तिष्ठन्त्वद्य सुराः सर्वे हन्म्यहं गदया किल । सर्वे बलिभुजः कामं बलहीनाः सदैव हि
इत्युक्त्वासौ गजारूढं सम्प्राप्य मदगर्वितः । जघान गदया तूर्णं बाहुमूले महाभुजः
सोऽपि वज्रेण घोरेण चिच्छेदाशु गदाञ्च ताम् । प्रहर्तुकामस्त्वरितो जगाम महिषं प्रति
हयारिरपि कोपेन खड्गमादाय सुप्रभम् । ययाविन्द्रं महावीर्यं प्रहरिष्यन्निवान्तिकम्
बभूव च तयोर्युद्धं सर्वलोकभयावहम् । आयुधैर्विविधैस्तत्र मुनिविस्मयकारकम्
चकाराशु तदा दैत्यो मायां मोहकरीं किल । शाम्बरीं सर्वलोकघ्नीं मुनीनामपि मोहिनीम्
कोटिशो महिषास्तत्र तद्रूपास्तत्पराक्रमाः । ददृशुः सायुधाः सर्वे निघ्नन्तो देववाहिनीम्
मघवा विस्मितस्तत्र दृष्ट्वा तां दैत्यनिर्मिताम् । बभूवातिभयोद्विग्नो मायां मोहकरीं किल
वरुणोऽपि सुसन्त्रस्तस्तथैव धननायकः । यमो हुताशनः सूर्यः शीतरश्मिर्भयातुरः
पलायनपरा सर्वे बभूवुर्मोहिताः सुराः । ब्रह्मविष्णमहेशानां स्मरणं चक्रुरुद्यताः
तत्राजग्मुश्च काजेशाः स्मृतमात्राः सुरोत्तमाः । हंसतार्क्ष्यवृषारूढास्त्रातुकामा वरायुधाः
शौरिस्तां मोहिनीं दृष्ट्वा सुदर्शनमथोज्ज्वलम् । मुमोच तत्तेजसैव माया सा विलयं गता
वीक्ष्य तान्महिषस्तत्र सृष्टिस्थित्यन्तकारिणः । योद्धुकामः समादाय परिघं समुपाद्रवत्
महिषाख्यो महावीरः सेनानीश्चिक्षुरस्तथा । उग्रास्यश्चोग्रवीर्यश्च दुद्रुवुर्युद्धकामुकाः
असिलोमात्रिनेत्रश्च बाष्कलोऽन्धक एव च । एते चान्ये च बहवो युद्धकामा विनिर्ययुः
सन्नद्धा धृतचापास्ते रथारूढा मदोद्धताः । परिवव्रुः सुरान्सर्वान्वृका इव सुवत्सकान्
बाणवृष्टिं ततश्चक्रुर्दानवा मदगर्विताः । सुराश्चापि तथा चक्रुः परस्परजिघांसवः
अन्धको हरिमासाद्य पञ्चबाणाञ्छिलाशितान् । मुमोच विषसन्दिग्धान्कर्णाकृष्टान्महाबलान्
वासुदेवोऽप्यसंप्राप्तान्विशिखानाशुगैस्तदा । चिच्छेद तान्पुनः पञ्च मुमोच रिपुनाशनः
तयोः परस्परं युद्धं बभूव हरिदैत्ययोः । बाणासिचक्रमुसलैर्गदाशक्तिपरश्वधैः
महेशान्धकयोर्युद्धं तुमुलं लोमहर्षणम् । पञ्चाशद्दिनपर्यन्तं बभूव च परस्परम्
इन्द्रबाष्कलयोस्तद्वन्महिषासुररुद्रयोः । यमत्रिनेत्रयोस्तद्वन्महाहनुधनेशयोः
असिलोमवरुणयोर्युद्धं परमदारुणम् । गरुडं गदया दैत्यो जघान हरिवाहनम्
स गदापातखिन्नाङ्गो निःश्वसन्नवतिष्ठत । शौरिस्तं दक्षिणेनाशु हस्तेन परिसान्त्वयन्
स्थिरं चकार देवेशो वैनतेयं महाबलम् । समाकृष्य धनुः शार्ङ्गं मुमोच विशिखान्बहून्
अन्धकोपरि कोपेन हन्तुकामो जनार्दनः । दानवोऽपि च तान्वाणांश्चिच्छेद स्वशरैः शितैः
पञ्चाशद्भिर्हरिं कोपाज्जघान च शिलाशितैः । वासुदेवोऽपि तांस्तूर्णं वञ्चयित्वा शरोत्तमान्
चक्रं मुमोच वेगेन सहस्रारं सुदर्शनम् । त्यक्तं सुदर्शनं दूरात्स्वचक्रेण न्यवारयत्
ननाद च महाराज देवान्सम्मोहयन्निव । दृष्ट्वा तु विफलं जातं चक्रं देवस्य शार्ङ्गिणः
जग्मुः शोकं सुराः सर्वे जहर्षुर्दानवास्तथा । वासुदेवोऽपि तरसा दृष्ट्वा देवाञ्छुचावृतान्