तासु पुत्रा दश दश भविष्यन्ति महाबलाः । इत्युक्त्वोपररामाशु शङ्करः प्रियदर्शनः
उवाच गिरिजा देवी प्रणतं मधुसूदनम् । कृष्ण कृष्ण महाबाहो संसारेऽस्मिन्नराधिप
गृहस्थप्रवरो लोके भविष्यति भवानिह । ततो वर्षशतान्ते तु द्विजशापाज्जनार्दन
गान्धार्याश्च तथा शापाद्भविता ते कुलक्षयः । परस्परं निहत्याजौ पुत्रास्ते शापमोहिताः
गमिष्यन्ति क्षयं सर्वे यादवाश्च तथापरे । सानुजस्त्वं तथा देहं त्यक्त्वा यास्यसि वै दिवम्
शोकस्तत्र न कर्तव्यो भवितव्यं प्रति प्रभो । अवश्यम्भाविभावानां प्रतीकारो न विद्यते
तत्र शोको न कर्तव्यो नूनं मम मतं सदा । अष्टावक्रस्य शापेन भार्यास्ते मधुसूदन
चौरेभ्यो ग्रहणं कृष्ण गमिष्यन्ति मृते त्वयि । व्यास उवाच इत्युक्त्वान्तर्दधे शम्भुः सोमः ससुरमण्डलः
उपमन्युं प्रणम्याथ कृष्णोऽपि द्वारकां ययौ । यस्माद् ब्रह्मादयो राजन् सन्ति यद्यप्यधीश्वराः
तथापि मायाकल्लोलयोगसंक्षुभितान्तराः । तदधीनाः स्थिताः सर्वे काष्ठपुत्तलिकोपमाः
यथा यथा पूर्वभवं कर्म तेषां तथा तथा । प्रेरयत्यनिशं माया परब्रह्मस्वरूपिणी
न वैषम्यं न नैर्घृण्यं भगवत्यां कदाचन । केवलं जीवमोक्षार्थं यतते भुवनेश्वरी
यदि सा नैव सृज्येत जगदेतच्चराचरम् । तदा मायां विना भूतं जडं स्यादेव नित्यशः
तस्मात्कारुण्यमाश्रित्य जगज्जीवादिकं च यत् । करोति सततं देवी प्रेरयत्यनिशं च तत्
तस्माद् ब्रह्मादिमोहेऽस्मिन्कर्तव्यः संशयो न हि । मायान्तःपातिनः सर्वे मायाधीनाः सुरासुराः
स्वतन्त्रा सैव देवेशी स्वेच्छाचारविहारिणी । तस्मात्सर्वात्मना राजन् सेवनीया महेश्वरी
नातः परतरं किञ्चिदधिकं भुवनत्रये । एतद्धि जन्मसाफल्यं पराशक्तेः पदस्मृतिः
माभूत्तत्र कुले जन्म यत्र देवी न दैवतम् । अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक्
इत्यभेदेन तां नित्यां चिन्तयेज्जगदम्बिकाम् । ज्ञात्वा गुरुमुखादेनां वेदान्तश्रवणादिभिः
नित्यमेकाग्रमनसा भावयेदात्मरूपिणीम् । मुक्तो भवति तेनाशु नान्यथा कर्मकोटिभिः
श्वेताश्वतरादयः सर्वे ऋषयो निर्मलाशयाः । आत्मरूपां हृदा ज्ञात्वा विमुक्ता भवबन्धनात्
ब्रह्मविष्ण्वादयस्तद्वद् गौरीलक्ष्म्यादयस्तथा । तामेव समुपासन्ते सच्चिदानन्दरूपिणीम्
इति ते कथितं राजन् यद्यत्पुष्टं त्वयानघ । प्रपञ्चतापत्रस्तेन किं भूयः श्रोतुमिच्छसि
एतत्ते कथितं राजन्मयाख्यानमनुत्तमम् । सर्वपापहरं पुण्यं पुराणं परमाद्भुतम्
य इदं शृणुयान्नित्यं पुराणं वेदसम्मितम् । सर्वपापविनिर्मुक्तो देवीलोके महीयते
सूत उवाच एतन्मया श्रुतं व्यासात्कथ्यमानं सविस्तरम् । पुराणं पञ्चमं नूनं श्रीमद्भागवताभिधम्
योगमायाप्रभाववर्णनम् ऋषय ऊचुः भवता कथितं सूत महदाख्यानमुत्तमम् । कृष्णस्य चरितं दिव्यं सर्वपातकनाशनम्
सन्देहोऽत्र महाभाग वासुदेवकथानके । जायते नः प्रोच्यमाने विस्तरेण महामते
वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम् । विष्णोरंशावतारेण शिवस्याराधनं कृतम्
वरप्रदानं देव्या च पार्वत्या यत्कृतं पुनः । जगन्मातुश्च पूर्णायाः श्रीदेव्या अंशभूतया