः संयुतं शुभसद्मकैः
गायद्भिर्देवगन्धर्वैर्नृत्यद्भिरप्सरोगणैः । रञ्जितं किन्नरैः शश्वद्रक्तकण्ठेर्मनोहरैः
मुनिभिश्च तथा शान्तैर्वेदपाठकृतादरैः । स्तुवद्भिः श्रुतिसूक्तैश्च मण्डितं सदनं हरेः
ते च विष्णुगृहं प्राप्य द्वारपालौ शुभाकृती । वीक्ष्योचुर्जयविजयौ हेमयष्टिधरौ स्थितौ
गत्वैकोऽप्युभयोर्मध्ये निवेदयतु सङ्गतान् । द्वारस्थान् ब्रह्मरुद्रादीन्विष्णुदर्शनलालसान्
व्यास उवाच विजयस्तद्वचः श्रुत्वा गत्वाथ विष्णुसन्निधौ । सर्वान्समागतान्देवान्प्रणम्योवाच सत्वरः
विजय उवाच देवदेव महाराज रमाकान्त सुरारिहन् । समागताः सुराः सर्वे द्वारि तिष्ठन्ति वै विभो
ब्रह्मा रुद्रस्तथेन्द्रश्च वरुणः पावको यमः । स्तुवन्ति वेदवाक्यैस्त्वाममरा दर्शनार्थिनः
व्यास उवाच तच्छ्रुत्वा वचनं विष्णर्विजयस्य रमापतिः । निर्जगाम गृहात्तूर्णं सुरान्समधिकोत्सवः
गत्वा वीक्ष्य हरिर्देवान्द्वारस्थाञ्छ्रमकर्शितान् । प्रीतिप्रवणया दृष्ट्या प्रीणयामास दुःखितान्
प्रणेमुस्ते सुराः सर्वे देवदेवं जनार्दनम् । तुष्टुवुश्च सुरारिघ्नं वाग्भिर्वेदविनिश्चितम्
देवा ऊचुः देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारक । दयासिन्धो महाराज त्राहि नः शरणागतान्
विष्णुरुवाच विशन्तु निर्जराः सर्वे कुशलं कथयन्तु वः । आसनेषु किमर्थं वै मिलिताः समुपागताः
चिन्तातुराः कथं जाता विषण्णा दीनमानसाः । ब्रह्मरुद्रेण सहिताः कार्यं प्रब्रूत सत्वरम्
देवा ऊचुः महिषेण महाराज पीडिताः पापकर्मणा । असाध्येनातिदुष्टेन वरदृप्तेन पापिना
यज्ञभागानसौ भुंक्ते ब्राह्मणैः प्रतिपादितान् । अमरा गिरिदुर्गेषु भ्रमन्ति च भयातुराः
वरदानेन धातुः स दुर्जयो मधुसूदन । तस्मात्त्वां शरणं प्राप्ता ज्ञात्वा तत्कार्यगौरवम्
समर्थोऽसि समुद्धर्तुं दैत्यमायाविशारद । कुरु कृष्ण वधोपायं तस्य दानवमर्दन
धात्रा तस्मै वरो दत्तो ह्यवध्योऽसि नरैः किल । का स्त्री त्वेवंविधा बाला या हन्यात्तं शठं रणे
उमा मा वा शची विद्या का समर्थास्य घातने । महिषस्यातिदुष्टस्य वरदानबलादपि
विचिन्त्य बुद्ध्या यत्सर्वं मरणस्यास्य कारणम् । कुरु कार्यं च देवानां भक्तवत्सल भूधर
व्यास उवाच श्रुत्वा तद्वचनं विष्णुस्तानुवाच हसन्निव । युद्धं कृतं पुरास्माभिस्तथापि न मृतो ह्यसौ