महिषासुरोत्पत्तिः राजोवाच योगेश्वर्याः प्रभावोऽयं कथितश्चातिविस्तरात् । ब्रूहि तच्चरितं स्वामिञ्छ्रोतुं कौतूहलं मम
महादेवीप्रभावं वै श्रोतुं को नाभिवाञ्छति । यो जानाति जगत्सर्वं तदुत्पन्नं चराचरम्
व्यास उवाच शृणु राजन् प्रवक्ष्यामि विस्तरेण महामते । श्रद्दधानाय शान्ताय न ब्रूयात्स तु मन्दधीः
पुरा युद्धमभूद् घोरं देवदानवसेनयोः । पृथिव्यां पृथिवीपाल महिषाख्ये महीपतौ
महिषो नाम राजेन्द्र चकार तप उत्तमम् । गत्वा हेमगिरौ चोग्रं देवविस्मयकारकम्
वर्षाणामयुतं पूर्णं चिन्तयन्हृदि देवताम् । तस्य तुष्टो महाराज ब्रह्मा लोकपितामहः
तत्रागत्याब्रवीद्वाक्यं हंसारूढश्चतुर्मुखः । वरं वरय धर्मात्मन्ददामि तव वाच्छितम्
महिष उवाच अमरत्वं देवदेव वाञ्छामि द्रुहिण प्रभो । यथा मृत्यु भयं न स्यात्तथा कुरु पितामह
ब्रह्मोवाच उत्पन्नस्य ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च । सर्वथा मरणोत्पत्ती सर्वेषां प्राणिनां किल
नाशः कालेन सर्वेषां प्राणिनां दैत्यपुङ्गव । महामहीधराणां च समुद्राणां च सर्वथा
एकं स्थानं परित्यज्य मरणस्य महीपते । प्रब्रूहि तं वरं साधो यस्ते मनसि वर्तते
महिष उवाच न देवान्मानुषाद्दैत्यान्मरणं मे पितामह । पुरुषान्न च मे मृत्युर्योषा मां का हनिष्यति
तस्मान्मे मरणं नूनं कामिन्याः कुरु पद्मज । अबला हन्त मां हन्तुं कथं शक्ता भविष्यति
ब्रह्मोवाच यदा कदापि दैत्येन्द्र नार्यास्ते मरणं धुवम् । न नरेभ्यो महाभाग मृतिस्ते महिषासुर
व्यास उवाच एवं दत्त्वा वरं तस्मै ययौ ब्रह्मा निजालयम् । सोऽपि दैत्यवरः प्राप निजं स्थानं मुदान्वितः
राजोवाच महिषः कस्य पुत्रोऽसौ कथं जातो महाबली । कथं च माहिषं रूपं प्राप्तं तेन महात्मना
व्यास उवाच दनोः पुत्रौ महाराज विख्यातौ क्षितिमण्डले । रम्भश्चैव करम्भश्च द्वावास्तां दानवोत्तमौ
तावपुत्रौ महाराज पुत्रार्थं तेपतुस्तपः । बहून्वर्षगणान्कामं पुण्ये पञ्चनदे जले
करम्भस्तु जले मग्नश्चकार परमं तपः । वृक्षं रसालवटं प्राप्य रम्भोऽग्निमसेवत
पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् । ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति
गत्वा पञ्चनदे तत्र ग्राहरूपं चकार ह । वासवस्तु करम्भं तं तदा जग्राह पादयोः
निजघान च तं दुष्टं करम्भं वृत्रसूदनः । भ्रातरं निहतं श्रुत्वा रम्भः कोपं परं गतः
स्वशीर्षं पावके होतुमैच्छच्छित्त्वा करेण ह । केशपाशे गहीत्वाशु वामेन क्रोधसंयुतः
दक्षिणेन करेणोग्रं गृहीत्वा खड्गमुत्तमम् । छिनत्ति शीर्षं तत्तावद्वह्निना प्रतिबोधितः
उक्तश्च दैत्य मूर्खोऽसि स्वशीर्षं छेत्तुमिच्छसि । आत्महत्यातिदुःसाध्या कथं त्वं कर्तुमुद्यतः
वरं वरय भद्रं ते यस्ते मनसि वर्तते । मा म्रियस्व मृतेनाद्य किं ते कार्यं भविष्यति
व्यास उवाच तच्छुत्वा वचनं रम्भः पावकस्य सुभाषितम् । ततोऽब्रवीद्वचो रम्भस्त्यक्त्वा केशकलापकम्
यदि तुष्टोऽसि देवेश देहि मे वाञ्छितं वरम् । त्रैलोक्यविजयी पुत्रः स्यान्नः परबलार्दनः
अजेयः सर्वथा स स्याद्देवदानवमानवैः । कामरूपी महावीर्यः सर्वलोकाभिवन्दितः
पावकस्तं तथेत्याह भविष्यति तवेप्सितम् । पुत्रस्तव महाभाग मरणाद्विरमाधुना