ततो युद्धं प्रकर्तव्यं सर्वैः सुरगणैः सह । मिलित्वा मन्त्रमाधाय देशं कालं विचिन्त्य च
बलाबलमविज्ञाय विवेकमपहाय च । साहसं तु प्रकुर्वाणो नरः पतनमृच्छति
व्यास उवाच तन्निशम्य सहस्राक्षः कैलासं निर्जगाम ह । ब्रह्माणं पुरतः कृत्वा लोकपालसमन्वितः
तुष्टाव शङ्करं गत्वा वेदमन्त्रैर्महेश्वरम् । प्रसन्नं पुरतः कृत्वा ययौ विष्णुपुरं प्रति
स्तुत्वा तं देवदेवेशं कार्यं प्रोवाच चात्मनः । महिषात्तद्भयं चोग्रं वरदानमदोद्धतात्
तदाकर्ण्य भयं तस्य विष्णुर्देवानुवाच ह । करिष्यामो वयं युद्धं हनिष्यामस्तु दुर्जयम्
व्यास उवाच इति ते निश्चयं कृत्वा ब्रह्मविष्णुहरीश्वराः । स्वानि स्वानि समारुह्य वाहनानि ययुः सुराः
ब्रह्मा हंससमारूढो विष्णर्गरुडवाहनः । शङ्करो वृषभारूढो वृत्रहा गजसंस्थितः
मयूरवाहनः स्कन्दो यमो महिषवाहनः । कृत्वा सैन्यसमायोगं यावत्ते निर्ययुः सुराः
तावद्दैत्यबलं प्राप्तं दृप्तं महिषपालितम् । तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः
बाणैः खड्गैस्तथा प्रासैर्मुसलैश्च परश्वधैः । गदाभिः पट्टिशैः शूलैश्चक्रैश्च शक्तितोमरैः
मुद्गरैर्भिन्दिपालैश्च हलैश्चैवातिदारुणैः । अन्यैश्च विविधैरस्त्रैर्निजघ्नुस्ते परस्परम्
सेनानीश्चिक्षुरस्तस्य गजारूढो महाबलः । मघवन्तं पञ्चभिस्तैः सायकैः समताडयत्
तुराषाडपि तांश्छित्त्वा बाणैर्बाणांस्त्वरान्वितः । हृदये चार्धचन्द्रेण ताडयामास तं कृती
बाणाहतस्तु सेनानीः प्राप मूर्च्छां गजोपरि । करिणं वज्रघातेन स जघान करे ततः
तद्वज्राभिहतो नागो भग्नः सैन्यं जगाम ह । दृष्ट्वा तं दैत्यराट् कुद्धो बिडालाख्यमथाब्रवीत्
गच्छ वीर महाबाहो जहीन्द्रं मदगर्वितम् । वरुणादीन्परान्देवान्हत्वाऽऽगच्छ ममान्तिकम्
व्यास उवाच तच्छ्रुत्वा वचनं तस्य बिडालाख्यो महाबलः । आरुह्य वारणं मत्तं जगाम त्रिदशाधिपम्
वासवस्तं समायान्तं दृष्ट्वा क्रोधसमन्वितः । जघान विशिखैस्तीक्षौराशीविषसमप्रभैः
स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः । पञ्चाशद्भिर्जघानाशु वासवञ्च शिलीमुखैः
तथेन्द्रोऽपि च तान्बाणांश्छित्त्वा कोपसमन्वितः । जघान विशिखैस्तीक्ष्णैराशीविषसमप्रभैः
स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः । गदया ताडयामास गजं तस्य करोपरि
स्वकरे निहतो नागश्चकारार्तस्वरं मुहुः । परिवृत्य जघानाशु दैत्यसैन्यं भयातुरम्
दानवस्तु गजं वीक्ष्य परावृत्य गतं रणात् । समाविश्य रथे रम्ये जगामाशु सुरान् रणे
तुराषाडपि तं वीक्ष्य रथस्थं पुनरागतम् । अहनद्विशिखैस्तीक्ष्णैराशीविषसमप्रभैः
सोऽपि क्रुद्धश्चकारोग्रां बाणवृष्टिं महाबलः । बभूव तुमुलं युद्धं तयोस्तत्र जयैषिणोः
इन्द्रस्तु बलिनं दृष्ट्वा कोपेनाकुलितेन्द्रियः । जयन्तमग्रतः कृत्वा युयुधे तेन संयुतः
जयन्तस्तु शितैर्बाणैस्तं जघान स्तनान्तरे । पञ्चभिः प्रबलाकृष्टैरसुरं मदगर्वितम्
स बाणाभिहतस्तावन्निपपात रथोपरि । अतिवाह्य रथं सूतो निर्जगाम रणाजिरात्
तस्मिन्विनिर्गते दैत्ये बिडालाख्येऽथ मूर्च्छिते । जयशब्दो महानासीदुन्दुभीनां च निःस्वनः