उद्यमः किल कर्तव्यो यथाबुद्धि यथाबलम् । दैवाधीनो भवेन्नूनं जयो वाथ पराजयः
सन्धियोगो न चात्रास्ति खले सन्धिर्निरर्थकः । सर्वथा साधुभिः कार्यं विचार्य च पुनः पुनः
यानमप्यधुना नैव कर्तव्यं सहसा पुनः । प्रेक्षकाः प्रेषणीयाश्च शीघ्रगाः सुप्रवेशकाः
इङ्गितज्ञाश्च निःसङ्गा निःस्पृहाः सत्यवादिनः । सेनाभियोगं प्रस्थानं बलसंख्यां यथार्थतः
वीराणां च परिज्ञानं कृत्वायान्तु त्वरान्विताः । ज्ञात्वा दैत्यपतेस्तस्य सैन्यस्य च बलाबलम्
करिष्यामि ततस्तूर्णं यानं वा दुर्गसंग्रहम् । विचार्य खलु कर्तव्यं कार्यं बुद्धिमता सदा । सहसा विहितं कार्यं दुःखदं सर्वथा भवेत्
तस्माद्विमृश्य कर्तव्यं सुखदं सर्वथा बुधैः । नात्र भेदविधिर्न्याय्यो दानवेषु च सर्वथा
एकचित्तेषु कार्येऽस्मिंस्तस्माच्चारा व्रजन्तु वै । ज्ञात्वा बलाबलं तेषां पश्चान्नीतिर्विचार्य च
विधेया विधिवत्तज्ज्ञैस्तेषु कार्यपरेषु च । अन्यथा विहितं कार्यं विपरीतफलप्रदम्
सर्वथा तद्भवेन्नूनमज्ञातमौषधं यथा । व्यास उवाच इति सञ्चिन्त्य तैः सर्वैः प्रणिधिं कार्यवेदिनम्
प्रेषयामास देवेन्द्रः परिज्ञानाय पार्थिव । दूतस्तु त्वरितो गत्वा समागम्य सुराधिपम्
निवेदयामास तदा सर्वसैन्यबलाबलम् । ज्ञात्वा तद्बलमुद्योगं तुराषाडतिविस्मितः
देवानचोदयत्तूर्णं समाहूय पुरोहितम् । मन्त्रं मन्त्रविदां श्रेष्ठं चकार त्रिदशेश्वरः
उवाचाङ्गिरसश्रेष्ठं समासीनं वरासने । इन्द्र उवाच भो भो देवगुरो विद्वन्किं कर्तव्यं वदस्व नः
सर्वज्ञोऽसि समुत्पन्ने कार्ये त्वं गतिरद्य नः । दानवो महिषो नाम महावीर्यो मदान्वितः
योद्धुकामः समायाति बहुभिर्दानवैर्वृतः । तत्र प्रतिक्रिया कार्या त्वया मन्त्रविदाधुना
तेषां शुक्रस्तथा त्वं मे विघ्नहर्ता सुसंयतः । व्यास उवाच तच्छ्रुत्वा वचनं प्राह तुरासाहं बृहस्पतिः
विचिन्त्य मनसा कामं कार्यसाधनतत्परः । गुरुरुवाच स्वस्थो भव सुरेन्द्र त्वं धैर्यमालम्ब्य मारिष
व्यसने च समुत्पन्ने न त्याज्यं धैर्यमाशु वै । जयाजयौ सुराध्यक्ष दैवाधीनौ सदैव हि
स्थातव्यं धैर्यमालम्ब्य तस्माद् बुद्धिमता सदा । भवितव्यं भवत्येव जानन्नेव शतक्रतो
उद्यमः सर्वथा कार्यो यथापौरुषमात्मनः । मुनयोऽपि हि मुक्त्यर्थमुद्यमैकरताः सदा
दैवाधीनं च जानन्तो योगध्यानपरायणाः । तस्मात्सदैव कर्तव्यो व्यवहारोदितोद्यमः
सुखं भवतु वा मा वा दैवे का परिदेवना । विना पुरुषकारेण कदाचित्सिद्धिमाप्नुयात्
अन्धवत्पङ्गुवत्कामं न तथा मुदमावहेत् । कृते पुरुषकारेऽपि यदि सिद्धिर्न जायते
न तत्र दूषणं तस्य दैवाधीने शरीरिणि । कार्यसिद्धिर्न सैन्येऽस्ति न मन्त्रे न च मन्त्रणे
न रथे नायुधे नूनं दैवाधीना सुराधिप । बलवाञ्क्लेशमाप्नोति निर्बलः सुखमश्नुते
बुद्धिमान्क्षुधितः शेते निर्बुद्धिर्भोगवान्भवेत् । कातरो जयमाप्नोति शूरो याति पराजयम्
दैवाधीने तु संसारे कामं का परिदेवना । उद्यमे योजयेन्नूनं भवितव्यं सुराधिप
दुःखदे सुखदे वापि तत्र तौ न विचिन्तयेत् । दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम्
आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत् । धैर्यमेवावगन्तव्यं हर्षशोकोद्भवे बुधैः