श्वेताश्वतरादयः सर्वे ऋषयो निर्मलाशयाः । आत्मरूपां हृदा ज्ञात्वा विमुक्ता भवबन्धनात्
ब्रह्मविष्ण्वादयस्तद्वद् गौरीलक्ष्म्यादयस्तथा । तामेव समुपासन्ते सच्चिदानन्दरूपिणीम्
इति ते कथितं राजन् यद्यत्पुष्टं त्वयानघ । प्रपञ्चतापत्रस्तेन किं भूयः श्रोतुमिच्छसि
एतत्ते कथितं राजन्मयाख्यानमनुत्तमम् । सर्वपापहरं पुण्यं पुराणं परमाद्भुतम्
य इदं शृणुयान्नित्यं पुराणं वेदसम्मितम् । सर्वपापविनिर्मुक्तो देवीलोके महीयते
सूत उवाच एतन्मया श्रुतं व्यासात्कथ्यमानं सविस्तरम् । पुराणं पञ्चमं नूनं श्रीमद्भागवताभिधम्
योगमायाप्रभाववर्णनम् ऋषय ऊचुः भवता कथितं सूत महदाख्यानमुत्तमम् । कृष्णस्य चरितं दिव्यं सर्वपातकनाशनम्
सन्देहोऽत्र महाभाग वासुदेवकथानके । जायते नः प्रोच्यमाने विस्तरेण महामते
वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम् । विष्णोरंशावतारेण शिवस्याराधनं कृतम्
वरप्रदानं देव्या च पार्वत्या यत्कृतं पुनः । जगन्मातुश्च पूर्णायाः श्रीदेव्या अंशभूतया
ईश्वरेणापि कृष्णेन कुतस्तौ सम्प्रपूजितौ । न्यूनता वा किमस्त्वस्य तदेवं संशयो मम
सूत उवाच शृणुध्वं कारणं तत्र मया व्यासश्रुतञ्च यत् । प्रब्रवीमि महाभागाः कथां कृष्णगुणान्विताम्
वृत्तान्तं व्यासतः श्रुत्वा वैराटीसुतजस्तदा । पुनः पप्रच्छ मेधावी सन्देहं परमं गतः
जनमेजय उवाच सम्यक्सत्यवतीसूनो श्रुतं परमकारणम् । तथापि मनसो वृत्तिः संशयं न विमुञ्चति
कृष्णेनाराधितः शम्भुस्तपस्तप्त्वातिदारुणम् । विस्मयोऽयं महाभाग देवदेवेन विष्णुना
यः सर्वात्मापि सर्वेशः सर्वसिद्धिप्रदः प्रभुः । स कथं कृतवान्घोरं तपः प्राकृतवद्धरिः
जगत्कर्तुं क्षमः कृष्णस्तथा पालयितुं क्षमः । संहर्तुमपि कस्मात्स दारुणं तप आचरत्
व्यास उवाच सत्यमुक्तं त्वया राजन् वासुदेवो जनार्दनः । क्षमः सर्वेषु कार्येषु देवानां दैत्यसूदनः
तथापि मानुषं देहमाश्रितः परमेश्वरः । कृतवान्मानुषान्भावान्वर्णाश्रमसमाश्रितान्
वृद्धानां पूजनं चैव गुरुपादाभिवन्दनम् । ब्राह्मणानां तथा सेवा देवताराधनं तथा
शोके शोकाभियोगश्च हर्षे हर्षसमुन्नतिः । दैन्यं नानापवादाश्च स्त्रीषु कामोपसेवनम्
कामः क्रोधस्तथा लोभः काले काले भवन्ति हि । तथा गुणमये देहे निर्गुणत्वं कथं भवेत्
सौबलीशापजाद्दोषात्तथा ब्राह्मणशापजात् । निधनं यादवानां तु कृष्णदेहस्य मोचनम्
हरणं लुण्ठनं तद्वत्तत्पत्नीनां नराधिप । अर्जुनस्यास्त्रमोक्षे च क्लीबत्वं तस्करेषु च
अज्ञत्वं हरणे गेहात्तत्प्रद्युम्नानिरुद्धयोः । एवं मानुषदेहेऽस्मिन्मानुषं खलु चेष्टितम्
विष्णोरंशावतारेऽस्मिन्नारायणमुनेस्तथा । अंशजे वासुदेवेऽत्र किं चित्रं शिवसेवने
स हि सर्वेश्वरो देवो विष्णोरपि च कारणम् । सुषुप्तस्थाननाथः स विष्णुना च प्रपूजितः
तदंशभूताः कृष्णाद्यास्तैः कथं न स पूज्यते । अकारो भगवान्ब्रह्माप्युकारः स्याद्धरिः स्वयम्
मकारो भगवान् रुद्रोऽप्यर्धमात्रा महेश्वरी । उत्तरोत्तरभावेनाप्युत्तमत्वं स्मृतं बुधैः
अतः सर्वेषु शास्त्रेषु देवी सर्वोत्तमा स्मृता । अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः