महिषं तरसाभ्येत्य प्राहरद्रोषसंयुतः । सोऽपि शक्तिं मुमोचाथ शङ्करस्योरसि स्फुटम्
जगर्ज स च दुष्टात्मा वञ्चयित्वा त्रिशूलकम् । शङ्करोऽपि तदा पीडां न प्रापोरसि ताडितः
तं जघान त्रिशूलेन कोपादरुणलोचनः । संलग्नं शङ्करं दृष्ट्वा महिषेण दुरात्मना
आजगाम हरिस्तावत्त्यक्त्वा मूर्च्छां प्रहारजाम् । महिषस्तु तदा वीक्ष्य सम्प्राप्तौ हरिशङ्करौ
युद्धकामौ महावीर्यो चक्रशूलधरौ वरौ । कोपयुक्तो बभूवासौ दृष्ट्वा तौ समुपागतौ
जगाम सम्मुखस्तावत्संग्रामार्थं महाभुजः । माहिषं वपुरास्थाय धुन्वन्पुच्छं समुत्कटम्
चकार भैरवं नादं त्रासयन्नमरानपि । धुन्वञ्छृङ्गे महाकायो दारुणो जलदो यथा
शृङ्गाभ्यां पर्वताज्छृङ्गांश्चिक्षेप भृशमुत्कटान् । दृष्ट्वा तौ तु महावीर्यौ दानवं देवसत्तमौ
चक्रतुर्बाणवृष्टिं च दानवोपरि दारुणाम् । कुर्वाणौ बाणवृष्टिं तौ दृष्ट्वा हरिहरौ हरिः
चिक्षेप गिरिशृङ्गं तु पुच्छेनावृत्य दारुणम् । आपतन्तं गिरिं वीक्ष्य भगवान्सात्वतां पतिः
विशिखैः शतधा चक्रे चक्रेणाशु जघान तम् । हरिचक्राहतः संख्ये मूर्च्छामाप स दैत्यराट्
उत्तस्थौ च क्षणान्नूनं मानुषं वपुरास्थितः । गदापाणिर्महाघोरो दानवः पर्वतोपमः
मेघनादं ननादोच्चैर्भीषयन्नमरानपि । तच्छ्रुत्वा भगवान्विष्णुः पाञ्चजन्यं समुज्ज्वलम्
पूरयामास तरसा शब्दं कर्तुं खरस्वरम् । तेन शब्देन शङ्खस्य भयत्रस्ताश्च दानवाः । बभूवुर्मुदिता देवा ऋषयश्च तपोधनाः
शङ्करशरणगमनवर्णनम् व्यास उवाच असुरान्महिषो दृष्ट्वा विषण्णमनसस्तदा । त्यक्त्वा तन्माहिषं रूपं बभूव मृगराडसौ
कृत्वा नादं महाघोरं विस्तार्य च महासटाम् । पपात सुरसेनायां त्रासयन्नखदर्शनैः
गरुडञ्च नखाघातैः कृत्वा रुधिरविप्लुतम् । जघान च भुजे विष्णुं नखाघातेन केसरी
वासुदेवोऽपि तं दृष्ट्वा चक्रमुद्यम्य वेगवान् । हन्तुकामो हरिः काममवापाशु क्रुधान्वितः
यावद्धयरिपुं वेगाच्चक्रेणाभिजघान तम् । तावत्सोऽतिबलः शृङ्गी शृङ्गाभ्यां न्यहनद्धरिम्
वासुदेवो विषाणाभ्यां ताडितोरसि विह्वलः । पलायनपरो वेगाज्जगाम भुवनं निजम्
गतं दृष्ट्वा हरिं कामं शङ्करोऽपि भयान्वितः । अवध्यं तं परं मत्वा ययौ कैलासपर्वतम्
ब्रह्मापि च निजं धाम त्वरितः प्रययौ भयात् । मघवा वज्रमालम्ब्य तस्थावाजौ महाबलः
वरुणः शक्तिमालम्ब्य धैर्यमालम्ब्य संस्थितः । यमोऽपि दण्डमादाय यत्तः समरतत्परः
ततो यक्षाधिपः कामं बभूव रणतत्परः । पावकः शक्तिमादाय तत्राभूद्युद्धमानसः
नक्षत्राधिपतिः सूर्यः समवेतौ स्थितावुभौ । वीक्ष्य तं दानवश्रेष्ठं युद्धाय कृतनिश्चयौ
एतस्मिन्नन्तरे क्रुद्धं दैत्यसैन्यं समभ्यगात् । विसृजन्बाणजालानि क्रूराहिसदृशानि च
कृत्वा हि माहिषं रूपं भूपतिः संस्थितस्तदा । देवदानवयोधानां निनादस्तुमुलोऽभवत्
ज्याघातश्च तलाघातो मेघनादसमोऽभवत् । संग्रामे सुमहाघोरे देवदानवसेनयोः
शृङ्गाभ्यां पार्वताञ्छृङ्गांश्चिक्षेप च महाबलः । जघान सुरसङ्घांश्च दानवो मदगर्वितः
खुराघातैस्तथा देवान्पुच्छस्य भ्रमणेन च । स जघान रुषाविष्टो महिषः परमाद्भुतः