अधैर्याद्यादृशं दुःखं न तु धैर्येऽस्ति तादृशम् । दुर्लभं सहनत्वं वै समये सुखदुःखयोः
हर्षशोकोद्भवो यत्र न भवेद् बुद्धिनिश्चयात् । किं दुःखं कस्य वा दुःखं निर्गुणोऽहं सदाव्ययः
चतुर्विंशातिरिक्तोऽस्मि किं मे दुःखं सुखं च किम् । प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूर्छने
जरामृत्यू शरीरस्य षडूर्मिरहितः शिवः । शोकमोहौ शरीरस्य गणौ किं मेऽत्र चिन्तने
शरीरं नाहमथवा तत्सम्बन्धी न चाप्यहम् । सप्तैकषोडशादिभ्यो विभिन्नोऽहं सदा सुखी
प्रकृतिर्विकृतिर्नाहं किं मे दुःखं सदा पुनः । इति मत्वा सुरेश त्वं मनसा भव निर्ममः
उपायः प्रथमोऽयं ते दुःखनाशे शतक्रतो । ममता परमं दुःखं निर्ममत्वं परं सुखम्
सन्तोषादपरं नास्ति सुखस्थानं शचीपते । अथवा यदि न ज्ञानं ममत्वनाशने किल
ततो विवेकः कर्तव्यो भवितव्ये सुराधिप । प्रारब्धकर्मणां नाशो नाभोगाल्लक्ष्यते किल
यद्भावि तद्भवत्येव का चिन्ता सुखदुःखयोः । सुरैः सर्वैः सहायैर्वा बुद्ध्या वा तव सत्तम
सुखं क्षयाय पुण्यस्य दुःखं पापस्य मारिष । तस्मात्सुखक्षये हर्षः कर्तव्यः सर्वथा बुधैः
अथवा मन्त्रयित्वाद्य कुरु यत्नं यथाविधि । कृते यत्ने महाराज भवितव्यं भविष्यति
दैत्यसैन्यपराजयः व्यास उवाच इति श्रुत्वा सहस्राक्षः पुनराह बृहस्पतिम् । युद्धोद्योगं करिष्यामि हयारेर्नाशनाय वै
नोद्यमेन विना राज्यं न सुखं न च वै यशः । निरुद्यमं न शंसन्ति कातरा न च सोद्यमाः
यतीनां भूषणं ज्ञानं सन्तोषो हि द्विजन्मनाम् । उद्यमः शत्रुहननं भूषणं भूतिमिच्छताम्
उद्यमेन हतस्त्वाष्ट्रो नमुचिर्बल एव च । तथैनं निहनिष्यामि महिषं मुनिसत्तम
बलं देवगुरुस्त्वं मे वज्रमायुधमुत्तमम् । सहायस्तु हरिर्नूनं तथोमापतिरव्ययः
रक्षोघ्नान्पठ मे साधो करोम्यद्य समुद्यमम् । स्वसैन्याभिनिवेशञ्च महिषं प्रति मानद
व्यास उवाच इत्युक्तो देवराजेन वाचस्पतिरुवाच ह । सुरेन्द्रं युद्धसंरक्तं स्मितपूर्वं वचस्तदा
बृहस्पतिरुवाच प्रेरयामि न चाहं त्वां न च निर्वारयाम्यहम् । सन्दिग्धेऽत्र जये कामं युध्यतश्च पराजये
न तेऽत्र दूषणं किञ्चिद्भवितव्ये शचीपते । सुखं वा यदि वा दुःखं विहितं च भविष्यति
न मया तत्परिज्ञातं भावि दुःखं सुखं तथा । यद्भार्याहरणे प्राप्तं पुरा वासव वेत्सि हि
शशिना मे हृता भार्या मित्रेणामित्रकर्शन । स्वाश्रमस्थेन सम्प्राप्तं दुःखं सर्वसुखापहम्
बुद्धिमान्सर्वलोकेषु विदितोऽहं सुराधिप । क्व मे गता तदा वुद्धिर्यदा भार्या हृता बलात्
तस्मादुपायः कर्तव्यो बुद्धिमद्भिः सदा नरैः । कार्यसिद्धिः सदा नूनं दैवाधीना सुराधिप
व्यास उवाच तच्छ्रुत्वा वचनं सत्यं गुरोः सार्थं शचीपतिः । ब्रह्माणं शरणं गत्वा नत्वा वचनमब्रवीत्
पितामह सुराध्यक्ष दैत्यो महिषसंज्ञकः । ग्रहीतुकामः स्वर्गं मे बलोद्योगं करोत्यलम्
अन्ये च दानवाः सर्वे तत्सैन्यं समुपस्थिताः । योद्धुकामा महावीर्याः सर्वे युद्धविशारदाः
तेनाहं भीतभीतोऽस्मि त्वत्सकाशमिहागतः । सर्वज्ञोऽसि महाप्राज्ञ साहाय्यं कर्तुमर्हसि
ब्रह्मोवाच गच्छामः सर्व एवाद्य कैलासं त्वरिता वयम् । शङ्करं पुरतः कृत्वा विष्णुं च बलिनां वरम्