अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः
सशीर्षं वासुदेवं तं करोम्यद्य यथा पुरा । शिरोऽस्य शापयोगेन निमग्नं लवणाम्बुधौ
अन्यच्च कारणं किञ्चिद्वर्तते सुरसत्तमाः । भवतां च महत्कार्यं भविष्यति न संशयः
पुरा दैत्यो महाबाहुर्हयग्रीवोऽतिविश्रुतः । तपश्चक्रे सरस्वत्यास्तीरे परमदारुणम्
जपन्नेकाक्षरं मन्त्रं मायाबीजात्मकं मम । निराहारो जितात्मा च सर्वभोगविवर्जितः
ध्यायन्मां तामसीं शक्तिं सर्वभूषणभूषिताम् । एवं वर्षसहस्रं च तपश्चक्रेऽतिदारुणम्
तदाहं तामसं रूपं कृत्वा तत्र समागता । दर्शने पुरतस्तस्य ध्यातं तत्तेन यादृशम्
सिंहोपरि स्थिता तत्र तमवोचं दयान्विता । वरं ब्रूहि महाभाग ददामि तव सुव्रत
इति श्रुत्वा वचो देव्या दानवः प्रेमपूरितः । प्रदक्षिणां प्रणामं च चकार त्वरितस्तदा
दृष्ट्वा रूपं मदीयं स प्रेमोस्फुल्लविलोचनः । हर्षाश्रुपूर्णनयनस्तुष्टाव स च मां तदा
हयग्रीव उवाच नमो देव्यै महामाये सृष्टिस्थित्यन्तकारिणि । भक्तानुग्रहचतुरे कामदे मोक्षदे शिवे
धराम्बुतेजःपवनखपञ्चानां च कारणम् । त्वं गन्धरसरूपाणां कारणं स्पर्शशब्दयोः
घ्राणं च रसना चक्षुस्त्वक्श्रोत्रमिन्द्रियाणि च । कर्मेन्द्रियाणि चान्यानि त्वत्तः सर्वं महेश्वरि
देव्युवाच किं तेऽभीष्टं वरं ब्रूहि वाञ्छितं यद्ददामि तत् । परितुष्टास्मि भक्त्या ते तपसा चाद्भुतेन च
हयग्रीव उवाच यथा मे मरणं मातर्न भवेत्तत्तथा कुरु । भवेयममरो योगी तथाजेयः सुरासुरैः
देव्युवाच जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च । मर्यादा चेदृशी लोके भवेच्च कथमन्यथा
एवं त्वं निश्चयं कृत्वा मरणे राक्षसोत्तम । वरं वरय चेष्टं ते विचार्य मनसा किल
हयग्रीव उवाच हयग्रीवाच्च मे मृत्युर्नान्यस्माज्जगदम्बिके । इति मे वाञ्छितं कामं पूरयस्व मनोगतम्
देव्युवाच गृहं गच्छ महाभाग कुरु राज्यं यथासुखम् । हयग्रीवादृते मृत्युर्न ते नूनं भविष्यति
इति दत्त्वा वरं तस्मा अन्तर्धानं गता तथा । मुदं परमिकां प्राप्य सोऽपि स्वभवनं गतः
स पीडयति दुष्टात्मा मुनीन् वेदांश्च सर्वशः । न कोऽपि विद्यते तस्य हन्ताद्य भुवनत्रये
तस्माच्छीर्षं हयस्यास्य समुद्धृत्य मनोहरम् । देहेऽत्र विशिरोविष्णोस्त्वष्टा संयोजयिष्यति
हयग्रीवोऽथ भगवान्हनिष्यति तमासुरम् । पापिष्ठं दानवं क्रूरं देवानां हितकाम्यया
सूत उवाच एवं सुरांस्तदाभाष्य शर्वाणी विरराम ह । देवास्तदातिसन्तुष्टास्तमूचुर्देवशिल्पिनम्
देवा ऊचुः कुरु कार्यं सुराणां वै विष्णोः शीर्षाभियोजनम् । दानवप्रवरं दैत्यं हयग्रीवो हनिष्यति
सूत उवाच इति श्रुत्वा वचस्तेषां त्वष्टा चातित्वरान्वितः । वाजिशीर्षं चकर्ताशु खड्गेन सुरसन्निधौ
विष्णोः शरीरे तेनाशु योजितं वाजिमस्तकम् । हयग्रीवो हरिर्जातो महामायाप्रसादतः
कियता तेन कालेन दानवो मददर्पितः । निहतस्तरसा संख्ये देवानां रिपुरोजसा
य इदं शुभमाख्यानं शृण्वन्ति भुवि मानवाः । सर्वदुःखविनिर्मुक्तास्ते भवन्ति न संशयः
महामायाचरित्रञ्च पवित्रं पापनाशनम् । पठतां शृण्वतां चैव सर्वसम्पत्तिकारकम्