तामसस्तु महाराज ब्रह्मविष्णुशिवादिषु । त्रिविधस्त्रिषु राजेन्द्र काजेशादिषु सर्वदा
अहङ्कारः सदा प्रोक्तो मुनिभिस्तत्त्वदर्शिभिः । अहङ्कारेण तेनैव बद्धा एते न संशयः
मायाविमोहिता मन्दाः प्रवदन्ति मनीषिणः । करोति स्वेच्छया विष्णुरवताराननेकशः
मन्दोऽपि दुःखगहने गर्भवासेऽतिसङ्कटे । न करोति मतिं विद्वान्कथं कुर्यात्स चक्रभृत्
कौसल्यादेवकीगर्भे विष्ठामलसमाकुले । स्वेच्छया प्रवदन्त्यद्धा गतो हि मधुसूदनः
वैकुण्ठसदनं त्यक्त्वा गर्भवासे सुखं नु किम् । चिन्ताकोटिसमुत्थाने दुःखदे विषसम्मिते
तपस्तप्त्वा क्रतून्कृत्वा दत्त्वा दानान्यनेकशः । न वाञ्छन्ति यतो लोका गर्भवासं सुदुःखदम्
स कथं भगवान्विष्णुः स्ववशश्चेज्जनार्दनः । गर्भवासरुचिर्भूयाद्भवेत्स्ववशता यदि
जानीहि त्वं महाराज योगमायावशे जगत् । ब्रह्मादिस्तम्बपर्यन्तं देवमानुषतिर्यगम्
मायातन्त्रीनिबद्धा ये ब्रह्मविष्णुहरादयः । भ्रमन्ति बन्धमायान्ति लीलया चोर्णनाभवत्
महिषासुरोत्पत्तिः राजोवाच योगेश्वर्याः प्रभावोऽयं कथितश्चातिविस्तरात् । ब्रूहि तच्चरितं स्वामिञ्छ्रोतुं कौतूहलं मम
महादेवीप्रभावं वै श्रोतुं को नाभिवाञ्छति । यो जानाति जगत्सर्वं तदुत्पन्नं चराचरम्
व्यास उवाच शृणु राजन् प्रवक्ष्यामि विस्तरेण महामते । श्रद्दधानाय शान्ताय न ब्रूयात्स तु मन्दधीः
पुरा युद्धमभूद् घोरं देवदानवसेनयोः । पृथिव्यां पृथिवीपाल महिषाख्ये महीपतौ
महिषो नाम राजेन्द्र चकार तप उत्तमम् । गत्वा हेमगिरौ चोग्रं देवविस्मयकारकम्
वर्षाणामयुतं पूर्णं चिन्तयन्हृदि देवताम् । तस्य तुष्टो महाराज ब्रह्मा लोकपितामहः
तत्रागत्याब्रवीद्वाक्यं हंसारूढश्चतुर्मुखः । वरं वरय धर्मात्मन्ददामि तव वाच्छितम्
महिष उवाच अमरत्वं देवदेव वाञ्छामि द्रुहिण प्रभो । यथा मृत्यु भयं न स्यात्तथा कुरु पितामह
ब्रह्मोवाच उत्पन्नस्य ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च । सर्वथा मरणोत्पत्ती सर्वेषां प्राणिनां किल
नाशः कालेन सर्वेषां प्राणिनां दैत्यपुङ्गव । महामहीधराणां च समुद्राणां च सर्वथा
एकं स्थानं परित्यज्य मरणस्य महीपते । प्रब्रूहि तं वरं साधो यस्ते मनसि वर्तते
महिष उवाच न देवान्मानुषाद्दैत्यान्मरणं मे पितामह । पुरुषान्न च मे मृत्युर्योषा मां का हनिष्यति
तस्मान्मे मरणं नूनं कामिन्याः कुरु पद्मज । अबला हन्त मां हन्तुं कथं शक्ता भविष्यति
ब्रह्मोवाच यदा कदापि दैत्येन्द्र नार्यास्ते मरणं धुवम् । न नरेभ्यो महाभाग मृतिस्ते महिषासुर
व्यास उवाच एवं दत्त्वा वरं तस्मै ययौ ब्रह्मा निजालयम् । सोऽपि दैत्यवरः प्राप निजं स्थानं मुदान्वितः
राजोवाच महिषः कस्य पुत्रोऽसौ कथं जातो महाबली । कथं च माहिषं रूपं प्राप्तं तेन महात्मना
व्यास उवाच दनोः पुत्रौ महाराज विख्यातौ क्षितिमण्डले । रम्भश्चैव करम्भश्च द्वावास्तां दानवोत्तमौ
तावपुत्रौ महाराज पुत्रार्थं तेपतुस्तपः । बहून्वर्षगणान्कामं पुण्ये पञ्चनदे जले
करम्भस्तु जले मग्नश्चकार परमं तपः । वृक्षं रसालवटं प्राप्य रम्भोऽग्निमसेवत
पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् । ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति