तथेन्द्रोऽपि च तान्बाणांश्छित्त्वा कोपसमन्वितः । जघान विशिखैस्तीक्ष्णैराशीविषसमप्रभैः
स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः । गदया ताडयामास गजं तस्य करोपरि
स्वकरे निहतो नागश्चकारार्तस्वरं मुहुः । परिवृत्य जघानाशु दैत्यसैन्यं भयातुरम्
दानवस्तु गजं वीक्ष्य परावृत्य गतं रणात् । समाविश्य रथे रम्ये जगामाशु सुरान् रणे
तुराषाडपि तं वीक्ष्य रथस्थं पुनरागतम् । अहनद्विशिखैस्तीक्ष्णैराशीविषसमप्रभैः
सोऽपि क्रुद्धश्चकारोग्रां बाणवृष्टिं महाबलः । बभूव तुमुलं युद्धं तयोस्तत्र जयैषिणोः
इन्द्रस्तु बलिनं दृष्ट्वा कोपेनाकुलितेन्द्रियः । जयन्तमग्रतः कृत्वा युयुधे तेन संयुतः
जयन्तस्तु शितैर्बाणैस्तं जघान स्तनान्तरे । पञ्चभिः प्रबलाकृष्टैरसुरं मदगर्वितम्
स बाणाभिहतस्तावन्निपपात रथोपरि । अतिवाह्य रथं सूतो निर्जगाम रणाजिरात्
तस्मिन्विनिर्गते दैत्ये बिडालाख्येऽथ मूर्च्छिते । जयशब्दो महानासीदुन्दुभीनां च निःस्वनः
सुराः प्रमुदिताः सर्वे तुष्टुवुस्तं शचीपतिम् । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः
चुकोप महिषः श्रुत्वा जयशब्दं सुरैः कृतम् । प्रेषयामास तत्रैव ताम्रं परमदापहम्
ताम्रस्तु बहुभिः सार्धं समागम्य रणाजिरे । शरवृष्टिं चकाराशु तडित्वानिव सागरे
वरुणः पाशमुद्यम्य जगाम त्वरितस्तदा । यमश्च महिषारूढो दण्डमादाय निर्ययौ
तत्र युद्धमभूद् घोरं देवदानवयोर्मिथः । बाणैः खड्गैश्च मुसलैः शक्तिभिश्च परश्वधैः
दण्डेन निहतस्ताम्रो यमहस्तोद्यतेन च । न चचाल महाबाहुः संग्रामाङ्गणतस्तदा
चापमाकृष्य वेगेन मुक्त्वा तीव्राञ्छिलीमुखान्। इन्द्रादीनहनत्तूर्णं ताम्रस्तस्मिन् रणाजिरे
तेऽपि देवाः शरैर्दिव्यैर्निशितैश्च शिलाशितैः । निजघ्नुर्दानवान्क्रुद्धास्तिष्ठ तिष्ठेति चुकुशुः
निहतस्तैः सुरैर्दैत्यो मूर्च्छामाप रणाङ्गणे । हाहाकारो महानासीद्दैत्यसैन्ये भयातुरे
महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् व्यास उवाच ताम्रेऽथ मूर्च्छिते दैत्ये महिषः क्रोधसंयुतः । समुद्यम्य गदां गुर्वीं देवानुपजगाम ह
तिष्ठन्त्वद्य सुराः सर्वे हन्म्यहं गदया किल । सर्वे बलिभुजः कामं बलहीनाः सदैव हि
इत्युक्त्वासौ गजारूढं सम्प्राप्य मदगर्वितः । जघान गदया तूर्णं बाहुमूले महाभुजः
सोऽपि वज्रेण घोरेण चिच्छेदाशु गदाञ्च ताम् । प्रहर्तुकामस्त्वरितो जगाम महिषं प्रति
हयारिरपि कोपेन खड्गमादाय सुप्रभम् । ययाविन्द्रं महावीर्यं प्रहरिष्यन्निवान्तिकम्
बभूव च तयोर्युद्धं सर्वलोकभयावहम् । आयुधैर्विविधैस्तत्र मुनिविस्मयकारकम्
चकाराशु तदा दैत्यो मायां मोहकरीं किल । शाम्बरीं सर्वलोकघ्नीं मुनीनामपि मोहिनीम्
कोटिशो महिषास्तत्र तद्रूपास्तत्पराक्रमाः । ददृशुः सायुधाः सर्वे निघ्नन्तो देववाहिनीम्
मघवा विस्मितस्तत्र दृष्ट्वा तां दैत्यनिर्मिताम् । बभूवातिभयोद्विग्नो मायां मोहकरीं किल
वरुणोऽपि सुसन्त्रस्तस्तथैव धननायकः । यमो हुताशनः सूर्यः शीतरश्मिर्भयातुरः
पलायनपरा सर्वे बभूवुर्मोहिताः सुराः । ब्रह्मविष्णमहेशानां स्मरणं चक्रुरुद्यताः