महेशान्धकयोर्युद्धं तुमुलं लोमहर्षणम् । पञ्चाशद्दिनपर्यन्तं बभूव च परस्परम्
इन्द्रबाष्कलयोस्तद्वन्महिषासुररुद्रयोः । यमत्रिनेत्रयोस्तद्वन्महाहनुधनेशयोः
असिलोमवरुणयोर्युद्धं परमदारुणम् । गरुडं गदया दैत्यो जघान हरिवाहनम्
स गदापातखिन्नाङ्गो निःश्वसन्नवतिष्ठत । शौरिस्तं दक्षिणेनाशु हस्तेन परिसान्त्वयन्
स्थिरं चकार देवेशो वैनतेयं महाबलम् । समाकृष्य धनुः शार्ङ्गं मुमोच विशिखान्बहून्
अन्धकोपरि कोपेन हन्तुकामो जनार्दनः । दानवोऽपि च तान्वाणांश्चिच्छेद स्वशरैः शितैः
पञ्चाशद्भिर्हरिं कोपाज्जघान च शिलाशितैः । वासुदेवोऽपि तांस्तूर्णं वञ्चयित्वा शरोत्तमान्
चक्रं मुमोच वेगेन सहस्रारं सुदर्शनम् । त्यक्तं सुदर्शनं दूरात्स्वचक्रेण न्यवारयत्
ननाद च महाराज देवान्सम्मोहयन्निव । दृष्ट्वा तु विफलं जातं चक्रं देवस्य शार्ङ्गिणः
जग्मुः शोकं सुराः सर्वे जहर्षुर्दानवास्तथा । वासुदेवोऽपि तरसा दृष्ट्वा देवाञ्छुचावृतान्
गदां कौमोदकीं धृत्वा दानवं समुपाद्रवत् । तं जघानातिवेगेन मूर्ध्नि मायाविनं हरिः
स गदाभिहतो भूमौ निपपातातिमूर्च्छितः । तं तथा पतितं वीक्ष्य हयारिरतिकोपनः
आजगाम रमानाथं त्रासयन्नतिगर्जितैः । वासुदेवोऽपि तं दृष्ट्वा समायान्तं क्रुधान्वितम्
चापज्यानिनदं चोग्रं चकार नन्दयन्सुरान् । शरवृष्टिं चकाराशु भगवान्महिषोपरि
सोऽपि चिच्छेद बाणौघैस्ताञ्छरान्गगनेरितान् । तयोर्युद्धमभूद्राजन् परस्परभयावहम्
गदया ताडयामास केशवो मस्तकोपरि । स गदाभिहतो मूर्ध्नि पपातोर्व्यां सुमूर्च्छितः
हाहाकारो महानासीत्सैन्ये तस्य सुदारुणः । स विहाय व्यथां दैत्यो मुहूर्तादुत्थितः पुनः
गृहीत्वा परिघं शीर्षे जघान मधुसूदनम् । परिघेणाहतस्तेन मूर्च्छामाप जनार्दनः
मूर्च्छितं तमुवाहाशु जगाम गरुडो रणात् । परावृत्ते जगन्नाथे देवा इन्द्रपुरोगमाः
भयं प्रापुः सुदुःखार्ताश्चुक्रुशुश्च रणाजिरे । क्रन्दमानान्सुरान्वीक्ष्य शङ्करः शूलभृत्तदा
महिषं तरसाभ्येत्य प्राहरद्रोषसंयुतः । सोऽपि शक्तिं मुमोचाथ शङ्करस्योरसि स्फुटम्
जगर्ज स च दुष्टात्मा वञ्चयित्वा त्रिशूलकम् । शङ्करोऽपि तदा पीडां न प्रापोरसि ताडितः
तं जघान त्रिशूलेन कोपादरुणलोचनः । संलग्नं शङ्करं दृष्ट्वा महिषेण दुरात्मना
आजगाम हरिस्तावत्त्यक्त्वा मूर्च्छां प्रहारजाम् । महिषस्तु तदा वीक्ष्य सम्प्राप्तौ हरिशङ्करौ
युद्धकामौ महावीर्यो चक्रशूलधरौ वरौ । कोपयुक्तो बभूवासौ दृष्ट्वा तौ समुपागतौ
जगाम सम्मुखस्तावत्संग्रामार्थं महाभुजः । माहिषं वपुरास्थाय धुन्वन्पुच्छं समुत्कटम्
चकार भैरवं नादं त्रासयन्नमरानपि । धुन्वञ्छृङ्गे महाकायो दारुणो जलदो यथा
शृङ्गाभ्यां पर्वताज्छृङ्गांश्चिक्षेप भृशमुत्कटान् । दृष्ट्वा तौ तु महावीर्यौ दानवं देवसत्तमौ
चक्रतुर्बाणवृष्टिं च दानवोपरि दारुणाम् । कुर्वाणौ बाणवृष्टिं तौ दृष्ट्वा हरिहरौ हरिः
चिक्षेप गिरिशृङ्गं तु पुच्छेनावृत्य दारुणम् । आपतन्तं गिरिं वीक्ष्य भगवान्सात्वतां पतिः