शोके शोकाभियोगश्च हर्षे हर्षसमुन्नतिः । दैन्यं नानापवादाश्च स्त्रीषु कामोपसेवनम्
कामः क्रोधस्तथा लोभः काले काले भवन्ति हि । तथा गुणमये देहे निर्गुणत्वं कथं भवेत्
सौबलीशापजाद्दोषात्तथा ब्राह्मणशापजात् । निधनं यादवानां तु कृष्णदेहस्य मोचनम्
हरणं लुण्ठनं तद्वत्तत्पत्नीनां नराधिप । अर्जुनस्यास्त्रमोक्षे च क्लीबत्वं तस्करेषु च
अज्ञत्वं हरणे गेहात्तत्प्रद्युम्नानिरुद्धयोः । एवं मानुषदेहेऽस्मिन्मानुषं खलु चेष्टितम्
विष्णोरंशावतारेऽस्मिन्नारायणमुनेस्तथा । अंशजे वासुदेवेऽत्र किं चित्रं शिवसेवने
स हि सर्वेश्वरो देवो विष्णोरपि च कारणम् । सुषुप्तस्थाननाथः स विष्णुना च प्रपूजितः
तदंशभूताः कृष्णाद्यास्तैः कथं न स पूज्यते । अकारो भगवान्ब्रह्माप्युकारः स्याद्धरिः स्वयम्
मकारो भगवान् रुद्रोऽप्यर्धमात्रा महेश्वरी । उत्तरोत्तरभावेनाप्युत्तमत्वं स्मृतं बुधैः
अतः सर्वेषु शास्त्रेषु देवी सर्वोत्तमा स्मृता । अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः
विष्णोरप्यथिको रुद्रो विष्णुस्तु ब्रह्मणोऽधिकः । तस्मान्न संशयः कार्यः कृष्णेन शिवपूजने
इच्छया ब्रह्मणो वक्त्राद्वरदानार्थमुद्बभौ । मूलरुद्रस्यांशभूतो रुद्रनामा द्वितीयकः
सोऽपि पूज्योऽस्ति सर्वेषां मूलरुद्रस्य का कथा । देवीतत्त्वस्य सान्निध्यादुत्तमत्वं स्मृतं शिवे
अवतारा हरेरेवं प्रभवन्ति युगे युगे । योगमायाप्रभावेण नात्र कार्या विचारणा
या नेत्रपक्ष्मपरिसञ्चलनेन सम्य- ग्विश्वं सृजत्यवति हन्ति निगूढभावा । सैषा करोति सततं द्रुहिणाच्युतेशान् नानावतारकलने परिभूयमानान्
सूतीगृहाद्व्रजनमप्यनया नियुक्तं संगोपितश्च भवने पशुपालराज्ञः । सम्प्रापितश्च मधुरां विनियोजितश्च श्रीद्वारकाप्रणयने ननु भीतचित्तः
निर्माय षोडशसहस्रशतार्धकास्ता नार्योऽष्टसम्मततराः स्वकलासमुत्थाः । तासां विलासवशगं तु विधाय कामं दासीकृतो हि भगवाननयाप्यनन्तः
एकापि बन्धनविधौ युवती समर्था पुंसो यथा सुदृढलोहमयं तु दाम । किं नाम षोडशसहस्रशतार्धकाश्च तं स्वीकृतं शुकमिवातिनिबन्धयन्ति
सात्राजितीवशगतेन मुदान्वितेन प्राप्तं सुरेन्द्रभवनं हरिणा तदानीम् । कृत्वा मृधं मघवता विहृतस्तरूणा- मीशः प्रियासदनभूषणतां य आप
यो भीमजां हि हृतवाञ्छिशुपालकादी- ञ्जित्वा विधिं निखिलधर्मकृतो विधित्सुः । जग्राह तां निजबलेन च धर्मपत्नीं कोऽसौ विधिः परकलत्रहृतौ विजातः
अहङ्कारवशः प्राणी करोति च शुभाशुभम् । विमूढो मोहजालेन तत्कृतेनातिपातिना
अहङ्काराद्धि सञ्जातमिदं स्थावरजङ्गमम् । मूलाद्धरिहरादीनामुग्रात्प्रकृतिसम्भवात्
अहङ्कारपरित्यक्तो यदा भवति पद्मजः । तदा विमुक्तो भवति नोचेत्संसारकर्मकृत्
तन्मुक्तस्तु विमुक्तो हि बद्धस्तद्वशतां गतः । न नारी न धनं गेहं न पुत्रा न सहोदराः
बन्धनं प्राणिनां राजन्नहङ्कारस्तु बन्धकः । अहं कर्ता मया चेदं कृतं कार्यं बलीयसा
करिष्यामि करोम्येवं स्वयं बध्नाति प्राणभृत् । कारणेन विना कार्यं न सम्भवति कर्हिचित्
यथा न दृश्यते जातो मृत्पिण्डेन विना घटः । विष्णुः पालयिता विश्वस्याहङ्कारसमन्वितः
अन्यथा सर्वदा चिन्ताम्बुधौ मग्नः कथं भवेत् । अहङ्कारविमुक्तस्तु यदा भवति मानवः
अवतारप्रवाहेषु कथं मज्जेच्छुभाशयः । मोहमूलमहङ्कारः संसारस्तत्समुद्भवः
अहङ्कारविहीनानां न मोहो न च संसृतिः । त्रिविधः पुरुषः प्रोक्तः सात्त्विको राजसस्तथा