उद्यमः सर्वथा कार्यो यथापौरुषमात्मनः । मुनयोऽपि हि मुक्त्यर्थमुद्यमैकरताः सदा
दैवाधीनं च जानन्तो योगध्यानपरायणाः । तस्मात्सदैव कर्तव्यो व्यवहारोदितोद्यमः
सुखं भवतु वा मा वा दैवे का परिदेवना । विना पुरुषकारेण कदाचित्सिद्धिमाप्नुयात्
अन्धवत्पङ्गुवत्कामं न तथा मुदमावहेत् । कृते पुरुषकारेऽपि यदि सिद्धिर्न जायते
न तत्र दूषणं तस्य दैवाधीने शरीरिणि । कार्यसिद्धिर्न सैन्येऽस्ति न मन्त्रे न च मन्त्रणे
न रथे नायुधे नूनं दैवाधीना सुराधिप । बलवाञ्क्लेशमाप्नोति निर्बलः सुखमश्नुते
बुद्धिमान्क्षुधितः शेते निर्बुद्धिर्भोगवान्भवेत् । कातरो जयमाप्नोति शूरो याति पराजयम्
दैवाधीने तु संसारे कामं का परिदेवना । उद्यमे योजयेन्नूनं भवितव्यं सुराधिप
दुःखदे सुखदे वापि तत्र तौ न विचिन्तयेत् । दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम्
आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत् । धैर्यमेवावगन्तव्यं हर्षशोकोद्भवे बुधैः
अधैर्याद्यादृशं दुःखं न तु धैर्येऽस्ति तादृशम् । दुर्लभं सहनत्वं वै समये सुखदुःखयोः
हर्षशोकोद्भवो यत्र न भवेद् बुद्धिनिश्चयात् । किं दुःखं कस्य वा दुःखं निर्गुणोऽहं सदाव्ययः
चतुर्विंशातिरिक्तोऽस्मि किं मे दुःखं सुखं च किम् । प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूर्छने
जरामृत्यू शरीरस्य षडूर्मिरहितः शिवः । शोकमोहौ शरीरस्य गणौ किं मेऽत्र चिन्तने
शरीरं नाहमथवा तत्सम्बन्धी न चाप्यहम् । सप्तैकषोडशादिभ्यो विभिन्नोऽहं सदा सुखी
प्रकृतिर्विकृतिर्नाहं किं मे दुःखं सदा पुनः । इति मत्वा सुरेश त्वं मनसा भव निर्ममः
उपायः प्रथमोऽयं ते दुःखनाशे शतक्रतो । ममता परमं दुःखं निर्ममत्वं परं सुखम्
सन्तोषादपरं नास्ति सुखस्थानं शचीपते । अथवा यदि न ज्ञानं ममत्वनाशने किल
ततो विवेकः कर्तव्यो भवितव्ये सुराधिप । प्रारब्धकर्मणां नाशो नाभोगाल्लक्ष्यते किल
यद्भावि तद्भवत्येव का चिन्ता सुखदुःखयोः । सुरैः सर्वैः सहायैर्वा बुद्ध्या वा तव सत्तम
सुखं क्षयाय पुण्यस्य दुःखं पापस्य मारिष । तस्मात्सुखक्षये हर्षः कर्तव्यः सर्वथा बुधैः
अथवा मन्त्रयित्वाद्य कुरु यत्नं यथाविधि । कृते यत्ने महाराज भवितव्यं भविष्यति
दैत्यसैन्यपराजयः व्यास उवाच इति श्रुत्वा सहस्राक्षः पुनराह बृहस्पतिम् । युद्धोद्योगं करिष्यामि हयारेर्नाशनाय वै
नोद्यमेन विना राज्यं न सुखं न च वै यशः । निरुद्यमं न शंसन्ति कातरा न च सोद्यमाः
यतीनां भूषणं ज्ञानं सन्तोषो हि द्विजन्मनाम् । उद्यमः शत्रुहननं भूषणं भूतिमिच्छताम्
उद्यमेन हतस्त्वाष्ट्रो नमुचिर्बल एव च । तथैनं निहनिष्यामि महिषं मुनिसत्तम
बलं देवगुरुस्त्वं मे वज्रमायुधमुत्तमम् । सहायस्तु हरिर्नूनं तथोमापतिरव्ययः
रक्षोघ्नान्पठ मे साधो करोम्यद्य समुद्यमम् । स्वसैन्याभिनिवेशञ्च महिषं प्रति मानद
व्यास उवाच इत्युक्तो देवराजेन वाचस्पतिरुवाच ह । सुरेन्द्रं युद्धसंरक्तं स्मितपूर्वं वचस्तदा
बृहस्पतिरुवाच प्रेरयामि न चाहं त्वां न च निर्वारयाम्यहम् । सन्दिग्धेऽत्र जये कामं युध्यतश्च पराजये