न मे भयं सुरेभ्यश्च वरदानेन दानवाः । मरणं न नरेभ्यश्च नारी किं मे करिष्यति
पातालपर्वतेभ्यश्च समाहूय वरान्वरान् । दानवान्मम सैन्येशान्कुर्वन्तु त्वरिताश्चराः
एकोऽहं सर्वदेवेशान्विजेतुं दानवाः क्षमः । शोभार्थं वः समाहूय नयामि सुरसङ्गमे
शृङ्गाभ्यां च खुराभ्यां च हनिष्येऽहं सुरान्किल । न मे भयं सुरेभ्यश्च वरदानप्रभावतः
अवध्योऽहं सुरगणैरसुरैर्मानवैस्तथा । तस्मात्सज्जा भवन्त्वद्य देवलोकजयाय वै
जित्वा सुरालयं दैत्या विहरिष्यामि नन्दने । मन्दारकुसुमापीडा देवयोषित्समन्विताः
कामधेनुपयोत्सिक्ताः सुधापानप्रमोदिताः । देवगन्धर्वगीतादिनृत्यलास्यसमन्विताः
उर्वशी मेनका रम्भा घृताची च तिलोत्तमा । प्रमद्वरा महासेना मिश्रकेशी मदोत्कटा
विप्रचित्तिप्रभृतयो नृत्यगीतविशारदाः । रञ्जयिष्यन्ति वः सर्वान्नानासवनिषेवणैः
सर्वे सज्जा भवन्त्वद्य रोचतां गमनं दिवि । संग्रामार्थं सुरैः सार्धं कृत्वा मङ्गलमुत्तमम्
रक्षणार्थं च सर्वेषां भार्गवं मुनिसत्तमम् । समाहूय च संपूज्य स्थाप्य यज्ञे गुरुं परम्
व्यास उवाच इति सन्दिश्य दैत्येन्द्रान्महिषः पापधीस्तदा । जगाम त्वरितो राजन्भवनं स्वं मुदान्वितः
भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् व्यास उवाच गते दूते सुरेन्द्रोऽपि समाहूय सुरानथ । यमवायुधनाध्यक्षवरुणानिदमूचिवान्
महिषो नाम दैत्येन्द्रो रम्भपुत्रो महाबलः । वरदर्पमदोन्मत्तो मायाशतविचक्षणः
तस्य दूतोऽद्य सम्प्राप्तः प्रेषितस्तेन भोः सुराः । स्वर्गकामेन लुब्धेन मामुवाचेदृशं वचः
त्यज देवालयं शक्र यथेच्छं व्रज वासव । सेवां वा कुरु दैत्यस्य महिषस्य महात्मनः
दयावान्दानवेन्द्रोऽसौ स ते वृत्तिं विधास्यति । नतेषु भृत्यभूतेषु न कुप्यति कदाचन
नोचेद्युद्धाय देवेश सेनोद्योगं कुरु स्वयम् । गते मयि स दैत्येन्द्रस्त्वरितः समुपेष्यति
इत्युक्त्वा स गतो दूतो दानवस्य दुरात्मनः । किं कर्तव्यमतः कार्यं चिन्तयध्वं सुरोत्तमाः
दुर्बलोऽपि न चोपेक्ष्यः शत्रुर्बलवता सुराः । विशेषेण सदोद्योगी बलवान्बलदर्पितः
उद्यमः किल कर्तव्यो यथाबुद्धि यथाबलम् । दैवाधीनो भवेन्नूनं जयो वाथ पराजयः
सन्धियोगो न चात्रास्ति खले सन्धिर्निरर्थकः । सर्वथा साधुभिः कार्यं विचार्य च पुनः पुनः
यानमप्यधुना नैव कर्तव्यं सहसा पुनः । प्रेक्षकाः प्रेषणीयाश्च शीघ्रगाः सुप्रवेशकाः
इङ्गितज्ञाश्च निःसङ्गा निःस्पृहाः सत्यवादिनः । सेनाभियोगं प्रस्थानं बलसंख्यां यथार्थतः
वीराणां च परिज्ञानं कृत्वायान्तु त्वरान्विताः । ज्ञात्वा दैत्यपतेस्तस्य सैन्यस्य च बलाबलम्
करिष्यामि ततस्तूर्णं यानं वा दुर्गसंग्रहम् । विचार्य खलु कर्तव्यं कार्यं बुद्धिमता सदा । सहसा विहितं कार्यं दुःखदं सर्वथा भवेत्
तस्माद्विमृश्य कर्तव्यं सुखदं सर्वथा बुधैः । नात्र भेदविधिर्न्याय्यो दानवेषु च सर्वथा
एकचित्तेषु कार्येऽस्मिंस्तस्माच्चारा व्रजन्तु वै । ज्ञात्वा बलाबलं तेषां पश्चान्नीतिर्विचार्य च
विधेया विधिवत्तज्ज्ञैस्तेषु कार्यपरेषु च । अन्यथा विहितं कार्यं विपरीतफलप्रदम्
सर्वथा तद्भवेन्नूनमज्ञातमौषधं यथा । व्यास उवाच इति सञ्चिन्त्य तैः सर्वैः प्रणिधिं कार्यवेदिनम्