उपेक्षा किं चेयं तव सुरसमूहेऽतिविषमा ॥ हरेर्मूर्ध्नो नाशो मतमिह महाश्चर्यजनकम् । महद्दुःखं मातस्त्वमसि जननच्छेदकुशला
ज्ञात्वा दोषं सकलसुरतापादितं देवि चित्ते किं वा विष्णावमरजनितं दुष्कृतं पातितं ते । विष्णोर्वा किं समरजनितः कोऽपि गर्वोऽतिवेगा- च्छेत्तुं मातस्तव विलसितं नैव विद्मोऽत्र भावम्
किं वा दैत्यैः समरविजितैस्तीर्थदेशे सुरम्ये घोरं तप्त्वा भगवति वरं लब्धवद्भिर्भवत्याः । अन्तर्धानं गमितमधुना विष्णुशीर्षं भवानि द्रष्टुं किं वा विगतशिरसं वासुदेवं विनोदः
सिन्धोः पुत्र्यां रोषिता किं त्वमाद्ये कस्मादेनां प्रेक्षसे नाथहीनाम् । क्षन्तव्यस्ते स्वांशजातापराधो व्युत्थाप्यैनं मोदिता मां कुरुष्व
एते सुरास्त्वां सततं नमन्ति कार्येषु मुख्याः प्रथितप्रभावाः । शोकार्णवात्तारय देवि देवा- नुत्थाप्य देवं सकलाधिनाथम्
मूर्धा गतः क्वाम्ब हरेर्न विद्मो नान्योऽस्त्युपायः खलु जीवनेऽद्य । यथा सुधा जीवनकर्मदक्षा तथा जगज्जीवितदासि देवि
सूत उवाच एवं स्तुता तदा देवी गुणातीता महेश्वरी । प्रसन्ना परमा माया वेदैः साङ्गैश्च सामगैः
तानुवाच तदा वाणी चाकाशस्थाशरीरिणी । देवान्प्रति सुखैः शब्दैर्जनानन्दकरी शुभा
मा कुरुध्वं सुराश्चिन्तां स्वस्थास्तिष्ठन्तु चामराः । स्तुताहं निगमैः कामं सन्तुष्टास्मि न संशयः
यः पुमान्मानुषे लोके स्तौत्येतां मामकीं स्तुतिम् । पतिष्यति सदा भक्त्या सर्वान्कामानवाप्नुयात्
शृणोति वा स्तोत्रमिदं मदीयं भक्त्या त्रिकालं सततं नरो यः । विमुक्तदुःखः स भवेत्सुखी च वेदोक्तमेतन्ननु वेदतुल्यम्
शृण्वन्तु कारणं चाद्य यद्गतं वदनं हरेः । अकारणं कथं कार्यं संसारेऽत्र भविष्यति
उदधेस्तनयां विष्णुः संस्थितामन्तिके प्रियाम् । जहास वदनं वीक्ष्य तस्यास्तत्र मनोरमम्
तया ज्ञातं हरिर्नूनं कथं मां हसति प्रभुः । विरूपं हरिणा दृष्टं मुखं मे केन हेतुना
विनापि कारणेनाद्य कथं हास्यस्य सम्भवः । सपत्नीव कृता तेन मन्येऽन्या वरवर्णिनी
ततः कोपयुता जाता महालक्ष्मी तमोगुणा । तामसी तु तदा शक्तिस्तस्या देहे समाविशत्
केनचित्कालयोगेन देवकार्यार्थसिद्धये । प्रविष्टा तामसी शक्तिस्तस्या देहेऽतिदारुणा
तामस्याविष्टदेहा सा चुकोपातिशयं तदा । शनकैः समुवाचेदमिदं पततु ते शिरः
स्त्रीस्वभावाच्च भावित्वात्कालयोगाद्विनिर्गतः । अविचार्य तदा दत्तः शापः स्वसुखनाशनः
सपत्नीसम्भवं दुःखं वैधव्यादधिकं त्विति । विचिन्त्य मनसेत्युक्तं तामसीशक्तियोगतः
अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः
सशीर्षं वासुदेवं तं करोम्यद्य यथा पुरा । शिरोऽस्य शापयोगेन निमग्नं लवणाम्बुधौ
अन्यच्च कारणं किञ्चिद्वर्तते सुरसत्तमाः । भवतां च महत्कार्यं भविष्यति न संशयः
पुरा दैत्यो महाबाहुर्हयग्रीवोऽतिविश्रुतः । तपश्चक्रे सरस्वत्यास्तीरे परमदारुणम्
जपन्नेकाक्षरं मन्त्रं मायाबीजात्मकं मम । निराहारो जितात्मा च सर्वभोगविवर्जितः
ध्यायन्मां तामसीं शक्तिं सर्वभूषणभूषिताम् । एवं वर्षसहस्रं च तपश्चक्रेऽतिदारुणम्
तदाहं तामसं रूपं कृत्वा तत्र समागता । दर्शने पुरतस्तस्य ध्यातं तत्तेन यादृशम्
सिंहोपरि स्थिता तत्र तमवोचं दयान्विता । वरं ब्रूहि महाभाग ददामि तव सुव्रत
इति श्रुत्वा वचो देव्या दानवः प्रेमपूरितः । प्रदक्षिणां प्रणामं च चकार त्वरितस्तदा
दृष्ट्वा रूपं मदीयं स प्रेमोस्फुल्लविलोचनः । हर्षाश्रुपूर्णनयनस्तुष्टाव स च मां तदा