यस्यां चित्तं तु रम्भ त्वं प्रमदायां करिष्यसि । तस्यां पुत्रो महाभाग भविष्यति बलाधिकः
व्यास उवाच इत्युक्तो वह्निना रम्भो वचनं चित्तरञ्जनम् । श्रुत्वा प्रणम्य प्रययौ वह्निं तं दानवोत्तमः
यक्षैः परिवृतं स्थानं रमणीयं श्रियान्वितम् । दृष्ट्वा चक्रे तदा भावं महिष्यां दानवोत्तमः
मत्तायां रूपपूर्णायां विहायान्याञ्च योषितम् । सा समागाच्च तरसा कामयन्ती मुदान्विता
रम्भोऽपि गमनं चक्रे भवितव्यप्रणोदितः । सा तु गर्भवती जाता महिषी तस्य वीर्यतः
तां गृहीत्वाथ पातालं प्रविवेश मनोहरम् । महिषेभ्यश्च तां रक्षन्प्रियामनुमतां किल
कदाचिन्महिषश्चान्यः कामार्तस्तामुपाद्रवत् । स्वयमागत्य तं हन्तुं दानवः समुपाद्रवत्
स्वरक्षार्थं समागत्य महिषं समताडयत् । सोऽपि तं निजघानाशु शृङ्गाभ्यां काममोहितः
ताडितस्तेन तीक्ष्णाभ्यां शृङ्गाभ्यां हृदये भृशम् । भूमौ पपात तरसा ममार च विमूर्च्छितः
मृते भर्तरि सा दीना भयार्ता विद्रुता भृशम् । सा वेगात्तं वटं प्राप्य यक्षाणां शरणं गता
पृष्ठतस्तु गतस्तत्र महिषः कामपीडितः । कामयानस्तु तां कामी बलवीर्यमदोद्धतः
रुदती सा भृशं दीना दृष्टा यक्षैर्भयातुरा । धावमानं च तं वीक्ष्य यक्षास्त्रातुं समाययुः
युद्धं समभवद् घोरं यक्षाणां च हयारिणा । शरेण ताडितस्तूर्णं पपात धरणीतले
मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् । चितायां रोपयामासुस्तस्य देहस्य शुद्धये
महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा । प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम्
वार्यमाणापि यक्षैः सा प्रविवेश हुताशनम् । ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम्
महिषस्तु चितामध्यात्समुत्तस्थौ महाबलः । रम्भोऽप्यन्यद्वपुः कृत्वा निःसृतः पुत्रवत्सलः
रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः । अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः
एवं स महिषो जातो रक्तबीजश्च वीर्यवान् । अवध्यस्तु सुरैर्दैत्यैर्मानवैश्च नृपोत्तम
इत्येतत्कथितं राजन् जन्म तस्य महात्मनः । वरप्रदानञ्च तथा प्रोक्तं सर्वं सविस्तरम्
भगवतीमाहात्म्ये दैत्यसैन्योद्योगः व्यास उवाच एवं स महिषो नाम दानवो वरदर्पितः । प्राप्य राज्यं जगत्सर्वं वशे चक्रे महाबलः
पृथिवीं पालयामास सागरान्तां भुजार्जिताम् । एकच्छत्रां निरातङ्कां वैरिवर्गविवर्जिताम्
सेनानीश्चिक्षुरस्तस्य महावीर्यो मदोत्कटः । धनाध्यक्षस्तथा ताम्रः सेनायुतसमावृतः
असिलोमा तथोदर्को बिडालाख्यश्च बाष्कलः । त्रिनेत्रोऽथ तथा कालबन्धको बलदर्पितः
एते सैन्ययुताः सर्वे दानवा मेदिनीं तदा । आवृत्य संस्थिताः काममृद्धां सागरमेखलाम्
करदाश्च कृताः सर्वे भूमिपालाः पुरातनाः । निहता ये बलोदग्राः क्षात्रधर्मव्यवस्थिताः
ब्राह्मणा वशगा जाता यज्ञभागसमर्पकाः । महिषस्य महाराज निखिले क्षितिमण्डले
एकातपत्रं तद्राज्यं कृत्वा स महिषासुरः । स्वर्गं जेतुं मनश्चक्रे वरदानेन गर्वितः
प्रणिधिं प्रेषयामास हयारिस्तु शचीपतिम् । स सन्देशहरं शीघ्रमाहूयोवाच दैत्यराट्
गच्छ वीर महाबाहो दूतत्वं कुरु मेऽनघ । ब्रूहि शक्रं दिवं गत्वा निःशङ्कः सुरसन्निधौ