मया ते भवनं शम्भो प्रापिताः कार्यगौरवात् । यद्युक्तं तद्विधत्स्वाद्य सुरकार्यं सुरेश्वर
त्वयि भारोऽस्ति सर्वेषां देवानां भूतभावन । व्यास उवाच इति तद्वचनं श्रुत्वा शङ्करः प्रहसन्निव
वचनं श्लक्ष्णया वाचा प्रोवाच पद्मजं प्रति । शिव उवाच भवतैव कृतं कार्यं वरदानात्पुरा विभो
अनर्थदञ्च देवानां किं कर्तव्यमतः परम् । ईदृशो बलवाञ्छूरः सर्वदेवभयप्रदः
का समर्था वरा नारी तं हन्तुं मददर्पितम् । न मे भार्या न ते भार्या संग्रामं गन्तुमर्हति
गत्वैव ते महाभागे युयुधाते कथं पुनः । इन्द्राणी च महाभागा न युद्धकुशलास्ति हि
कान्या हन्तुं समर्थास्ति तं पापं मददर्पितम् । ममेदं मतमद्यैव गत्वा देवं जनार्दनम्
स्तुत्वा तं देवकार्याय प्रेरयामः सुसत्वरम् । सोऽतिबुद्धिमतां श्रेष्ठो विष्णुः सर्वार्थसाधने
मिलित्वा वासुदेवं वै कर्तव्यं कार्यचिन्तनम् । प्रपञ्चेन च बुद्ध्या स संविधास्यति साधनम्
व्यास उवाच इति रुद्रवचः श्रुत्वा ब्रह्माद्याः सुरसत्तमाः । उत्थितास्ते तथेत्युक्त्वा शिवेन सह सत्वराः
स्वकीयैर्वाहनैः सर्वे ययुविष्णपुरं प्रति । मुदिताः शकुनान्दृष्ट्वा कार्यसिद्धिकराञ्छुभान्
ववुर्वाताः शुभाः शान्ताः सुगन्धाः शुभशंसिनः । पक्षिणश्च शिवा वाचस्तत्रोचुः पथि सर्वशः
निर्मलं चाभवद्व्योम दिशश्च विमलास्तथा । गमने तत्र देवानां सर्वं शुभमिवाभवत्
देव्याः स्वरूपोद्भववर्णनम् व्यास उवाच तरसा तेऽथ सम्प्राप्य वैकुण्ठं विष्णुवल्लभम् । ददृशुः सर्वशोभाढ्यं दिव्यसद्मविराजितम्
सरोवापीसरिद्भिश्च संयुतं सुखदं शुभम् । हंससारसचक्राह्वैः कूजद्भिश्च विराजितम्
चम्पकाशोककह्लारमन्दारबकुलावृतैः । मल्लिकातिलकाम्रातयुतैः कुरबकादिभिः
कोकिलारावसन्नादैः शिखण्डैर्नृत्यरञ्जितैः । भ्रमरारावरम्यैश्च दिव्यैरुपवनैर्युतम्
सुनन्दनन्दनाद्यैश्च पार्षदैर्भक्तितत्परैः । संस्तुवद्भिर्युतं भक्तैरनन्यभववृत्तिभिः
प्रासादै रत्नखचितैः काञ्चनैश्चित्रमण्डितैः । अभ्रंलिहैर्विराजद्भिः संयुतं शुभसद्मकैः
गायद्भिर्देवगन्धर्वैर्नृत्यद्भिरप्सरोगणैः । रञ्जितं किन्नरैः शश्वद्रक्तकण्ठेर्मनोहरैः
मुनिभिश्च तथा शान्तैर्वेदपाठकृतादरैः । स्तुवद्भिः श्रुतिसूक्तैश्च मण्डितं सदनं हरेः
ते च विष्णुगृहं प्राप्य द्वारपालौ शुभाकृती । वीक्ष्योचुर्जयविजयौ हेमयष्टिधरौ स्थितौ
गत्वैकोऽप्युभयोर्मध्ये निवेदयतु सङ्गतान् । द्वारस्थान् ब्रह्मरुद्रादीन्विष्णुदर्शनलालसान्
व्यास उवाच विजयस्तद्वचः श्रुत्वा गत्वाथ विष्णुसन्निधौ । सर्वान्समागतान्देवान्प्रणम्योवाच सत्वरः
विजय उवाच देवदेव महाराज रमाकान्त सुरारिहन् । समागताः सुराः सर्वे द्वारि तिष्ठन्ति वै विभो
ब्रह्मा रुद्रस्तथेन्द्रश्च वरुणः पावको यमः । स्तुवन्ति वेदवाक्यैस्त्वाममरा दर्शनार्थिनः
व्यास उवाच तच्छ्रुत्वा वचनं विष्णर्विजयस्य रमापतिः । निर्जगाम गृहात्तूर्णं सुरान्समधिकोत्सवः
गत्वा वीक्ष्य हरिर्देवान्द्वारस्थाञ्छ्रमकर्शितान् । प्रीतिप्रवणया दृष्ट्या प्रीणयामास दुःखितान्
प्रणेमुस्ते सुराः सर्वे देवदेवं जनार्दनम् । तुष्टुवुश्च सुरारिघ्नं वाग्भिर्वेदविनिश्चितम्
देवा ऊचुः देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारक । दयासिन्धो महाराज त्राहि नः शरणागतान्