यद् बलेनातिपूर्णस्त्वं जातोऽसि बलदर्पितः । कुशलस्त्वं तदाघाते न युद्धे महिषाधम
व्यास उवाच इत्युक्तोऽसौ सुरेन्द्रेण स दूतस्त्वरितो गतः । जगाम महिषं मत्तं प्रणम्य प्रत्युवाच ह
दूत उवाच राजन्देवाधिपः कामं न त्वां विगणयत्यसौ । मन्यते स्वबलं पूर्णं देवसैन्यसमावृतः
यदुक्तं तेन मूर्खेण कथमन्यद् ब्रवीम्यहम् । प्रियं सत्यं च वक्तव्यं भृत्येन पुरतः प्रभोः
प्रियं सत्यं च वक्तव्यं प्रभोरग्रे शुभेच्छुना । इति नीतिर्महाराज जागर्ति शुभकारिणी
केवलं चेत्प्रियं ब्रूयान्न ते कार्यं भविष्यति । परुषं च न वक्तव्यं कदाचिच्छुभमिच्छता ॥ २६ यथा रिपुमुखाद्वाचः प्रसरन्ति विषोपमाः । तथा भृत्यमुखान्नाथ निःसरन्ति कथं गिरः
यादृशानीह वाक्यानि तेनोक्तानि महीपते । तादृशानि न मे जिह्वा वक्तुमर्हति कर्हिचित्
व्यास उवाच तच्छ्रुत्वा वचनं तस्य हेतुगर्भं तृणाशनः । भृशं कोपपरीतात्मा बभूव महिषासुरः
समाहूयाब्रवीद्दैत्यान्क्रोधसंरक्तलोचनः । लाङ्गूलं पृष्ठदेशे च कृत्वा मूत्रं परित्यजन्
भो भो दैत्याः सुरेन्द्रोऽसौ युद्धकामोऽस्ति सर्वथा । बलोद्योगं कुरुध्वं वै जेतव्योऽसौ सुराधमः
मदग्रे को भवेच्छूरः कोटिशश्चेत्तथाविधाः । न बिभेम्येकतः कामं हनिष्याम्यद्य सर्वथा
शरः शान्तेष्वसौ नूनं तपस्विषु बलाधिकः । बलकर्ता हि कुहको लम्पटः परदारहृत्
अप्सरोबलसम्मत्तस्तपोविघ्नकरः खलः । छिद्रप्रहरणः पापो नित्यं विश्वासघातकः
नमुचिर्निहतो येन कृत्वा सन्धिं दुरात्मना । शपथान्विविधानादौ कृत्वा भीतेन छद्मना
विष्णुस्तु कपटाचार्यः कुहकः शपथाकरः । नानारूपधरः कामं बलकृद्दम्भपण्डितः
कृत्वा कोलाकृतिं येन हिरण्याक्षो निपातितः । हिरण्यकशिपुर्येन नृसिंहेन च घातितः
नाहं तद्वशगो नूनं भवेयं दनुनन्दनाः । विश्वासं नैव गच्छामि देवानां कुत्र कर्हिचित्
किं करिष्यति मे विष्णुरिन्द्रो वा बलवत्तरः । रुद्रो वापि न मे शक्तः प्रतिकर्तुं रणाङ्गणे
त्रिविष्टपं ग्रहीष्यामि जित्वेन्द्रं वरुणं यमम् । धनदं पावकं चैव चन्द्रसूर्यौ विजित्य च
यज्ञभागभुजः सर्वे भविष्यामोऽद्य सोमपाः । जित्वा देवसमूहञ्च विहरिष्यामि दानवैः
न मे भयं सुरेभ्यश्च वरदानेन दानवाः । मरणं न नरेभ्यश्च नारी किं मे करिष्यति
पातालपर्वतेभ्यश्च समाहूय वरान्वरान् । दानवान्मम सैन्येशान्कुर्वन्तु त्वरिताश्चराः
एकोऽहं सर्वदेवेशान्विजेतुं दानवाः क्षमः । शोभार्थं वः समाहूय नयामि सुरसङ्गमे
शृङ्गाभ्यां च खुराभ्यां च हनिष्येऽहं सुरान्किल । न मे भयं सुरेभ्यश्च वरदानप्रभावतः
अवध्योऽहं सुरगणैरसुरैर्मानवैस्तथा । तस्मात्सज्जा भवन्त्वद्य देवलोकजयाय वै
जित्वा सुरालयं दैत्या विहरिष्यामि नन्दने । मन्दारकुसुमापीडा देवयोषित्समन्विताः
कामधेनुपयोत्सिक्ताः सुधापानप्रमोदिताः । देवगन्धर्वगीतादिनृत्यलास्यसमन्विताः
उर्वशी मेनका रम्भा घृताची च तिलोत्तमा । प्रमद्वरा महासेना मिश्रकेशी मदोत्कटा
विप्रचित्तिप्रभृतयो नृत्यगीतविशारदाः । रञ्जयिष्यन्ति वः सर्वान्नानासवनिषेवणैः
सर्वे सज्जा भवन्त्वद्य रोचतां गमनं दिवि । संग्रामार्थं सुरैः सार्धं कृत्वा मङ्गलमुत्तमम्