ततो देवाः सगन्धर्वा भयमाजग्मुरुद्यताः । मघवा महिषं दृष्ट्वा पलायनपरोऽभवत्
सङ्गरं सम्परित्यज्य गते शक्रे शचीपतौ । यमो धनाधिपः पाशी जग्मुः सर्वे भयातुराः
महिषोऽपि जयं मत्वा जगाम स्वगृहं ततः । ऐरावतं गजं प्राप्य त्यक्तमिन्द्रेण गच्छता
तथोच्चैःश्रवसं भानोः कामधेनुं पयस्विनीम् । स्वसैन्यसंवृतस्तूर्णं स्वर्गं गन्तुं मनो दधे
तरसा देवसदनं गत्वा स महिषासुरः । जग्राह सुरराज्यं वै त्यक्तं देवैर्भयातुरैः
इन्द्रासने तथा रम्ये दानवः समुपाविशत् । दानवान्स्थापयामास देवानां स्थानकेषु सः
एवं वर्षशतं पूर्णं कृत्वा युद्धं सुदारुणम् । अवापैन्द्रपदं कामं दानवो मदगर्वितः
निर्जरा निर्गता नाकात्तेन सर्वेऽतिपीडिताः । एवं बहूनि वर्षाणि बभ्रमुर्गिरिगह्वरे
श्रान्ताः सर्वे तदा राजन् ब्रह्माणं शरणं ययुः । प्रजापतिं जगन्नाथं रजोरूपं चतुर्मुखम्
पद्मासनं वेदगर्भं सेवितं मुनिभिः स्वजैः । मरीचिप्रमुखैः शान्तैर्वेदवेदाङ्गपारगैः
किन्नरैः सिद्धगन्धर्वैश्चारणोरगपन्नगैः । तुष्टुवुर्भयभीतास्ते देवदेवं जगद्गुरुम्
देवा ऊचुः धातः किमेतदखिलार्तिहराम्बुजन्म जन्माभिवीक्ष्य न दयां कुरुषे सुरान् यत् । सम्पीडितान् रणजितानसुराधिपेन स्थानच्युतान् गिरिगुहाकृतसन्निवासान्
पुत्रान्पिता किमपराधशतैः समेता- न्सन्त्यज्य लोभरहितः कुरुतेऽतिदुःस्थान् । यस्त्वं सुरांस्तव पदाम्बुजभक्तियुक्ता- न्दैत्यार्दितांश्च कृपणान् यदुपेक्षसेऽद्य
अमरभुवनराज्यं तेन भुक्तं नितान्तं मखहविरपि योग्यं ब्राह्मणैराददाति । सुरतरुवरपुष्पं सेवतेऽसौ दुरात्मा जलनिधिनिधिभूतां गामसौ सेवते ताम्
किं वा गृणीमः सुरकार्यमद्भुतं जानासि देवेश सुरारिचेष्टितम् । ज्ञानेन सर्वं त्वमशेषकार्यवि- त्तस्मात्प्रभो ते प्रणताः स्म पादयोः
यत्रापि कुत्रापि गतान्सुरानसौ नानाचरित्रः खलु पापमानसः । पीडां करोत्येव स दुष्टचेष्टित- स्त्रातासि देवेश विधेहि शं विभो
नो चेद्वयं दावमहाग्निपीडिताः कं शान्तिकर्तारमनन्ततेजसम् । यामः प्रजेशं शरणं सुरेष्टं धातारमाद्यं परिमुच्य कं शिवम्
व्यास उवाच इति स्तुत्वा सुराः सर्वे प्रणेमुस्तं प्रजापतिम् । बद्धाञ्जलिपुटाः सर्वे विषण्णवदना भृशम्
तांस्तथा पीडितान्दृष्ट्वा तदा लोकपितामहः । उवाच श्लक्ष्णया वाचा सुखं सञ्जनयन्निव
ब्रह्मोवाच किं करोमि सुराः कामं दानवो वरदर्पितः । स्त्रीवध्योऽसौ न पुंवध्यो विधेयं तत्र किं पुनः
व्रजामोऽद्य सुराः सर्वे कैलासं पर्वतोत्तमम् । शङ्करं पुरतः कृत्वा सर्वकार्यविशारदम्
ततो व्रजाम वैकुण्ठं यत्र देवो जनार्दनः । मिलित्वा देवकार्यञ्च विमृशामो विशेषतः
इत्युक्त्वा हंसमारुह्य ब्रह्मा कार्यसमुच्चये । देवांश्च पृष्ठतः कृत्वा कैलासाभिमुखो ययौ
तावच्छिवोऽपि तरसा ज्ञात्वा ध्यानेन पद्मजम् । आगच्छन्तं सुरैः सार्धं निर्गतः स्वगृहाद्बहिः
दृष्ट्वा परस्परं तौ तु कृताभिवादनौ भृशम् । प्रणतौ च सुरैः सर्वैः सन्तुष्टौ सम्बभूवतुः
आसनानि पृथग्दत्त्वा देवेभ्यो गिरिजापतिः । उपविष्टेषु तेष्वेव निषसादासने स्वके
कृत्वा तु कुशलप्रश्नं ब्रह्माणं वृषभध्वजः । पप्रच्छ कारणं देवान्कैलासागमने विभुः
शिव उवाच किमत्रागमनं ब्रह्मन् कृतं देवैः सवासवैः । भवता च महाभाग ब्रूहि तत्कारणं किल
ब्रह्मोवाच महिषेण सुरेशान पीडिताः स्वर्निवासिनः । भ्रमन्ति गिरिदुर्गेषु भयत्रस्ताः सवासवाः
यज्ञभुग्महिषो जातस्तथान्ये सुरशत्रवः । पीडिता लोकपालाश्च त्वामद्य शरणं गताः