भगवतीमाहात्म्ये दैत्यसैन्योद्योगः व्यास उवाच एवं स महिषो नाम दानवो वरदर्पितः । प्राप्य राज्यं जगत्सर्वं वशे चक्रे महाबलः
पृथिवीं पालयामास सागरान्तां भुजार्जिताम् । एकच्छत्रां निरातङ्कां वैरिवर्गविवर्जिताम्
सेनानीश्चिक्षुरस्तस्य महावीर्यो मदोत्कटः । धनाध्यक्षस्तथा ताम्रः सेनायुतसमावृतः
असिलोमा तथोदर्को बिडालाख्यश्च बाष्कलः । त्रिनेत्रोऽथ तथा कालबन्धको बलदर्पितः
एते सैन्ययुताः सर्वे दानवा मेदिनीं तदा । आवृत्य संस्थिताः काममृद्धां सागरमेखलाम्
करदाश्च कृताः सर्वे भूमिपालाः पुरातनाः । निहता ये बलोदग्राः क्षात्रधर्मव्यवस्थिताः
ब्राह्मणा वशगा जाता यज्ञभागसमर्पकाः । महिषस्य महाराज निखिले क्षितिमण्डले
एकातपत्रं तद्राज्यं कृत्वा स महिषासुरः । स्वर्गं जेतुं मनश्चक्रे वरदानेन गर्वितः
प्रणिधिं प्रेषयामास हयारिस्तु शचीपतिम् । स सन्देशहरं शीघ्रमाहूयोवाच दैत्यराट्
गच्छ वीर महाबाहो दूतत्वं कुरु मेऽनघ । ब्रूहि शक्रं दिवं गत्वा निःशङ्कः सुरसन्निधौ
मुञ्च स्वर्गं सहस्राक्ष यथेष्टं गच्छ मा चिरम् । सेवां वा कुरु देवेश महिषस्य महात्मनः
स त्वां संरक्षयेन्नूनं राजा शरणमागतम् । तस्मात्त्वं शरणं याहि महिषस्य शचीपते
नोचेद्वज्रं गहाणाशु युद्धाय बलसूदन । पूर्वैर्जितोऽसि चास्माकं जानामि तव पौरुषम्
अहल्याजार विज्ञातं बलं ते सुरसङ्घप । युध्यस्व व्रज वा कामं यत्र ते रमते मनः
व्यास उवाच तच्छुत्वा वचनं तस्य शक्रः क्रोधसमन्वितः । उवाच तं नृपश्रेष्ठ स्मितपूर्वं वचस्तदा
न जानेऽहं सुमन्दात्मन् यतस्त्वं मददर्पितः । चिकित्सां संकरिष्यामि रोगस्यास्य प्रभोस्तव
अतः परं करिष्यामि मूलस्यास्य निमूलनम् । गच्छ दूत तथा ब्रूहि तस्याग्रे मम भाषितम्
शिष्टैर्दूता न हन्तव्यास्तस्मात्त्वां विसृजाम्यहम् । युद्धेच्छा चेत्समागच्छ त्वरितो महिषीसुत
हयारे त्वद्बलं ज्ञातं तृणादस्त्वं जडाकृतिः । शृङ्गयोस्ते करिष्यामि सुदृढं च शरासनम्
दर्पः शृङ्गबलात्तेऽस्ति विदितं कारणं मया । विषाणे ते परिच्छिद्य संहरिष्यामि तद् बलम्
यद् बलेनातिपूर्णस्त्वं जातोऽसि बलदर्पितः । कुशलस्त्वं तदाघाते न युद्धे महिषाधम
व्यास उवाच इत्युक्तोऽसौ सुरेन्द्रेण स दूतस्त्वरितो गतः । जगाम महिषं मत्तं प्रणम्य प्रत्युवाच ह
दूत उवाच राजन्देवाधिपः कामं न त्वां विगणयत्यसौ । मन्यते स्वबलं पूर्णं देवसैन्यसमावृतः
यदुक्तं तेन मूर्खेण कथमन्यद् ब्रवीम्यहम् । प्रियं सत्यं च वक्तव्यं भृत्येन पुरतः प्रभोः
प्रियं सत्यं च वक्तव्यं प्रभोरग्रे शुभेच्छुना । इति नीतिर्महाराज जागर्ति शुभकारिणी
केवलं चेत्प्रियं ब्रूयान्न ते कार्यं भविष्यति । परुषं च न वक्तव्यं कदाचिच्छुभमिच्छता ॥ २६ यथा रिपुमुखाद्वाचः प्रसरन्ति विषोपमाः । तथा भृत्यमुखान्नाथ निःसरन्ति कथं गिरः
यादृशानीह वाक्यानि तेनोक्तानि महीपते । तादृशानि न मे जिह्वा वक्तुमर्हति कर्हिचित्
व्यास उवाच तच्छ्रुत्वा वचनं तस्य हेतुगर्भं तृणाशनः । भृशं कोपपरीतात्मा बभूव महिषासुरः
समाहूयाब्रवीद्दैत्यान्क्रोधसंरक्तलोचनः । लाङ्गूलं पृष्ठदेशे च कृत्वा मूत्रं परित्यजन्
भो भो दैत्याः सुरेन्द्रोऽसौ युद्धकामोऽस्ति सर्वथा । बलोद्योगं कुरुध्वं वै जेतव्योऽसौ सुराधमः